०३४

सनत्कुमार उवाच
एवं स भगवान् व्यास मेघमुत्सृज्य१ देवपः ।
वृषवाहः समभवद्२ यथा ते कथितं मया ॥१ ॥

व्यास उवाच
कथम्३ भगवती देवी कृष्णा गौरत्वमागता ।
कारणं तत्र किं चापि४ ह्येतदिच्छामि वेदितुम् ॥ २॥

सनत्कुमार उवाच
आसीनौ मन्दरप्रस्थे उमाकामाङ्गनाशनौ ।
रेमाते५ प्रमथैस्सार्धं नानारूपधरैस्तदा ॥ ३ ॥

अथ देवेन तत्रस्था क्रीडता सा कथान्तरे ।
कृष्णेत्युक्ता भगवती सा चुकोप मनस्विनी ॥४॥

कुपितां तां महादेवः परिष्वज्य महाद्युतिः६ ।
उवाचा सकृदव्यग्रः७ सान्त्वयन् मधुरं वचः ॥५ ॥


पापकर्मिणे - क. । १९७ देवप्रभवेन - क ।
जीमुत्वं सृज्य - घ. । २ स भगवान् - क. घ । ३ केय- - घ. । ४ वापि - घ. । ५ रेमतुः - क., रमतुः - ध. । ६ महामतिः - घ’ । ७,. .दव्यग्रं - घ. ।


देवदेव उवाच
देवि मा क्रोधमनघे कृथा८ विश्वसृगव्यये ।
हास्यं प्रकृतमेतन्मे कृष्णेति समुदाहृतम् ॥६ ॥

अद्य प्रभृति नानेन वचसाहं शुभानने ।
वक्ष्यामि त्वां त्यज क्रोधं - - - - ९ - - - - ॥७॥

सनत्कुमार उवाच
तमेवंवदिनं देवं श्रुत्वा गिरिवरात्मजा ।
अगमत् परमां तुष्टिमिदं चोवाच सुस्वरम् ॥८ ॥

देव्युवाच
त्वं गुरुस्सर्वलोकस्य पूज्यो भर्त्ता ममैव च ।

                                • ॥९॥
                              • ॥ 8.34.१० ॥

सनत्कुमार उवाच
इति तेनेष्टवचसा१० तुष्टो देव्याः पिनाकधृक् ।
वरेणच्छन्दयामास तयैषोभ्यर्थितो वरः ॥ ११ ॥

देव्युवाच
यदा यदा वदसि मां कृष्णेति वदतां वर ।
तदा तदा मे हृदयं विदीर्यत इव प्रभो ॥ १२॥

विज्ञापयामि सर्वेश गौरवर्णमनुत्तमम्११ ॥ १३ ॥

                                • ॥ १४। ॥

                                • जगद्भर्ता सुरेशान आत्मतुल्यपराक्रमः ॥ १५॥

वृथा - क. । ९ तामुवाच पिनाकधृक् - क । इतः परं पत्रद्वयं खण्डितं क. पुस्तके । १० ते नष्टवचसा - घ. । ११ गौरवं तमनुत्तमम् - घ. ।


अग्रणीः सर्वदेवानां सर्वदैत्यनिषूदनः१२ ।

                                • ॥ १६॥

यदि तुष्टोसि मे देव यदि देयो वरश्च मे ।
तपश्चरितुमिच्छामि तदनुज्ञातुमर्हसि ॥ १७॥

सनत्कुमार उवाच
ततो भवः१३ प्रहस्यैनामुवाच तपसा हि किम् ।
तपसा काङ्क्षितं यत्तु तदद्यैव ददामि ते ॥ १८ ॥

इत्युक्ता गिरिजा प्राह तप्ते तपसि पुष्कले ।
त्वमेव दाता भगवन् वरान् मह्यं यथेप्सितान् ॥१९॥ ।
तदा१४ विज्ञापितेनैवं१५ सर्वकार्यार्थदर्शिना ॥8.34.२० ॥ - - - - - - - ।
चरणौ च नमस्कृत्य शिवस्यामिततेजसः ॥२१ ॥

सा क्षणादागता देवी हिमवन्तं नगोत्तमम् ।
ददर्श ऋषिमुख्यानामाश्रमैरुपशोभितम् ॥२२॥

सरो मानसमासाद्य तथा बिन्दुसरश्च तत् ।
दिव्यां पाण्डुशिलां चैव गङ्गा१६ प्रभवमेव च ॥२३ ॥

