सनत्कुमार उवाच
ततः स भगवान् देवः सुकेशं गणपं पुनः ।
चकार ब्राह्मणं व्यास तपः सत्यपरायणम् ॥१ ॥
व्यास उवाच
कथं स ब्राह्मणः पूर्वं गणेशत्वमुपागतः ।
केनास्य तपसा तुष्टो गणेशत्वम्१ ददौ प्रभुः ॥२॥
सनत्कुमार उवाच
आसीद्वसिष्ठकुलजो ब्राह्मणस्सत्यवाक् शुचिः२ ।
तीर्थयात्रास्वभिरत३ उपवासपरायणः ॥३ ॥
स कदाचिद्विदेशस्थो वने पश्यन् पथि स्थितम् ।
व्याघ्रं व्यात्ताननं घोरं नखदंष्ट्रायुधं तदा४ ॥४॥
दृष्ट्वा तं स तदा विप्रस्त्यक्त्वा पन्थानमाशुगः ।
विवेश महतीं घोरामटवीं प्राणिवर्जिताम्५ ॥५॥
तत्रापश्यत् स पुरतो वीरणस्तम्बमाश्रितान्६ ।
पुरुषाल्ँलम्बमानाँश्च क्रन्दमानान् सुदुःखितान्७ ॥६॥
तानवाक्शिरसो दृष्ट्वा लम्बमानांस्तदा द्विजान् ।
के यूयमिति पप्रच्छ ते चैन८ मिदमूचिरे ॥७॥
गतमन्युं - क. । १६४ तमसा - ख. । १६५ विजिगीषमाणं - क. । १६६.. रावनतं - क. ख. घ. । १६७ मन्युमिति - क, मन्युरिति? ख ।
गणपत्व - ख. । २ छुचिः - क,… ञ्छुचिः - ख. । ३.. यात्रासु निरतः - घ. । ४ वरं - क. ख. । ५ शार्दूलं विपिने दृष्ट्वा मार्गमुत्क्रम्य मा ( चा) शुगः । विवेशान्यद्वनं घोरं सर्वप्राणिविवजितम् । इति ख. पुस्तकपाठः । ६ स्तम्भ - ख. घ. । ७,.. नाँश्च दुःखितान् - घ. । ८ तमेवं… - घ., ते चैव - क. ख, ।
पितर ऊचुः
तव स्मः पितरस्सर्वे नरकेस्मिन्नधोमुखाः ।
वीरणे त्वयि लम्बामस्तव दोषेण दुर्मते ॥८॥
पुत्रानिच्छन्ति मनुजास्तारयिष्यन्ति नस्त्विमे९ ।
नरकादिति स त्वन्नः पातयिष्यसि दुःखितान् ॥९॥
विप्र उवाच
मया तीर्थाभिगमनात् तपो यत्१० समुपार्जितम् ।
जन्मप्रभृति यच्चापि मया किञ्चित् कृतं शुभम् ।
तेन यूयमितो गर्त्तादुद्धरध्वं११ पितामहाः ॥ 8.35.१० ॥
पितर१२ ऊचुः
न वयं तपसा१३ शक्या न यज्ञैर्नाप्यतोन्यथा१४ ।
गर्त्तादस्मात्समुद्धर्तुं यद् ब्रूमस्तत्कुरुष्व नः ॥११॥
अपत्यं गुणसंयुक्तमुत्पादय तपोयुतम् ।
ततो वयमितो गर्त्तान्मुच्येम यदि मन्यसे ॥१२॥
विप्र उवाच
ऊर्ध्वरेताहमित्येतन्मया व्रतमुपाकृतम्१५ ।
न दारानाहरिष्यामि तारयिष्ये च वै पितॄन् ॥ १३ ॥
ततस्स तान् तथोत्सृज्य१६ दुःखेन महता वृतः ।
जगाम रुद्रं शरणं पितरोन्तर्हितास्ततः ॥१४॥
पितृष्वन्तर्हितेष्वेवं वायुभक्षस्तदा द्विजः ।
काष्ठलोष्ठोपलीभूतो निरुच्छ्वासोवतिष्ठत१७ ॥ १५ ॥
सन्धाय१८ मानसं१९ रुद्रे२० निश्चलः२१ सुसमाहितः२२ ।
