३८

सुशर्मोवाच
अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः ।
यात्यन्ते१ तत्र पुरुषाः सुभृशम्२ पापकर्मिणः ॥१ ॥

शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर ।
उच्चास्सर्वाश्च ता घोरा बहुयोजनविस्तृताः ॥२ ॥

महाशाखा महापत्रा महाकण्टकसंयुताः३ ।
लौहेन महता चैव प्राकारेणाभिसंवृताः ॥ ३ ॥

जालेन महता सर्वा४ उपरिष्ठान् समावृताः ।
पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः । ४४॥

वज्रदण्डोपलधरा५ असिमुद्गरधारिणः ।
अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः६ ॥ ५॥

यातयन्ति भृशं जन्तूनवशास्ते८ सुदारुणाः९ ।
छिद्यमानाश्च तत्रापि राक्षसैः क्रूरकर्मभिः ॥६॥

दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः ।
व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते ॥७॥

गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः ।
शस्त्रैश्च विविधाकारै१० र्निकृन्तन्त्यतिदारुणाः११ ॥८ ॥


वहु पापस्य सहेत - ख. । ९६ याति - क ख. ग. ।
पतन्ति - घ. । २ स्वदृशं - घ. । ३ महाकण्टकिभिर्द्रुमाः - ख. । ४ सर्वमुपरिष्टात् - घ. । ५ टङ्को- पलधारा - ख ग. । ६ धृ (र्धू) तपाणयः - ख. घ. । ७ पातयन्ति - क ख. ग, घातयन्ति - घ । ८ मुखरास्ते - घ । ९ सदावशा. - घ. । १० अन्यैर्नानाविधाकारै - क. । ११ निकृत्यन्तेतिदारुणैः - ख ।


श्रावयन्तः१२ पुरानेन१३ कृतं पापं दुरात्मना१४ ।
भर्त्सयन्तश्च१५ दुर्वृत्तं पतितं क्वचिदेव हि१६ ॥ ९ ॥

तत उत्थाय भिन्नाङ्गः सोनुबद्धश्च राक्षसैः ।
सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते ॥8.38.१० ॥

तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः ।
भिद्यमानो नदन्१७ दुःखान्निपतत्यतिदुःखितः ॥ ११ ॥

तत्राप्येनं समासाद्य विविधायुधपाणयः ।
राक्षसाभिद्रवन्त्येव१८ वैरिणो१९ वैरिणं२० यथा ॥ १२॥

तस्मादुत्थाय२१ वेगेन वृक्षं यद्यभिरोहति ।
तत्र२२ तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यतेपि च२३ ॥ १३ ॥

पत्रैश्च२४ विविधाकारैरयस्तुण्डैश्च पक्षिभिः ।
हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले ॥ १४॥

तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते ।
एवं बहुविधाकारा यातनास्तत्र दुःखिताः ॥१५॥

प्राप्नुवन्ति दुराचारा ये तान्निगदतः२५ शृणु ।
अग्निदो गरदाता च वियोनौ२६ यश्च गच्छति ॥१६॥

पुंसि यो वोच्छृजेच्छुक्रं२७ विषदो मांसविक्रयी ।
समुद्रयायी दुष्टात्मा यश्चैको मिष्टमश्नुते२८ ॥ १७॥

अतिथिन्नार्चयेद्यश्च२९ यश्च मिथ्याव्रती भवेत्३०।
ब्रह्मोज्ळ(?)श्च३१ विवासाश्च योपः प्रविशते द्विजः३३ ॥१८॥

घण्टिको ग्रामयाजी च शूद्राध्यापक एव च३४ ।
तथा वार्धुषिको लुब्धो३५ ब्रह्मणश्चैव विक्रयी३६ ॥१९॥


श्रावयन्ते - ख. । १३ पुराणानि - घ । १४ महाबलाः - क. ग. घ. । १५.. न्त्येव - ख । १६ केचिदेव हि - क. । १७ रुदन् - घ. । १८… भिभवन्त्येवं - घ. । १९ वैरिणं - घ. । २० वैरिणो - घ. । २१ अस्मादुत्याय - ख. घ. । २२ अत्र - ख. । २३ वा - ख. । २४ यन्त्रैश्च क. ख । २५ तान्मे निगदतः - ग.,.. .मेतान्निगदितान् - घ. । २६ अयोनौ - क- घ. । २७ विन्यसे.. - क. घ., च्छृजते शुक्रं - क, गर्भं - घ. । २८ मृष्टमश्नुते - क. । २९ अतिथीन्नार्चयेद्यश्च - घ., यस्तु - ख. घ. । ३० मिथ्याचरति यो व्रती ऽ तम्) - ख., मिथ्याप्रवी (ब्रुवो) - क. । ३१ ब्रह्महा - घ. । ३२ विवस्त्रश्च - ख. । ३३ नरः - ख । ३४ देवद्रव्याप्रहारकः - घ. । ३५.. कान्नाध्वा - घ. । ३६ विक्रेता चैव ब्रह्मणः -.. .विक्रेता ब्रह्मणस्तु- यः घ. ।


एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसञ्ज्ञकम्३७ ।
कोटीद्वयेन तूत्तीर्णा३८ वर्षाणां वै पुनश्च३९ ते ॥8.38.२० ॥

उच्छ्रये४० पातिताः४१ स्तोकं कालं विश्राम्य वै पुनः ।
पात्यन्ते नरके तस्मिन् यावत् क्षीणं तदेनसम् ।
एषैव विधिरन्येषां नरकाणां मुने स्मृतः४२ ॥२१ ॥

य इमं४३ भृशदुःखितोपलम्भं४४ सुकृतीनामतिदुर्गमाचलम् ।
शृणुयात् प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम्४५ ॥२२॥

इति स्कन्दपुराणे नरकवर्णने कूटशाल्मलिकथनं नाम अष्टत्रिंशोध्यायः