हि सा - ख. । ३३४ प्रणम्य - ख. । ३३५ मे दुहितृत्वे - ख । ३३६… ति प्रोवाच्य क,. ख. । ३३७… स्त्वमसि - ख. । ३३८ साप्युक्त्वा - क. ख. । ३३९ प्राणभृता - घ. । ३४० देवी - घ. । ३४१ शुभा - घ. । ३४२ उद्ववाह - क., उद्वाहस्तु - ख., उद्वाहः क्रियतां काल त्वयास्या दुहितुर्मम - घ. । ३४३ स देवेशो - ख. । ३४४ सद्योक्ता - ख. । ३४५ इमं - क. । ३४६ पठेत - क. । ३४७ सर्वपापविनिर्मुक्तः - ख. । ३४८ निपाती - क । ३४९ दक्षयज्ञान्तकर्ता - ख. । ३५० मुखकालं - क., सुखकालं - ख. । आदितः प्रभृति सर्वैकत्वेन श्लोकसङ्ख्या १५०४ ।
सनत्कुमार उवाच
यथा तु वृषभो देवमवहन्मुनिपुङ्गव ।
तत्तेहम्१ सम्प्रवक्ष्यामि नमस्कृत्य२ वृषध्वजम् ॥ १ ॥
पूर्वमेव महासत्वो धर्मो३ यज्ञ४ सहायवान् ।
तताप विपुलं न्यासतपः परमदुश्चरम् ॥ २ ॥
हिमवन्तं गिरिं प्राप्य वाय्वाहारौ बभूवतुः ।
वर्षाणान्तु सहस्राणि दश द्वादश चैव तौ५ ॥ ३॥
मानुषाणि ततो भूयः शाकाहारौ बभूवतुः ।
ततोचिरात्६ तर्योर्देवो७ गणैस्सह महाद्युतिः ॥४॥
सवैस्समानरूपैस्तैर्दर्शनं प्रददौ हरः ।
ताँस्तौ महेश्वरान् दृष्टवा बहून् वै सदृशप्रभान् ॥५॥
परस्परममन्येतां कोन्वेषामीश्वरो भवेत् ।
तौ तदा वीक्ष्य सम्मन्त्र्य स्मृत्वा चैव पुनः पुनः ॥६ ॥
मध्ये महेश्वरं तेषां मेनाते तेजसां निधिम् ।
तौ तं मध्ये भवम्८ देवं प्रणम्य बहुमानतः ।
शिरसोरञ्जली९ कृत्वा तुष्टुवाते१० मितौजसौ ॥७॥
धर्मयज्ञौ ऊचतुः
नमस्त्रैलोक्यनाथाय दिग्वासायामृतात्मते ।
चतुष्पथनिवासाय चतुष्पथरताय च११ ॥८ ॥
चतुर्व्यूहाय देवाय त्रिनेत्राय१२ भवाय१३ च ।
चतुर्मुखाय शुद्धाय जालान्तर१४ विचारिणे१५ ॥९॥
इन्द्रानुग्रहकर्त्रे च१६ ब्रह्मानुग्रहकारिणे ।
ऊर्ध्वलिङ्गाय देवाय१७ मदनायामदाय च१८ ॥8.33.१० ॥
ततोहं - ख. । २… त्वा - क. ख. । ३ धीमान - घ । ४ यज्ञः - क, यज्ञसरवा - घ. । ५ हि - क. घ., तु - ख. । ६ ततश्चि… - क., ततश्च भगवान् - घ । ७ देवीं - क. । ८ -भगवान् - ख. । ९. .. लिं - ख. । १० तुष्टा.. - ख. । ११. रथाय - क. । १२ त्रिनेत्रिणए - क. । १३ तताप - क । १४ जलान्तर - क. ख. । १५ शरीरिणे - ख. । १६ चन्द्राद्रानुग्रहकर्त्रे च - घ । १ । देवदेवाय - घ । १८ मदनाय मदाय - क , चैव हि - घ. ।
नमो हिरण्यवर्णाय सूर्याक्षाय तथैव च ।
नमः पवित्रकेशाय दीर्घजिह्वाय चैव हि ॥ ११ ॥
नमस्ते नैकपादाय एकाक्षाय नमो नमः ।
