३७

सनत्कुमार उवाच
ततस्ते पितरस्तस्य प्रतिष्ठाम्१ स्वसुतं प्रति२ ॥

सुमर्माणमिति ख्यातं कथयामासुरव्ययाः ॥१ ॥

पितर ऊचुः
अयन्ते३ जनकः पुत्र४ सुशर्मा लोकविश्रुतः ।
कथायिष्यति तत्त्वेन यत्त्वया समुदाहृतम् ॥२ ॥

सनत्कुमार उवाच
ततः सुशर्मा विप्रर्षे तमामन्त्र्य५ महामनाः६ ।
उवाचेदं महासत्त्वम्७ सुकेशं गणसत्तमम् ॥३ ॥

सुशर्मोवाच
सुकेश न वयं साक्षात् पतिता नरकार्णवे ।
त्वय्यालम्बितचित्तास्तु पतिष्यामस्त्वया विना ॥४॥

किन्तु तद्यातनाभीताश्चिन्तयामस्त्वहर्निशम् ।
कीदृशास्ते महाघोरा नरकाः श्रुतिदारुणाः ॥५॥

ततस्ते कथयिष्याम यथाप्रज्ञं यथाश्रुतम् ।
गणेश्वरेश८ शृणु मे९ नरका ये १० प्रकीर्तिताः ॥६॥


स्तत्सर्वं विस्तरेण तु - ष. । १०७ पितृपक्षे - घ. ।
पितरं - घ. । २ सुमहाप्रभं - घ. । ३ अयन्नो - घ. । ५८ पुत्रः - ग. । ५ तमोहन्ता - घ । ६ महाबलाः - घ. । ७… त्व - घ. । ८ गणेश्वर त्वं - घ. । ९ ये - ख. । १० मे - ख. ।


दुरासदा महादुर्गाः सर्व११ प्राणिभयङ्कराः ।.
प्रथमो नरकस्तत्र विश्रुतो यमलाचलः१२ ॥७॥

द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः ।
कुम्भीपाकश्चतुर्थश्च असिपत्रवनोपरः१३ ॥८॥

तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः१४ ।
अष्टमः पद्म इत्येव महापद्मस्तथापरः ॥९॥

रौरवो दशमश्चैव महारौरव एव च ।
द्वादशश्च तमो नाम तमस्तमतरस्तथा१५ ॥8.37.१० ॥

एते महान्तो नरका उच्छ्रायाश्च तथापरे ।
एकैकस्योच्छ्रया ह्यष्टौ नरकास्तेपि कीर्तिताः ॥ ११ ॥

उच्छ्रयेषु सविश्रामा यातना भवतीश्वर१६ ।
इतरेषु त्वविश्रामो विशेषो ह्येष१७ कीर्तितः ॥ १२॥

तेषां सततदुःखं तु नॄणां पापेन कर्मणा१८ ।
भेदः क्षयाच्च१९ पापस्य क्रमस्तेषां प्रवक्ष्यते२० ॥१३ ॥

प्रमाणं तु गणेशेह न शक्यं२१ वक्तुमेकशः ।
विभुत्वात् कर्मणस्तस्य क्षयादन्तं प्रपश्यति२२ ॥१४॥

नरके पतितः२३ सर्वो नान्तं तस्य प्रपश्यति ।
क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मेव्यय ॥ १५॥

पतितो२४ नरके घोरे दुष्कृती स्वेन२५ कर्मणा ।
यात्यमानो२६ तिकरुणं२७ दिशमेकां प्रपद्यते ॥१६॥

स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम् ।
बहूनन्या२८ ननासाद्य तस्यान्तं२९ विनिवर्तते ॥ १७॥