हृदयेन जपन् रुद्रानाकाशे समतिष्ठत ॥१६॥
नास्ति मे - घ. । १० यत्तपः - घ. । ११… सर्वानुद्धरध्वं - ख. । १२ पितामहा - घ. । १३ युष्मत्तपसा - ख. । १४ यज्ञेनाप्यतोन्यथा - क. ख., शक्त्या त्वया ज्ञात्वा - घ. । १५,., मुपावृतं (?), मुपाहृतं - क,… मनुत्तमम्- घ. । १६ ततो (दो) त्सृज्य - क. ख. घ. । १७,.. तिष्ठति - ख. । १८ ध्याय मानस्ततो - ख, स ध्यायमानो रुद्रेति - घ. । १९ मनसो - क. । २० रुद्ध - ख. । २१ निश्चलं - ख. । २२… स्थितः - ख. ।
तस्य पूर्णे तदा मासि वातवर्षमभून्महत् ।
सर्वसत्वप्रमथनं दुस्सहं भीमशब्दवत् ॥ १७॥
तेन वर्षेण२३ महता नैव२४ तस्याभवत्तदा ।
दुःखं वाप्यथवा भङ्गः२५ सम्यगेवावतस्थिवान् ॥ १८॥
अथ तं भगवान् देवो मासे वर्तति सप्तमे ।
विष्णुरूपधरो भूत्वा प्रोवाच द्विजसत्तमम् ॥ १९॥
तुष्टोस्मि तव भद्रन्ते तपसानेन सुव्रत ।
वरं वरय विप्रर्षे यस्ते२६ मनसि वर्तते ॥ 8.35.२० ॥
सुकेशस्तु ततो दृष्ट्वा नारायणमुपागतम् ।
अब्रवीच्छङ्करादिच्छे२७ वरं न भवतो ह्यहम् ॥२१ ॥
विष्णुरुवाच२८
अलमेतेन विप्रर्षे निर्बन्धेन हरं प्रति ।
देवैरपि न शक्योसौ द्रष्टुं किमुत मानुषैः ॥२२॥
सुकेश उवाच
द्रष्टुं शक्यो न वा शक्यः किमेभिर्वो विचारितैः ।
कुग्रहः सुग्रहो वाहं तथापीशे मनो मम ॥२३ ॥
शङ्करादेव चक्रेश शुभं वा यदि वाशुभम् ।
वरं काङ्क्षे न च त्वत्तो२९ न चान्यस्मात् कथञ्चन ॥२४॥
भवन्तोपि हि तं देवं यस्मात् सर्वे समाहिताः ।
अर्चयध्वे३० स्तुवध्वे३१ च तस्माच्छ्रेष्ठः स उच्यते ॥२५॥
सनत्कुमार उवाच
तस्य तन्निश्चयं ज्ञात्वा सन्तुष्टो३२ भगवान् हरः ।
विष्णुरूपं परित्यज्य स्वं रूप प्रत्यपद्यत ॥२६॥
उवाच चैनं विप्रेन्द्र३३ गणपो३४ मे भवाक्षयः ।
अमरो जरया त्यक्तः सर्वदुःविवर्जितः ॥२७॥
मासेन - घ. । २४ नैवं - ख. घ. । २५ भङ्गं - घ. भङ्गो - क. । २६ यत्ते - क. घ. । २७.. त्तं हरादिच्छे - घ. । २८ देवदेव घ. । २९.. ह शत्रुघ्न - घ. । ३० अर्चयध्वं - क. ख. घ-, अर्चयध्वं सुरेशं च - घ. । ३१ स्तुवध्वं - क. ख. । ३२ तुतोष - क. ख. घ. । ३३ विपेन्द्रं - - क घ. । ३४ गणपस्त्वं - ख ।
ऐश्वर्येण च संयुक्तः प्रियो मम पुरस्सरः ।
इमं च३५ मत्कृतं दिव्यं त्रिकूटं नाम पर्वतम् ॥२८॥
भवनैः काञ्चनैर्युक्तं कामगं ते वदाम्यहम् ।
येषां कृते च पुत्र त्वं मां तोषयितुमुद्यतः ॥२९॥
ते चेमे३३ पितरस्सर्वे सुपुत्रेण त्वयानघ ।