ततो महालयं प्राप्य देवदारुवनं तथा ॥२४॥

अन्यानि च ततोग्र्याणि१७ वनान्यासाद्य सा सती१८ ।
तस्योत्तरेण शैलस्य गत्वा१९ चाति मनोहरम्२० ॥२५॥

अपश्यच्छिखरं दिव्यमेकमेकान्तमाश्रितम्२१ ।
चामीकरमयं दिव्यं सवौंषधिसमावृतम्२२ ॥२६॥

इन्द्रनीलमहानीलनीलोपलतलैः२३ शुभैः२४ ।
वृक्षैर्मणिमयैश्चित्रैः सर्वतः परिसंवृतम्२५ ॥२७॥


देवविषूदन घ। १३ वरः घ । १४ तथा(?) । १५. व घ। १६ गदां घ। १७ तपोग्राणां घ, ततोग्राणां… ग. घ. । १८ शाश्वती - घ. । १९ गता - घ. । २० सातिमनोहरम् - घ. । २१… ता - घ । २२.. समन्वितं -ग. ध. । २३ नीलोत्पलतलैः - ख… .घ, तलं - ख. घ. । २४ शुभं - ख. घ. । २५ परिवारितम् - घ ।


क्वचिदञ्जनपुञ्जाभं स्फटिकोपलमेव च२६ ।
क्वचिद्धेमोपलं दिव्यं काचिच्चित्रोपलं पुनः ॥२८॥

क्वचिन्मनःशिलाशृङ्गं२७ हरितालोपमं क्वचित् ।
शालैस्तालैस्तमालैश्च२८ प्रियालाम्रातकैरपि ॥ २९॥

अशोकैश्चम्पकैर्लोध्रैः कदम्बाम्रातिमुक्तकैः२९ ।
नागपुन्नागतिलकैः सुरभीचन्दनैरपि ॥8.34.३० ॥

धातकीकेतकीभिश्च तथैवोद्दालकैरपि ।
कदलीभिश्च चित्राभिः खर्जूरैः पनसैरपि ॥ ३१ ॥

बकुलैर्नालिकेरैश्च पद्मषण्डैश्च शोभितम् ।
कपित्थैः खदिरैश्चैव भव्यैः३० पारावतैरपि॥३२ ॥

मृद्वीकामण्डपैश्चैव तथाङ्कोठैः समावृतम् ।
सदा३१ पुष्पफलोपेतैश्चारुचामीकरप्रभैः ॥३३ ॥

तथा प्रस्रवणैश्चैव३२ नदीभिश्चोपशोभितम् ।
पक्षिभिर्मधुरालापैः३३ समन्ताच्चाभिनादितम् ॥३४॥

मयूरचातकोपेतं हंसचक्राह्वसङ्कुलम् ।
सारसैः खञ्जरीटैश्च हारीतैश्चाभिनादितम् ॥ ३५॥

जीवं जीवसमाकीर्णं३४ महिषर्क्षसमाकुलम् ।
सिंहशार्दूलचरितं३५ शरभेभसमाकुलम् ॥३६६॥

मेरुमन्दरसङ्काशं सर्वपुण्यफलप्रदम्३६ ।
रम्यं स्वर्गमिवागम्यं पापानां३७ क्रूरकर्मणाम्३८ ॥३७॥

श्रिया स्वलङ्कृतं साक्षा३९ दुद्यानमिव सत्कृतम् ।
तत्र केचिन्मधुफला वृक्षाः सर्वर्तुकामदाः४० ॥ ३८॥


स्फटिकोत्पलमेव च - ग. । २७. न्मणिच्छि (शि) लाशृङ्गं - ग, मनच्छि - ख । २८ शलतालत- मालैश्च - ख. ग । २९.. तमुक्तकैः - ख घ । ३० भवैः - घ., धवैः. (?) । ३१ मञ्जु - घ. । ३२ प्रसवनैश्चैव - ख. । ३३… भाषैः - - ख. । ३८ जीवञ्जीवकसङ्कीर्णं - घ. । ३५.?. चितं - ग. । ३६ सर्वपुष्पफलप्रदम् - ख. घ. । ३७ पापिना - ख । ३८ क्रूरकार्मिणाम् - ख. ग । ३९ श्रियालङ्कृतामा- वासं - घ.. स्वयं कृतावास (?), स्वलङ्कृतावासं - ख ग । ४० सर्वत्र कामदाः - ख घ. ।


अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः ।
अपरे सर्वपुष्पाणि फलानि च महीरुहाः ॥३९ ॥

पुष्प्यन्ते४१ च फलन्ते च काञ्चनाश्चापरे द्रुमाः ।
फलन्ति भक्ष्याण्यपरे४२ भोजनानि४३ च सर्वशः४४ ॥8.34.४० ॥

मानुष्याण्यथ दिव्यानि षड्रसानि महाद्रुमाः ।
वस्त्राण्यन्ये प्रसूयन्ते फलेष्वाभरणानि च४५ ॥४१ ॥

तथा बहुविधामन्ये शय्यां चा४६ भरणद्रुमाः (?) ।
अमाक्षिकं४७ मध्वपरे चामृतप्रतिमं नगाः ॥४२ ॥

भोगाँश्च विविधानन्ये तथैवाभरणानि च४८ ।
अन्ये४९ स्त्रीः सम्प्रसूयन्ते मनुष्याँश्च तथापरे ॥४३ ॥

सर्वा मणिमयी भूमिर्दिव्ये५० तस्मिञ्छिलोच्चये५१ ।
सुगन्धिः५२ पवनो वाति नात्यर्थं चोष्णशीतलः५३ ॥४४॥

यावदेव५४ महादेवी तं गिरिं५५ नाभिगच्छति५६ ।
प्रीत्यर्थं तावदेवासौ देव्या रुद्रेण निर्मितः ॥४५॥

तस्यैव च प्रसादेन नासौ गम्यः शिलोच्चयः ।
सर्वदेवनिकायानां भूतानाञ्चैव सर्वशः ॥४६॥

सनत्कुमार उवाच
तस्मिन् गिरिवरे देवी तपस्तेपे सुदुश्चरम् ।
वार्क्षे दधाना वसने रुचिरे५७ धर्मसाधने ॥४७॥

कदाचित्सा फलाहारा कदाचित्पर्णभोजना ।
कदाचिदम्बुभक्षाभूत्कदाचिदनिलाशना ॥४८ ॥

कदाचिदेकपादेन सूर्यस्याभिमुखी स्थिता ।
निगृहीतेन्द्रियग्रामा सा बभूव वरानना ॥४९ ॥


पुष्पन्ते - ख. घ. । ४२ भक्षाण्यपरे - ग. घ । ४३ ..भाजनानि - ख. घ । ४४ सर्वदा - ख. घ. । ४५ फलेष्टाभरणानि च - ग. । ४६ वा - घ । ८७ समाक्षीकं - ख । ४८ अत्राभरणानीति पुनरुक्तम् । ४९ अन्या - ख. । ५० दिव्या - ख. घ. । ५१ तस्मिन् शिलोच्चये - ख. घ. । ५२ सुगन्धः - ख. ग. घ. । ५३.. .शीतता - ग.! ५४… द्देवं (?) । ५५ गिरिजा - घ, । ५६ नाभ्यगच्छति ग- घ. । ५७ रुचिरे वाससी - ग. ।


महादेवनमस्कारा महादेवपरायणा ।
महादेवप्रिया देवी पुत्रार्थञ्च वरार्थिनी५८ ॥8.34.५० ॥

अजैकपादं रुद्रञ्च डिण्डिमुण्डेश्वरं५९ तथा ।
कापालिनं भारभूति६० माषाढिञ्चैव सानुगम् ॥५१ ॥

निकुम्भं गतमन्युं६१ च भूतमोहनमेव च ।
कालदण्डधरं चैव मृत्युदण्डधरं६२ तथा ॥५२॥

ब्रह्मदण्डधरं चैव घोरचक्रधरं६३ तथा ।
अन्तरिक्षचरान् घोरान् दिशासु विदिशासु च ॥५३ ॥

एतान् गुह्यान् गणाध्यक्षानदृश्यान् सर्वतोमुखान्६४ ।
प्रागेव तस्या रक्षार्थं महादेवो नियुक्तवान् ॥५४॥