सर्वे - घ. । १२ यमलोचनः - घ. । १३… स्ततः परः - घ. । १४ यमः - घ. । १५ ततस्तमपरस्तमः - घ., स्तमोत्तमः - ग. । १६ त्वरः - ग. । १७ ह्यत्र - ख. । १८ तु पापकर्मणाम् - घ. । १९ भेदक्षयश्च - ख । २० प्रवर्तते - घ. । २१ न शक्यं - क. ग., वै शक्यते - घ. । २२ प्रयस्यति - ग. । २३… तितवः - क. ग. । २४ पातितो - ख, पतते - घ । २५ दुष्टतित्वेन - घ. । २६ पात्यमानो - घ., पात्यमानो पि - ख. । २७ करुणां - क. । २८… ध्या - क. ग. । २९ तस्मात - ग. ।


विनिवृत्य ततो भूयो यात्यमानो विचेतनः ।
अन्या दिशं३० पुनर्गत्वा तथैव विनिवर्तते ॥१८॥

एवं सर्वा दिशो३१ गत्वा ह्यन्तमप्राप्य दुःखितः ।
यात्यते करुणं तत्र न कश्चिदिह विद्यते ॥१९॥

यातनान्ते त्वकरुणं३२ पापस्यान्ते ततः पुनः ।
प्रपश्यते३३ परिमितं परिच्छिन्नं च सर्वशः ॥8.37.२०॥

द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते ।
एवं हि नरकास्सर्वे ह्यनन्ताश्चाक्षयाव्ययाः ॥२१ ॥

न तेषां परिसङ्ख्यानं योजनैस्संविधीयते ।
येन कालेन तु पुनर्जन्तुः पतति३४ दुःखितः ॥२२॥

यथा३५ चैतच्छृणु विभो कथ्यमानं मयानघ३६ ।
कृत्वा पापानि कर्माणि क्षयान्ते३७ दुष्टचेतनः३८ ॥२३ ॥

व्याध्याधियुक्तः क्लेशेन त्यजति स्वान्तनून् ततः ।
यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः ॥२४॥

विषमेण पथा देव नीयते विकृताकृतिः३९ ।
अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः ॥२५॥

केशमज्जास्थिपङ्कैश्च४० दिह्यमान४१ स्समन्ततः ।
विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः४२ ॥ २६ ॥

क्वचिच्चोपलवर्षेण महता सन्निकीर्यते ।
तत्र भिन्नशिरोजानुपादबाहूरूबन्धनः ॥२७॥

कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः४३ ।
यात्यते४४ भिद्यते चैव वल्लीभिश्चा४५ वबद्ध्यते४६ ॥२८॥

एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो ।
नीयमानो वशः४७ क्लेशान् प्राप्नोति यमसादनम्४८ । २९॥


दिशां - क. ग. । ३१ सर्वदिशो - ग. । ३२ तु करुण - ख. । ३३ प्रपश्यन्ते - - क ख । ३४ काले पुनः जन्तुः पथिभिः पथि - ख. । ३५ तथा - घ, वै - ख. । ३६ पतन्ति घोरेस्मिन् तत् शृणुह्यपरं विभो - घ., तयानघ - ख. । ३७ भ्रमन्ते - घ. । ३८ चेतसः - ख.,… चेतसां - घ. । ३९… ति - क. ग- । ४० केशामेध्यास्थिपङ्कैश्च - क. घ. । ठ १ दह्यमानः - क ख. घ. । ४२ प्रतापा (प्रपाता) विचेतनः - घ । ४३… र्वृतः - घ. । ४४ पात्यते - ख, पाद्यते - घ. । ४५ बलिभिश्चा - घ. । ४६. पि बध्यते. - घ. । ४७ नीयमना स वै - घ., वशं - क. । ४८ मयसाधनं - ख. ।


स ततो यममप्राप्य दूरादेव यमाज्ञया।
चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम्॥8.37.३०॥

सोमोग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम्४९ ।
साक्षिणस्तत्र जन्तूनां५० ब्रुवते यत् कृताकृतम्५१ ॥३१॥

उक्तो विभावितश्चैव चित्रगुप्तेन चोषितः।
नरके पात्यते आर्त्त५२ ऊर्ध्वपादो ह्यधःशिराः५३ ॥३२॥