नमःसहस्रघण्टाय सहस्राक्षाय वै नमः ॥ १२ ॥
नमः पिनाकिने चैव ध्वजिने च नमो नमः ।
नमः सहस्रशीर्षाय संवर्त्ताय नमो नमः ॥ १३ ॥
नमः स्तव्याय वै नित्यं शत्रुघ्नाय नमो नमः ।
नमो भवाय भव्याय भावनाय नमो नमः ॥१४॥
नमो वराय वै नित्यं वरदाय तथैव च ।
गोकर्णाय नमो नित्यमैश्वर्यपतये नमः ॥१५॥
नमोस्तु विष्वक्सेनाय प्रभासाय नमो नमः ६ ।
नमोस्तु तेन्नदायैव२० प्राणदाय२१ नमोस्तु ते ॥ १६॥
नमः प्रवर्तकायैव२२ पद्ममालाय वै नमः ।
नमो महारथायैव२३ भैरवाय नमो नमः ॥ १७॥
नमश्चतुर्मुखायैव महादेवाय वै नमः ।
नमोस्तु ब्रह्मणे चैव ध्रुवायैव चलाय च ॥ १८ ॥
नमोस्तु नारीरूपाय सुभगाय नमो नमः ।
मध्यमाय२४ नमस्तेस्तु नमस्ते सर्वतस्तथा ॥ १९॥
नमोनुमन्ता३६ मन्ता त्वं सर्वभूतप्रवर्तक२६ ।
आवयोरीप्सितान्२७ कामान् विधत्स्व भुवनेश्वर ॥8.33.२० ॥
सनत्कुमार उवाच
योनेन स्तौति वै नित्यं नियमेन समन्वितः ।
सर्वकामै२८ स्स२९ सम्पन्नो यथेष्टां गतिमाप्नुयात् ॥२१ ॥
नमस्तथा - क. । २० नदायैव - ख,… न्नदायै - च क । २१ प्रणदाय - ख. । २२ प्रमर्तकायैव - ख. । २३ महारवायैव - ख. । २४ पध्र्यमाय - क । २५ नमोस्तुमन्ता - ख. । रे ६ प्रवर्तकम् - क., प्रवर्तकः - ख. । २७.. - रीप्सितं - क. ख. । इतः परं - ’ ‘सर्वलोकपतिः श्रेष्ठ ददासि भक्तये सदा’ ’ इति पाठोधिकः.. ख. पुस्तके । २८ सर्वैःकामै’ - ख. । २९… श्च - ख. ।
सनत्कुमार उवाच
अथ देवस्तु तान् सर्वाननयत्प्रकृतिं गणान् ।
नन्दिनं चैव देवीञ्च स्वयं चात्मानमप्युत३० ।
उवाच चैतौ तुष्टोस्मि गृह्यतामीप्सितो३१ वरः३२ ॥२२॥
देवौ ऊचतुः
यदि तुष्टोसि देवेश यदि देयो वरश्च नौः३३
जात्यन्तरगतौ नित्यं वहेव३४ त्वां सुरेश्वर ॥२३॥
इदञ्च गुह्यं स्थानं नौ३५ तपसातीव भावितम् ।
तव चैव प्रसादेन भवेत् पुण्यं सुरेश्वर ॥२४॥
देवदेव उवाच
इदं मम परं३६ गुह्यं भवितृ स्थानमुत्तमम् ।
पञ्चेषुक्षेपमात्रं वै मृतोत्र गणपो भवेत् ॥२५॥
यस्मान्मध्ये भवोस्मीति युवयोरर्चितः स्थितः ।
तस्मान्नाम्ना तु विख्यातमिदं भवतु मध्यमम् ॥२६॥
युवां जात्यन्तरं प्राप्य पूजितौ बलवत्तरौ ।
वाहनत्वं ममासाद्य३७ लोकान् सन्धारयिष्यथः३८ ॥२७॥
सनत्कुमार उवाच
तत एवं तदा देवस्तावुक्त्वा देवसत्तमौ ।
जगाम गणपैस्सार्धं मन्दरं हेमकन्दरम्३९ ॥२८॥
गतेथ देवे सगणे कालेन बहुना ततः ।
मन्वन्तरेस्मिन्४० सुरभी रुद्रमाराधयच्छुभा ॥२९॥