उपरिष्टादधस्ताच्च तं गिरिं ते गणेश्वराः ।
अदृश्याः सर्वतश्चैव६५ न ररक्षुरमितौजसः ॥५५॥

न तस्य गिरिशृङ्गस्य रक्ष्यमाणस्य तैस्तथा६६ ।
देवदानवगन्धर्वाः शेकुर्गन्तु६७मुपान्तिकम्६८॥५६॥

प्रागेव स्थापितवती यानि चारुशिलातले ।
भूषणानि नदी तेभ्यो६९ जज्ञे पुण्यजलाश्रया ॥५७॥

तामलङ्कारधारेति विश्रुतां पापनाशिनीम्७० ।
पश्यन्त्यद्यापि७१ च जनाः सर्वकालजलां शुभाम् ॥५८॥

यस्मिन्नेव दिने देवी सा तथा तिष्ठदद्रिजा७२ ।
तस्मिन्नेव दिने व्यास शार्दूलोपि जगाम७३ ताम् ॥५९॥

महकायमुखो भीमः पिङ्गलामललोचनः ।
नखदंष्ट्रायुधो भीमस्त्रासनः सर्वदेहिनाम् ॥8.34.६० ॥


वस्तुहेतवे - घ, तपस्विनी (?) । ५९ दतिं चण्डेश्वरम् - घ. । ६० भावभूति - ध. । ६१ शतमन्युं - घ. । ६२ घोरचक्रधरं - घ. । ६३ घोरं - ख., घोरवज्रधरं - घ. । ६४… मुखं - ख. ग. । ६५.. ग (गा?) श्चैव - ख.,… श्चै नां - ख. । ६६… स्तदा - ख. । ६७ न शेकुर्गण (र्न्तु?) - घ. । ६८… मुमान्तिकम् - ख । ६९ तस्या - ख. । ७० पापनाशनीम् - ख. । ७१.. .पश्यन्ति च - ख, अद्यापि पश्यन्ति - घ. । ७२ दम्बिका - घ, । ७३.. .भिजगाम - घ. ।


गुहामुखाद् विनिःसृत्य व्यजृम्भत महाबलः ।

                                • ॥६१ ॥

ततः स देवीमालोक्य भक्षार्थमुपचक्रमे ।
तपसा स्तम्भितस्तस्या ह्येतदेवान्वचिन्तयत् ॥६२ ॥

नार्येषा दृष्टपूर्वा मे शर्वपार्श्वे सुशोभना ।
यादृशं तपसश्चास्या वीर्यं मन्ये न मानुषी ॥६३ ॥

अथवा नित्यमेवासौ महेश्वरमनुव्रता ।
मन्दरे७४ सह देवेन रमते७५ हिमवत्सुता ॥ ६४॥

तपसा किं तदा चास्या यस्या भर्त्ता पिनाकधृक् ।
तद्रूपिणीयं काप्यन्या७६ तपोनियममास्थिता७७ ॥६५ ॥

महता तेजसा७८ युक्ता नेयं शक्या मया शुभा ।
हन्तुं भक्षार्थमद्येह ययाहं७९ स्तम्भितः स्थितः ॥६६॥

तस्मादेनामुपासिष्ये यावत् कालस्य पर्ययः ।
स्वयमेतां मृतां पश्चाद् यथेष्टमबलामहम् ॥६७॥

भक्षयिष्ये बुभुक्षार्त्तो मुनिः फलमिवाश्रमे ।
विचिन्त्यैवं स शार्दूलो देव्यादूरे समास्थितः ॥३८॥

स्तब्धदृक्८० कर्णलाङ्गूल उपविष्टो निरीक्ष्य ताम्८१ ।
सापि देव्यूर्ध्वदृष्टिन्तं दृष्ट्वा स्थितमसङ्गिनी ।
अनुग्रहकरीं बुद्धिं चक्रे तस्मिन् सदैव हि ॥६९॥

व्यास उवाच
तपश्चरणसक्तायां देव्यां देवस्त्रिलोचनः ।
किमकार्षीत् सुरेशान एतदिच्छामि वेदितुम् ॥8.34.७० ॥

सनत्कुमार उवाच

                    • प्रति भावितायाम् ।
                      पुत्रार्थमासक्तमनोरथायां देवोकरोद्यत्तदिदं शृणुष्व ॥७१ ॥