तोमरै५४ श्चातितीक्षणाग्रैश्शरैश्चाथ परश्वधैः।
भिन्दिपालैर्मुद्गरैश्च अतिभिर्दीर्घवेधनैः५५ ॥३३॥

परिघैः करपत्रैश्च वज्रैष्टङ्कैर्हलोपलैः५६।
कीलैश्च मुशलैश्चैव क्षारपिष्टेन चैव हि॥३४॥

प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत ।
हन्यमानो दिवारात्रं विनदन्५७ करुणं बहु ॥३५॥

वर्षाणां तु सहस्रेण नरकं प्राप्नुते शुभम्।
स तत्र पतितो भूयो यात्य५८मानः सुदुःखितः ॥३६॥

वर्षकोटिमविश्रान्तं५९ निरयान्तं प्रपद्यते।
महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः॥३७॥

शीतेन वायुना स्पृष्टः सुखं६० तत्र स विन्दति।
स तं विश्राममासाद्य विस्मृतो यातनां तदा ॥३८॥

मुहूर्त्तमाहृते६१ स्वप्ने राक्षसेनापकृष्यते।
स तेन कृष्यमाणश्च भूयो दुःखशुचार्दितः६२ ॥३९॥

करुणं बहुधातीव६३ प्रविलप्यावतिष्ठते६४।
ततो भूयः समाकृष्य यातनायां स राक्षसः॥8.37.४०॥

यातयत्येव ६५ तं जन्तुं सविश्रामं६६ सचेतसम्६७ ।
तत्र वर्षसहस्रं वै यातितः पुनरेव सः॥४१॥


तदाननम् - घ. । ५०.. स्सर्वजन्तूनां - ध. । ५१ कर्म यत् - क. ग. । ५२ निपतत्यार्त - क. ग., निपतत्याशु - घ । ५३. ..,त्यधशिराः - ख., ह्यधोमुखः - घ । ५४ तैरेतै - घ. । ५५ ऋष्टिभिर्दीर्घ- वेधनैः घ. भेदनैः- - ख घ- । ५६. ज्वलोपलैः - क घ. । ५७ विलप ( न्) - घ. । ५८ याप्य… - घ. । ५९ प्रविश्रम्य - कः ग,, स विश्राम्य - घ. । ६० दुःखं - क । ६१ मुहूर्ते प्रगते - घ । ६२ दुःखेन चार्दितः क ख । ६३ चैव - क । ६४ विप्रलप्यावतिष्ठते - क. । ६५ पातयत्येव? । ६६ जन्तुमवि-श्रामम्? । ६७ सचेतनम् - ख. ।


अन्यस्मिन्नुच्छ्रये घोरे यात्यते६८ तावदेव हि ।
एवं स उच्छ्रयान् प्राप्य अष्टौ पापेन कर्मणा ॥४२ ॥

संसारे६९ कृमिकीटादिजन्तुः सम्प्रतिपद्यते ।
ये तु गच्छन्ति तान् घोरान् नरकान्७० पुरुषाधमाः॥४३ ॥

तानहं सम्प्रवक्ष्यामि तव पुत्र समासतः ।
प्रथमो यो मया प्रोक्तो नरको यमलाचलः ॥४४॥

यात्यन्ते७१ तत्र पुरुषा महानिरयगामिनः ।
पर्वतौ द्वौ भहासत्वसिंहव्याघ्रसमाकुलौ ॥४५॥

शरभेभसमाकीर्णौ७२ बहुसर्पसमाकुलौ७३ ।
पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः ॥४६॥

वृक्षैरपर्ण्णैस्संयुक्तौ सूचीभिर्वज्रकण्टकैः ।
तयोरन्तरमेकं वै समं सूचीभिरावृतम् ॥४७॥

ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च ।
अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतौ७४ ॥४८॥

प्राकारेण च लौहेन७५ समन्तात् परिवारितौ ।
आकाशे चापि लौहेन तौ जालेन७६ समावृतौ ॥४९ ॥

यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम् ।
आक्रमन्ति परक्यां७७ वै कन्यादूषक एव च ॥ 8.37.५० ॥

न्यासापहारकश्चैव तथा मांसापहारकः७८ ।
रसापहारकश्चैव यश्चापि परदूषकः ॥५१ ॥

इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च७९ ।
मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये ॥५२ ॥


पात्यते - घ. । ६९ ससार - क. घ.,.. र - ख. ग. । ७० तं घोरं नरकं - क. ख. घ. । ७१ पात्यन्ते - घ. । ७२… ण - ग. । ७३ समाकुलैः - ग. । ७४.. .रावृतैः - क । ७५ लोहेन - क. ख. ग. । ७६ तोजलेन - ख । ७७ पराक्यां - क., पाराक्य - ग., परकीया? ७८ मांसापहारकाः घ. । ७९ मिथ्यालापिन एव च - घ , मिथ्यालिङ्ग - ख. ।


वृथामांसाशिनो ये च हिंसां८० ये च प्रकुर्वते ।
एते नराधमाः पुत्र गच्छन्ति यमलाचलम्८१ ॥५३ ॥

यमलेषु८२ च जातेषु८३ यो न कुर्यान्नराधमः ।
प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते ॥५४॥

स प्रसन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः ।
आयुधैश्छिद्यमानश्च८४ पर्वतं तं प्रपद्यते८५ ॥५५॥

तत्र व्याघ्रैश्च८६ कुपितैः शरभैश्च८७ तरक्षुभिः ।
सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते ॥५६ ॥

तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहति ।
तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते८८ पक्षिभिश्च ह ॥५७॥

अथ चेत् कन्दरां तस्य गुहां वा यातुमिच्छति ।
तत्रापि ह्यग्निना दग्धो दुःखार्त्तो विनिवर्तते ॥५८॥

अथ चेदन्तरं घोरं तयोः सम्प्रतिप्रद्यते ।
तत्र सूचीभिरुग्राभिः८९ पादयोर्भिद्यते नरः ॥५९ ॥

भिन्नञ्च तं समालक्ष्य९० ह्यशक्तमपसर्पणे ।
समागमम्याचलौ क्षिप्रं पीडयेतामतीव हि ॥8.37.६० ॥

पीड्यमानोचलाभ्यां स९१ यन्त्रेणेक्षुवदातुरः ।
करुणं क्रन्दमानस्तु यातनां तां समश्नुते ॥६१ ॥

भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः ।
दग्धस्य च नवं भूयः शरीरमभिजायते ॥ ६२ ॥

एवं स यात्यमानो९२ वै बहूनब्दान् सुःदुखितः ।
द्वारं लब्ध्वा विनिर्यात९३ उच्छ्रायेषु९४ निपात्यते ॥६३ ॥


वृष - क. ग, विम्श - रव्र । ८१ यमलोचनं - घ. । ८२ अपराधेषु - घ. । ८३ यातेषु - घ. । ८४… श्छिद्यमानाश्च - क. ग., छिद्यतेतमं - ख । ८५ स च तं प्रतिपद्यते - ख. । ८६ सिंहैश्च - ख. । ८७ शार्दूलैस्स - .ख. । ८८.?. र्भक्ष्यते - व. । ८९ सूचिभिरुग्राभिः - ग. । ९० ससालोक्य - घ । ११ च - क ख. । ९२ पात्यमानो - घ । ९३ विनिःसृत्य - क. ख. घ. । ९४ उच्छ्रयेषु - क. ।


यमलाचलमेतमुग्रवेगं बहुधापापसमेत९५कर्मयोगम् ।
शृणुयाद्य अभीक्ष्णशोतिवेगं स न यात्येव९६ तमुग्रपापयोगम् ॥६४ ॥

इति स्कन्दपुराणे नरकवर्णने यमलाचलकथनं नाम सप्तत्रिंशोध्यायः