तया वर्षसहस्रेण तपसा तोषितो भवः ।
जगाम दर्शनं व्यास वरदोस्मीति चाब्रवीत्४१ ॥8.33.३० ॥
मच्युत - क., मच्युतः - ख । ३१… तं - क. । ३२ वरम् - क. । ३३ नः - ख. । ३४ वहेयं - क., वहेम - ख. । ३५ ते - ख. । ३६ वै परमं - घ. । ३७ समासाद्य - क. घ. । ३८ वै विचरिष्यथः - घ. । ३९ देवकन्दरम् - घ. । ० मन्वन्तरेण - घ. । ४१ र.. त्यथाब्रवीत् - ख. ।
सा वव्रे पुत्रमतुलं सर्वप्राणभृतां वरम् ।
पुत्राँश्चान्यान्महासत्वान् यज्ञियान्४२ सुरसत्तमान् ॥३१ ॥
तथा४३ दुहितॄ४४ श्चान्याश्च जगद्धात्रीः४५ सुशोभनाः ।
ततः सर्वं ददौ देवो४६ ह्यदृश्यत्वं जगाम च ॥३२ ॥
तस्मिन् गते महादेवे सुरभी दीप्ततेजसम् ।
सर्वभूताग्रजं पुत्रं४७ वृषभं समसूयत ॥३३ ॥
एकादश तथा रुद्रान् वृषभस्यानुजान् शुभान्४८ ।
सप्त कन्याश्च ता गा४९ वै५० जगद्धात्री५१ प्रसूयत ॥३४॥
वृषभः स तु सङ्गत्य५२ नित्यं प्रातः५३ कृताह्निकः ।
पितरं मातरं चैव तथैव च पितामहम्५४ ॥३५॥
अभिवाद्यायते५५ शुभ्रश्चतुर्दिग्गजसेवितम्५६ ।
वनं सिद्धगणावासं५७ यत्र सा ह्यमृतोद्भवा ॥ ३६॥
दूर्वामृतरसा५८ दिव्या छिन्न५९दग्धप्रसेहणी६० ।
स कद्राचिद्वने तस्मिँश्चरन् तृप्तस्तृडर्द्दितः६१ ॥३७॥
जगाम सागरं पातुं वृषराट् सुरभीसुतः ।
सोवगाह्य महा६२ ग्रासः सागरस्य तदा महत् ॥३८॥
मध्यं व्यादाय वदनं सरुषं सतिमिङ्गिलम् ।
अपिबत् सागरजलं न च तृप्तिमुपागमत् ॥३९॥
तस्मिन् पिबति६३ दैत्येन्द्राः सन्नद्धाः६४ सासिमार्गणाः६५ ।
सधनुष्पाणयस्सर्वे६६ सहस्राणि चतुर्दश ॥8.33.४० ॥
निष्पेतुश्शक्रसङ्काशा यम६७कालानलोपमाः ।
मयपुत्रा६८ महासत्वा वृषभं प्रति वेगिताः ॥४१ ।
याज्ञियान् - क. ख., याज्ञिकान् - क टि., श्रेष्ठाँश्च - घ. । ४३ तदा - क. । २४ दुहितर - क. ख. घ. । ४५ जगद्धात्र्यः - - क. ख. घ. । ४६ तत्सर्वप्रदो - घ । ४७ पुण्यं - घ. । ४८ एकादशैते रुद्राणां व्यास तस्यां प्रजां शुभाम् - ख., रुद्रानेकादशान्यां - घ । 8९ सुभगा - घ. । ५०..? वो - क. ख. । ५१… त्र्यः - क. ख. । ५२ सङ्गम्य - घ. । ५३ प्रातर्नित्यं - घ. । ५४. महान् - क । ५५ अभिगम्य - घ., . द्य ययौ - क. ख., ययौ - घ. । ५६- शुभ्रञ्चतुर्दिग्गजसेवितम् - घ. । ५७… कीर्णं - ख. । ५८ पूर्वामृतरसा - क. । ५९ भिन्न.. - घ. । ६० प्ररौहिणी - क. ख. घ. । ६१ चरन्तं तृषयार्दितः - ख. । ६२ महद् - ख. । ६३ पीयति - क. ख. । ६४ सुसन्नद्धाः - घ. । ६५ सिद्धिमार्गणाः घ. । ६६.. .सागरस्था महासत्वाः - घ. । ६७ महा - घ. । ६८ यमपुत्राः - क. ख. घ. ।