मन्दरं - घ. । ७५ रमतीं - ध. । ७६ कानान्या - ग. । ७७ नियतमास्थिता - ख. । ७८ महादेवेन ते - ख. । ७९ तयाहं - घ., मया… - ग. । ८० शुद्धदृक् - घ. । ८१ निरीक्षतम् - ग., न्यमीक्षत - घ. ।


देव्यां तपसि सक्तायां८२ भगवान् गोवृषध्वजः ।
जागामानुग्रहं कर्तुमुपमन्योर्महात्मनः ॥७२॥


स ऋषिर्मातुलगृहे कदाचित् क्षीरमुत्तमम् ॥७३ ॥

होमशेषमति स्वादु पीतवानग्निहोत्रिणः ।
तत् स्मृत्वा मातरं प्राह देहि८३ मातः पयो मम ॥७४॥

तस्मै पिष्टं ददौ माता तोयेनालोड्य दुःखिता ।
क्षीरमित्युपनीतं तद् दृष्टवा पिष्टं तदा८४ मुनिः ॥७५॥

नैतत् क्षीरमिति प्राह मातरं सा८५ ततोब्रवीत्८६ ।
वत्स क्षीरं कुतोस्माकं कुतश्चान्नं८७ तपस्विनाम् ॥७६॥

आराधय महादेवं स ते सर्वं प्रदास्यति ।
इत्युक्तः स तदा मात्रा दुःखशोकपरिप्लुतः ॥७७॥

जगाम शरणं देवं सर्वभावेन शङ्करम् ।
आदित्याभिमुखो भूत्वा पादेनैकेन संयतः८८ ॥७८॥

मनसाचिन्तयन्नित्यं प्रणतार्तिहरं हरम् ।
सहस्रमेकं वर्षाणां तस्थौ दिव्यं फलाशनः ॥७९॥

द्वितीयं शीर्णपर्णाशी८९ तृतीयं चाम्बुभोजनः९० ।
महादेवपरो भूत्वा९१ चतुर्थं यो जितेन्द्रियः ।
तस्थौ सहस्रं वर्षाणामनिलाशन९२ एव च- - - – - – - —- - – – – - – - – ॥8.34.८० ॥

यदा चतुर्थं सम्पूर्णं९३ सहस्रं शरदां मुनेः९४ ।
तुष्टस्तदा ददौ शर्वः शक्ररूपेण दर्शनम् ॥८१ ॥

शक्र उवाच
उपमन्यो महाभाग तपस्ते बहु सञ्चितम्८५ ।
तुष्टोस्मि ते वरं ब्रूहि यद्यदिच्छसि पुत्रक ।


युक्तायां घ। ८३ देवि घ । ८४ क्षीरबिन्दूपनीतञ्च दृष्ट्वोपरि तदा ख क। ८५ स ग। ८६ तदाब्रवीत् - ख. क. । ८७… श्चार्थं - घ. । ८८ संयुतः - ख. क. । ८९.. .पत्राशी - घ. । ९० वायुभोजनः - घ. । ९१. भ्यर्च्य - ख. क. । ९२ मणिनाशन - घ- । ९३ गतवान् - घ. । ९४ मुने - ख. घ. । ९५ सञ्चयं - ख., संस्कृतम् (?- घ. ।


उपमन्युरुवाच
स्वागतं देवराजस्य त्रैलोक्याधिपतेरिह ।
अद्य निष्कल्मषं मन्ये तपश्चीर्णं मया महत् ॥८३ ॥

योहं त्रैलोक्यदेवेशमिन्द्रं पश्यामि दिक्पतिम् ।
इदं पाद्यमिदं चार्ध्य९६ मिदमासनविष्टरम् ॥८४॥

अयं च मधुपर्कस्ते गृह्यतां सदसस्पते ।
किं करोमि तदाख्याहि प्रार्थयस्व महाबल ।
कृतमेव९७ हि तद्विद्धि यदि स्यात् सुकरं मया ॥८५॥

शक९८ उवाच
भक्तो मे पिता विप्र सखाभूत् परमः९९ पुरा ।
तेन स्नेहेन दृष्ट्वाहं भवन्तं तपसि स्थितम् ।
क्लिश्यमानमिहायातो ब्रूहि किन्ते ददान्यहम्१००॥८६॥

