सुशर्मोवाच
अतः परं प्रवक्ष्यामि१ नरकं कालसूत्रकम् ।
समन्तान्महतोच्चेन प्राकारेण सुसंवृतम् ॥ १ ॥
लोहजालेन च तथा आकाशेप्यभिसंवृतः ।
यथैकश्च तथा सर्वे नरका अभिसंवृताः ॥ २॥
सोच्छ्रयाश्चैव विज्ञेया न वक्ष्ये तानहम्४ पुनः ।
लोकद्रुहो५ जनास्तत्र यात्यन्ते६ पुरुषाधमाः ॥३ ॥
ये हरन्ति स्त्रियम्७ वापिविक्रेता८ यस्तथा९ गवाम् ।
धर्मस्य चात्मनश्चैव ब्राह्मणानां च निन्दकः ॥४॥
छद्मना यश्च शास्त्राणि१० गुरुभ्योपह्नवेत्११ पुनः ।
गुरुं निन्दति यश्चापि १२ वितर मातरं तथा ॥५॥
सञ्ज्ञके - ख. । ३८… द्वयं तु संयात्य - ख, द्वयं तु तत्तीर्णा - घ । ३९ पुरं च - ख. । ४० उत्थाय - घ. । ४१ पतिताः - घ. । ४२… णामुपस्मृतः - घ । ४३ इदं - ख. । ४४.. .पलभ्यं - घ । ४५ साम्प्रतं - घ., शाल्मलिम् - ख ।
अतः परस्तृतीयस्तु - क., तृतीयन्तु - ख. । २ नरकः कालसूत्रकः - क । ३ सुसंवृतः - क. । ४ तदहं - क. । ५ शोकद्रोहं - क. ख., शोकद्रोहकरा - घ. । ६ पात्यन्ते - घ. । ७ श्रिय - घ. । ८ वाजिविक्रेता - ख, चाश्वं - घ. । ९ विक्रेतारस्तथा - घ. । १० दत्त्वा चैव महद्द्रव्यं - घ. । ११ शिक्षा निह्नवेत् - ख. । १२ यो गुरुं निन्दते चापि - क., शास्त्रं गृह्य गुरुं निन्देत् - ख. ।
श्वशुरं भ्रातरं ज्येष्ठं१३ तथा चान्यान् गरीयसः ।
आक्रोशयति१४ यस्तान्वै तथा चाप्यवमन्यते ॥६ ॥
आश्रमाणां तथा भेत्ता रहस्यानां च सर्वशः ।
अदत्तं यः समादद्यात् स गच्छेद् द्विज तत्र वै१५ ॥७॥
ते तत्र पतिता घोरे नरके पापचेतसः ।
तिस्रः कोटीस्तु सम्पूर्णा वर्षाणान्तु नराधमाः ।
यात्यन्ते मृत्युवचनात्१६ क्रन्दमाना विचेतसः ॥८॥
कालसूत्रेण महता मित्वा मित्वा तु दुष्कतम् ।
छिन्दन्त्यङ्गानि जन्तूनां कुण्ठाग्रैरायुधैर्भृशम् ॥९॥
किङ्करैस्तैरविश्रान्तं१७ दिवारात्रमतन्द्रितैः१८ ।
पूर्णे काले१९ ततो जन्तुरुच्छ्रयान्२० प्रतिपद्यते ॥8.39.१०॥
विश्राम्य स तदा जन्तुः पात्यते२१ नरके पुनः ।
यावदस्य कृतं पापं क्षीणं सर्वमशेषतः ॥११ ॥
य इमं बहुपापकर्तृसूत्रं शृणुयाद् दुष्करलोककर्मसूत्रम् ।
न स याति२२ तदुग्रदुःखसूत्रं नरकं तद् यमलोककालसूत्रम् ॥१२॥
इति स्कन्दपुराणे नरकवर्णने कालसूत्रं नाम ऊनचत्वारिंशत्तमोध्यायः