तारिता नरकाद् घोराद् गणेशं त्वा३७ मुपस्थिताः ॥ 8.35.३० ॥
किङ्करास्ते भविष्यन्ति नित्यं दुःखविवर्जिताः ।
गणेश्वरास्तवैवेमे३८ भविष्यन्ति वशानुगाः३९ ॥ ३१ ॥
सुकेश इति नाम्ना च प्रथितस्त्वं भविष्यसि ।
सदा चाष्टगुणै४०श्वर्यसमायुक्तश्चरिष्यसि ॥३२ ॥
सनत्कुमार उवाच
ततस्स दृष्ट्वाथ पितॄन्नरकात् ससुहृज्जनान्४१ ।
तीर्णान्४२ गणेश्वरत्वेन पुनः पूज्येन संयुतान्४३ ॥३३॥
महेश्वरं हृष्टमनाः शिरसा प्राञ्जलिर्गतः ।
उवाच हृष्यमाणास्यस्तदा४४ वचनकोविदः ॥३४॥
सुकेश उवाच
भगवन् गणपत्वं च लब्धमैश्वर्यमेव च ।
अमरत्वं तथाक्षय्यं तथैवाजरता वरा४५ ॥३५॥
पितरस्तारिताश्चेमे४६ गणपाश्चैव मे कृताः ।
नगश्च कामगो४७ ह्येष लब्धो मे त्वत्प्रसादतः४८ ॥३६॥
इच्छामि त्वां४९ मह३देव सोमं सप्रवरेश्वरम्५० ।
सदा सुमुख५१ मत्यर्थं सुदृश्यं५२ चैव कामद५३ ॥३७॥
सनत्कुमार उवाच
स एवमुक्तो भगवान् सुकेशेन महात्मना ।
उवाचैव५४ मिदं सर्वं भविष्यति गणेश्वर ॥३८ ॥
इदं च - क. ख. घ. । ३६ त इमे - घ. । ३७ गणेशत्व - ख. घ. । ३८ … स्तमेवैते - ख. घ. । ३९ सदानुगाः - घ. । ४० नित्येष्ठ (नित्यमष्ट?) गुणै - ख. । ४१ ससुहृज्जनः - ग. । ४२ तीर्णो - ग. । ४३ संयुतः - ख. ग. । ४४ हर्षमाणश्च तदा - ख. । ४५… य्यमजरत्वमवाप्य च - ख. । ४६.. .श्चैव - ख. । ४७ कामतो - ख. । ४८ त्वत्प्रसादजः - क. । ४९ त्व - क., त्वा - ख. । ५० सहगणेश्वर - घ. । ५१ सुसुख - ख.. स्वसुख - घ. । ५२ स्वदृशं -घ., निकामं दर्शनं तव - ख. । ५३ कामदं - क. । ५४ … न - घ. ।
इमं गिरिं समाश्रित्य सहैभिः प्रवरैर्वरैः५५ ।
गच्छ स्वेष्टां५६ गतिं वत्स देवान् विप्राँश्च पालय ॥ ३९॥
विसृज्य तं ततो५७ देवः सुकेशं गणनायकम्५८ ।
जगामादर्शनं सोमः५९ सर्वेषामेव पश्यताम् ॥8.35.४० ॥
सुकेशोपि गिरौ तस्मिन्नगरे स्वर्गसन्निभे ।
नरकाणां६० स तत्त्वार्थं६१ पितॄन् पप्रच्छ यत्नतः ॥४१ ॥
व्यास उवाच
किमर्थं गणपो ब्रह्मन् तान् पितॄन् पर्यपृच्छत ।
कथञ्च पितरस्तत्र आचख्युस्तस्य धीमतः ॥४२ ॥
एतद्विस्तरशस्तात सङ्क्षेपाद्वा यथातथम् ।
त्वत्तोहं श्रोतुमिच्छामि हितं सर्वसुखावहम् ॥४३ ॥
सूत उवाच
स एवमुक्तः सुरसृक्सुतः प्रभुः६२ र्विमानकर्ता६३ विगतप्रयोजनः ।
जगाद वाक्यं सुरलोक६४ वर्धनः६५ पुराकृतं (?) दुष्कृतसर्वनाशनम् ॥४४॥
इति स्कन्दपुराणे सुकेशवरप्रदानं नाम पञ्चत्रिशोध्यायः