उपमन्युरुवाच
देवराज्यमपि१०१ त्वत्तो नाहं काङ्क्षे सुरोत्तम ।
महादेवमहं भक्तस्तस्मादिच्छाम्यहं वरम् ॥८७॥

शक्र उवाच
महादेवं१०२ न पश्यन्ति सुरापि सदसस्पतिम् ।
न तं द्रक्ष्यसि विप्रेन्द्र ब्रूहि यत्ते मनोगतम् ॥८८ ॥

अहं पितुस्ते स्नेहेन इहायातो महाव्रत ।
धर्मतो हि सुतो मे त्वं ब्रूहि तस्माद् ददाम्यहम्१०३ ॥८९॥

उपमन्युरुवाच
कृतं स्वजनकृत्यं ते पूजितोस्मि त्वया प्रभो ।
गच्छ नाहमृते रुद्राद् वरं याचेन्यसम्भवम् ॥8.34.९० ॥


चार्घं - ग. । ९७ मेवं - ख. घ. । ९८ इन्द्र - घ. । ९९ परमतः ख., परमं - घ. । १०० वरं ब्रूहि महाभाग यत्ते मनसि वाञ्छितं - घ.,… म्यहं - ख । १०१ देवराजमपि - ग. । १०२ महेश्वर - घ. । १०३ वरं वरं - ग. घ. ।


सनत्कुमार उवाच
एवमुक्तः स तेजस्वी शक्ररूपी महेश्वरः ।
उवाच तप्स्यसे१०४ पश्चात् किं ते रुद्रः१०५ करिष्यति१०६ ॥९१ ॥

गच्छामि स्वस्ति ते चास्तु१०७ निर्विघ्नस्ते भवत्वयम् ।
रुद्रं प्रति समारम्भः स्मरेथास्त्वं हि मां१०८ विभो ॥९२॥

सनत्कुमार उवाच
गते तस्मिन् तदा हीन्द्रे रुद्रः स्वं रूपमास्थितः ।
तस्यादर्शयदव्यग्र इदं चोवाच सुस्वरम् ॥९३ ॥

रुद्र उवाच
उपमन्यो महाभाग पश्य मां विगतज्वरः ।
ब्रूहि निश्चित्य मनसा१०९ वरं यावद्ददामि११० ते ॥९४॥

सनत्कुमार उवाच
ततः स दृष्ट्वा देवेशं शिरसाभिप्रणम्य१११ च ।
उवाच प्रणतो वाक्यं११२ मनसा सम्प्रधारयन् ॥९५॥

भगवन् यदि तुष्टोसि सदा सुरगणार्चित११३ ।
यद् ब्रवीमि तदीशान११४ मह्यं यच्छ नमोस्तु ते ॥९६॥

द्रव्यं११५ किञ्चिदनाश्रित्य मानुषं दिव्यमेव वा११६ ।
क्षीरोदनं समश्नीयामयाचितमुपस्थितम्११७ ॥९७॥

देवदेव उवाच
अनाश्रित्येह नैवास्ति कस्यचिद् द्विजसत्तम ।
तृणमप्याश्रयं कृत्वा तस्माद्वद महामुने ॥९८॥

उपमन्युरुवाच
नैवाहमाश्रये किञ्चित् प्रसादाद् भगवँस्तव ।
तदर्थ११८ श्चायमारम्भस्तत् प्रयच्छ यथार्थितम्११९ ॥९९ ॥


तप्यसे - ख. । १०५ तप्यतो रुद्रात् - ख. । १०६ प्रदास्यति - घ । १०७ चैवास्तु - घ. । १०८ मा - ख. । १०९ निश्चिन्तमनसा - ख । ११० ददानि - ख. । १११ प्रणिपत्य - .ख. । ११२ वाक्य - क., वाच्यं - ख । ११३ यदि देयो वरश्च मे - ख. । ११४ तमीशानं - ख. । ११५ त्वां च - घ. । ११६ च - घ. । ११७ - दयाचितमुपस्थितम् - क. ग. । ११८ यदर्थं - घ. । ११९ यथा स्थितं - क स्वप्रार्थितम् - घ. ।


दैवदेव१२० उवाच मुने किञ्चिदनाश्रित्य नास्ति क्षीरोदनं तव ।
इत्युक्त्वा तं महादेवस्तत्रैवान्तरधीयत ॥8.34.१०० ॥