तांस्तथा रुषितान्दैत्यान् सासिमुद्गरतोमरान्६९ ।
सहैव सागराम्भोभिरपिबत् स महाबलः ॥४२॥
तान् पीतान्७० पीयमानाँश्च दृष्टवा ह्यर्णववासिनः७१ ।
वित्रेसुः सहसा सर्वे विनेदुश्चापि दुःखिताः ॥४३ ॥
ततस्समुद्रो भगवान् पीयमानः सुदुःखितः ।
वडवामुखमागत्य७२ संवर्तं शरणं ययौ ॥।४४॥
स चानलः सुसंरब्धो दत्त्वा तस्य७३ महाबलः ।
अभयं वृषमागत्य प्रोवाचेदं कृताञ्जलिः ॥४५ ॥
संवर्त्त उवाच
सर्वभूतशरण्योयं दैत्यानाञ्चालयः शुभः ।
नैनं हीनं भवानद्भिः कर्तुमर्हति वीर्यवान् ॥४६॥
वृषभ उवाच
न मे मतिरभूदग्ने निःशेषं कर्तुमम्बुधिम् ।
भवान् त्वस्य७४ ये यतो मन्ता७५ न करिष्येहं ततोद्यवै ॥४७॥
यस्ते दर्पश्च गर्वश्च यद्बलं यच्च पौरुषम् ।
तन्मे दर्शय हव्येश पिबाम्येनं तवाग्रतः ॥४८॥
सनत्कुमार उवाच
एवमुक्त्वा वृषेन्द्रस्तु वडवामुखवासिनम् ।
संरम्भात्७६ सागरं पातुं निःशेषमुपचक्रमे ॥४९ ॥
अनल उवाच
न मे त्वं प्रतिमः शक्तौ७७ न च वैरं त्वया हि मे७८ ।
यत्र७९ कृत्येहमाबद्ध८०स्तत्करिष्ये तथा ह्यहम् ॥8.33.५०॥
न त्वं पास्यसि८१ रक्षिष्ये सागरं मम सन्निधौ ।
अहं त्वां वारयिष्यामि सुरभीसुत कत्थन ॥५१ ॥
वानरान् - घ. । ७० सर्वान्- ख। ७१ नाम्- क. । ७२… मासाद्य - ख. । ७३ तस्मै - क. ख. । ७४ तस्य - क.,.. श्चास्य - घ. । ७५ सक्ता - ख. । ७६ संरब्धः - क. ख. । ७७ शक्त - क., शक्र - ख. घ. । ७८ विद्यते हि ममाद्यवै - ख. । ७९ यत्तु - ख. । ८० कृत्यं समारब्ध - क., कर्तुँ समारब्धो - ख. । ८१ नहि यास्यसि - घ. ।
सनत्कुमार उवाच ततस्तं भगवान् वह्निरुपप्लुत्य८२ महाद्युतिः ।
गले जग्राह बलवान् न चचाल८३ ततः स च ॥५२॥
यत् पीतं छर्दयामास तत्तोयं दानवैर्विना ।
औदरेणाग्निना तस्य८४ ते दग्धाः८५ सर्व एव हि ॥५३ ॥
सनत्कुमार उवाच
ततः संवर्तको वह्निर्निगृहीतं ककुद्मिनम् ।
विसृज्योवाच गच्छेति न त्वां८६ हन्मि वृषेश्वर८७॥ ५४॥
शक्तस्तवाहं दहने ह्यशक्तो मे भवान् वधे ।
तथाप्यहं८८ न गर्जामि गर्जितैः किं बलीयसाम्८९ ॥५५ ॥
सनत्कुमार उवाच
विसृज्य वृषभं वह्निराशु यातः स्वमालयम् ।
वृषभोपि जगामेव९० दुःखशोकाभिसंवृतः९१ ॥ ५६॥
सोवमानेन९२ तेजस्वी महोक्षः९३ सुरभीसुतः ।
दुःखेन चाभिसन्नात्मा९४ जगामैवं विचिन्तयन् ॥५७॥
अबलोहं बली वह्निर्येनाहं निकृतस्तथा९५ ।