अन्तर्धानं ततो गत्वा जिज्ञासार्थं पिनाकधृक् ।
ब्रह्मणो रूपमास्थाय१२१ भूय एनं १२२ ततोब्रवीत् ॥१०१ ॥

ब्रह्मोवाच
उपमन्यो महाप्राज्ञ१२३ सुचीर्णं ते तपः शुभम्१२४ ।
तुष्टोस्मि ते१२५ वरं ब्रूहि प्रयच्छामि१२६ यथेप्सितम्१२७ ॥१०२॥

उपमन्युरुवाच
भगवन् सर्वलोकेश नमस्ते सर्वसृक् प्रभो ।
सुचीर्णं मे तपो देव यत्त्वां१२८ पश्यामि लोकप ॥ १०३ ॥

महेश्वरमहं भक्तस्तदाशीस्तत्परायणः ।
तस्माद्वरं वृणे देव त्वत्तो नाहमसंशयम् ॥१०४॥

ब्रह्मोवाच१२९
रुद्रस्ते नाददद्विप्र क्षोरौदनमदुर्लभम्१३० ।
स तेन्यत् कुत एवेह दास्यते वरमुत्तमम् ॥१०५॥

प्राजापत्यं सुरत्वं वाप्यमरत्वमथापि वा ।
इन्द्रत्वमथ सोमत्वं विष्णुत्वं१३१ वा ददानि१३२ ते ॥१०६ ॥

लोकपालो भवानस्तु सर्वलोकाभिपूजितः ।
ब्रूहि किन्ते ददान्यद्य विसृजस्व१३३ महेश्वरम् ।
नासौ दाता तवेशानस्तृणमप्येकमल्पकम्१३४ ॥१०७॥

उपमन्युरुवाच
न गृहीतं प्रभो१३५ तेन मम किञ्चिन्महात्मना ।
ईश्वरः सर्वभूतानां न१३६ स्वामी तस्य कश्चन ॥ १०८॥


सनत्कुमार - घ. । १२१ ब्रह्मरूपं समास्थाय- घ । १२२ एवं - क ख । १२३ महाप्रज्ञ - ख. । १२४ शुभ - ख. । १२५ ब्रूहिवरं - क. ख? । १२६ तत्प्रयच्छ - घ. । १२७ यथास्थितं - क., तवानघ - स. घ. । १२८ यस्त्वां - क. । १२९ पितामह उवाच - ध. । १३० क्षीरोदनमदुर्लभम् - ख. घ. । १३१ सविष्णुत्वं - ख. । १३२… मि - ख. । १३३ व्यसृजस्व - ख. । १३४… मल्पकमक्षतं - क., .,. प्येकमक्षतं - घ,,. प्येकमेव च - ख. । १३५ पुरा - घ. । १३६ नास्वामी - घ. ।


इच्छया कुरुते देवः सर्वकार्याणि कार्यिणाम् ।
ददाति यदि लाभो मे न ददाति तथापि च ॥ १०९ ॥

बहुना किं प्रलप्तेन तेन दत्तमहं वृणे ।
नरकं वा पशुत्वं वा किं पुनर्यदतोन्यथा ॥8.34.११० ॥

त्वत्तो नेच्छामि विष्णुत्वं न शक्रत्वं१३७ पितामह ।
गच्छ१३८ सर्वसुरेशान मा वृथा क्लेशमाचर ॥ १११ ॥

सनत्कुमार उवाच
स एवमुक्तो देवेशस्तेन ब्रह्मर्षिणा तदा१३९ ।
तस्य तत्र पुनर्वाक्यं वरार्थमवदत् प्रभुः ॥११२ ॥

उपमन्युरपीशाने मन आधाय१४० निश्चलम् ।
तूष्णीं बभूव देवोपि तत्रैवान्तरधीयत१४१ ॥ ११३ ॥

तस्य तां भावनां ज्ञात्वा पिनाकीशस्त्रिलोचनः१४२ ।
स्वमेव रूपमास्थाय दर्शयामास तत्क्षणात् ॥ ११४॥

त्र्यक्षो जटी विशालाक्षः कुण्डली दीप्तलोचनः ।
ज्वालामालाधरः श्रीमान् भुजगाबद्धमेखलः ॥ ११५॥

सर्पयज्ञोपवीती च व्याघ्रचर्माम्बरच्छदः ।
कृष्णाजिनोत्तरीयश्च कमण्डलुधरस्तथा ॥ ११६॥

दण्डी शूली महाहासो१४३ गणपैर्बहुभिर्वृतः ।
उवाच पुत्र पुत्रेति तुष्टोस्मि तपसा तव । ११७॥

अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।
कामरूपधरः श्रीमान् मत्प्रसादाद् भविष्यसि ॥ ११९ ॥

द्वीपञ्चेमं१४४ गृहाण त्वं मया सृष्टं हि कामगम् ।
क्षीरौदन१४५ समुद्रेण सर्वतः परिवारितम् ॥११९ ॥

महायोगबलो भूत्वा सर्वज्ञः प्रियदर्शनः ।
भुङ्क्ष्व१४६ क्षीरौदनं वत्स बन्धुभिस्सहितः सदा१४७ ॥ 8.34.१२० ॥


ब्रह्मत्वं वा घ। १३८ त्वंहि ख। १३९ तथा घ। १४० श्चाधाय क, सङ्घाय ख, घ। १४१ तां क। १४२ स त्रिलोचनः क, घ। १४३ महाभागो घ। १४४ द्विपं चैव घ। १४५ क्षीरोदेन - ख । १४६ क्षीरोदनं - क ख. । १४७ तदा - ख. ।


सप्तपूर्वाणि सर्वाणि कुलानि तव तापस१४८ ।
इदं चैव कुलं सर्वमनुगृहणामि सुव्रत१४९ ॥ १२१ ॥

सर्वे भवन्तु विप्रर्षे१५० य इमे तव बान्धवाः ।
मत्प्रसादान्महासत्वा नित्यं क्षीरौदनाशनाः१५१ ॥ १२२॥

सनत्कुमार उवाच
स तु तं वरमादाय प्रणम्य शिरसा भवम् ।
शिरस्यञ्जलिमाधाय१५२ अस्तौषीत् प्रयतात्मवान् ॥१२३ ॥

उपमन्युरुवाच
नमः सर्वामरेशाय विश्वेशाय नमो नमः ।
नमः सर्वार्तिहर्त्रे१५३ च नमश्शोकहराय च ॥१२४ ॥

नमः पवनवेगाय नमः पवनरूपिणे ।
नमः काञ्चनमालाय पद्ममालाय वै नमः ॥१२५॥

नमः सुररिपुघ्नाय चण्डवेगाय वै नमः ।
नमः पितृसुरेशाय मखघ्नाय१५४ च वै नमः ॥ १२६॥

स्त्रीरूपाय नमस्तुभ्यं सर्वरूपधराय च ।
नमः कन्दर्पनाशाय१५५ विश्वस्रष्ट्रे१५६ नमो नमः ॥१२७॥

नमो विश्वाय पाशाय१५७ नमोचिन्त्याय चैव हि१५८।
त्वन्नो गतिश्च श्रेयश्च त्वमेव हृदयं सदा ॥ १२८॥

सनत्कुमार उवाच
ततस्तं मूर्ध्न्युपाघ्राय१५९ समाश्वास्य१६० विसृज्य च ।
जगाम भगवान् व्यास सुकेशं१६१ प्रति स१६२ प्रभुः ॥१२९॥


तपसा तव - ख । १४९ तापस - क । १५० विपेन्द्र - ख. । १५१ क्षीरोदवासिनः - क. ख. घ. । १५२ मादाय - -घ. । १५३… हन्त्रे - ग. । १५४ मुखघ्नाय - ख., महिष… - क. । १५५ स्कन्दविशाखाय - कः, स्यन्ददिशाखेच ख. । १५६ विष्वक् स्रष्ट्रं - क. ख घ । १५७ घस्राय - क । १५८ ह - ख. । १५९ मूर्ध्नि चाघ्राय - क घ. । १६० श्वस्य - ख । १६१ सुरेश - घ. । १६२ प्रतिमः - घ. ।


उपमन्युं ज्वलितानलप्रकाशं शतमन्युं१६३ तपसा१६४ जिगीषमाणम्१६५ ।
स चकार नतं१६६ हरोग्रमन्युं वरदानेन तदा व्यपेतमन्युम्१६७ ॥8.34.१३० ॥

इति स्कन्दपुराणे उपमन्युवरप्रदानं नाम चतुस्त्रिंशोध्यायः