जीवितेशेन (?)९६ भूत्वा च नाहं प्राणैर्वियोजितः९७ ॥ ५८॥
मोघं मम बल सर्वं तथा चैवाभिगर्जितम्९८ ।
शरज्जलधरस्येव९९ विहीनस्याद्भिरम्बरे ॥५९॥
अद्य प्राणानहं त्यक्ष्ये नियतो१०० व्रतमास्थितः ।
यथा न पुनरेवं मे मानभङ्गो भविष्यति ॥8.33.६० ॥
शत्रुणा१०१ निगृहीतस्य दुर्बलस्य दुरात्मनः१०२ ।
जीवितान्मरणं मन्ये विशिष्टं जीवितेन किम् ॥६१ ॥
रूपसृत्य - क. ख. । ८३ नोच्चचाल - घ. । ८४ दग्धा - ख. । ८५ तस्य ते - ख. । ८६ ते - क. । ८७ वृषेश्वरः - ख.,… र - क. । ८८ ह्यहं - क । ८९ बलीयसा - क । ९० जगादैव - घ. । ९१ जगामैव- न्दुःखशोकाभिसंवृतः - क । ९२ शोचमानेन - घ । ९३ महोक्षा - क. ख. । ९४ च विषण्णात्मा - क. । ९९ येनास्मि विकृतस्तथा - क. । ९६ शेष (?) । ९७.. तं - क. । ९८?.. तिगर्जितम् - ख. । ९९… स्यैव- क. ख. । १०० नियतं - ख.,… मं - घ. । १०१ शत्रूणां - क, शत्रुभिर्निगृहीतस्य - ख. । १०२ दुर्बलो बलवत्तरैः - ख., महात्मनः - घ. ।
सनत्कुमार उवाच
स एवं चिन्तयन्नुक्षा वाचं शुश्राव खाच्छुभाम्१०३ ।
सौरभेय न भेतव्यं यद् ब्रवीमि कुरुष्व तत् ॥६२ ॥
रुद्रं सर्वसुरेशानं सर्वेभ्यो बलवत्तरम् ।
तं प्रपद्यस्व देवेशं ततो जेष्यसि पावकम् ॥ ६३ ॥
स स्रष्टा सर्वभूतानां ब्रह्मादीनां न संशयः ।
स ते दुःखमिदं सर्वं व्यपनेष्यति भो वृष१०४ ॥६४॥
सनत्कुमार उवाच
एतच्छ्रुत्वा महातेजाः साध्यस्य१०५ सुमहात्मनः ।
हिमवन्तं गिरिं प्राप्य तताप विपुलं तपः ॥ ६५॥
तस्य वर्षसहस्रेण तत्परस्य तदाशिषः१०६ ।
भगवान् सर्वभूतेशः साम्बः सगण ऊचिवान् ॥ ६६॥
देवदेव उवाच
सौरभेय महाभाग तुष्टोस्मि तव पुत्रक ।
इष्टान्१०७ ब्रूहि वरान्१०८ वत्स दास्ये तान् सुबहूनपि१०९ ॥६७॥
सनत्कुमार उवाच
ततस्स देवं सन्दृश्य साम्बं सगणमीश्वरम् ।
प्रणम्य शिरसा पादौ प्राञ्जलिस्सुसमाहितः ॥६८॥
भूयो भूयो निरीक्ष्यैनं प्रणम्य च पुनः पुनः ।
उवाच तपसोक्षय्यमिच्छेयं वै जगत्पते ॥६९॥
बलञ्चानुत्तमं देव योगैश्वर्यन्तथाक्षयम् ।
त्वदीयो वाहनश्चाहमग्निनैवं विमानितः ॥8.33.७० ॥
संवर्त्तकानलञ्चैव वडवामुखवासिनम् ।
द्रष्टुमिच्छामि देवेश निगृहीतं त्वयाव्यय११० ॥७१ ॥
एतस्मिन्नन्तरे प्राह साध्या सुमधुरं वचः - घ, यच्छुभं वचः - क. ख. । १०४ गोवृष - ख. । १०५ सोध्यस्य - ख. । १०६ शिवः - ख । १०७ इष्टं - घ । १०८ वरं - घ. । १०९… हं चानुकूलतः - घ., सुबहून्यपि - ख. । ११०… व्ययम् - घ. ।
सनत्कुमार उवाच
एवमुक्तस्तु तान्दत्त्वा वरान् सत्यवतीसुत ।
वामं पार्श्वं१११ तथा मृज्य रुद्रमेकं ससर्ज ह ॥७२॥
किरीटमालिनं त्र्यक्षं कुण्डलाङ्गदभूषणम्११२ ।
महोरस्कं कबचिनं धनुर्हस्तं महाबलम् ।
बद्धगोधाङ्गुलित्रं च खङ्गदिव्यास्त्रधारिणम् ॥७३ ॥
तमाह रुद्रं११३ गच्छेति वडवामुखवासिनम् ।
संवर्त्तकानलं बद्ध्वा विस्फुरन्तमिहानय ॥७४॥
सनत्कुमार उवाच
वन्दित्वा चरणौ तस्य सोमस्य गणनायकः ।
जगाम सागरं वेगाद् ददर्श च हुताशनम् ॥७५॥
स युद्धं बलवत्११४ कृत्वा सुघोरं लोमहर्षणम् ।
संवर्त्तकानलं बद्ध्वा देवपार्श्व११५ मुपानयत्११६ ॥७६॥
व्यास उवाच
कीदृक् तद्युद्धमभवत्११७ विट्पतेः पावकस्य च ।
एतदिच्छामि विज्ञातुं वद त्वं वदतां वर ॥७७॥
सनत्कुमार उवाच
स गत्वा गणपः क्रुद्धः संवर्त्तकमथानलम् ।
उवाच क्रोधरक्ताक्षस्तदा वचनमर्थवत् ॥७८॥
गणप उवाच
स्वामी सर्वस्य जगतो देवश्चन्द्रार्धभूषणः ।
आज्ञापयति वह्ने त्वां११८ वृषमेनं११९प्रसादय१२० ॥७९॥
प्रणातोस्मीति तं ब्रूहि वृषभं ससुहृज्जनः ।
निदेशे तिष्ठ चैवास्य यत् कर्तव्यं च तत्कुरु ॥8.33.८० ॥
वामपार्श्वं - ख. । ११२… भूषितं - ख. । ११३ रुद्रो - घ. ख (द्र?) । ११४ बलवान् - घ., महतः - ख, सुमहत् (?) । ११५ पार्श्वं ‘देवस्य - ख. । ११६ तत्क्षणात् - ख.,… मिवानयत् - क.,… मथानयत् (?) । ११७ कीदृग युद्धं समभवत् - घ । ११८ त्वं - क. ख. । ११४३०.. मेवं - क. । ३२० प्रसाधय - ख. ।
सनत्कुमार उवाच
एवमुक्तोनलः श्रुत्वा देवदेवस्य तद्वचः ।
उवाच नातिसंहष्टस्त्विदं वचनमर्थवत् ॥८१ ॥
अनल उवाच
नियोज्यो देवदेवस्य तस्यैवाहं सदानुगः१२१ ।
न च मां स नियुक्त्वेह योक्ष्यतेन्यत्र कर्हिचित् ॥८२ ॥
गच्छ मद्वचनाद् ब्रूहि भगवन्तं त्रिलोचनम्१२२ ।
यदि मां वक्ष्यति१२३ पुनः करिष्येहं ततस्तथा१२४ ॥८३ ॥
गणेश्वर उवाच
बालिशा वत ये प्राज्ञा बलज्ञानबहिष्कृताः ।
त एवमुक्ता१२५ गच्छन्ति यथा मां त्वं प्रभाषसे ॥८४॥
सकृदाज्ञा बलवतां सकृत् प्रभवतामपि ।
दूतश्चापि स वै श्रेष्ठो यो भवेदर्थसाधकः१२६ ॥८५ ॥
सोहं बलवता तेन लोककर्त्रा पिनाकिना ।
दूतः सर्वार्थसिद्ध्यर्थं प्रहितो बलवानिह ॥८६॥
न चेद्वचो मे कर्तासि बद्ध्वा त्वाहन्ततोद्य वै ।
विस्फुरन्तं महा१२७ पाशैर्नेष्यामि द्युभृतोन्तिकम्१२८ ॥८७॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी क्रोधदीप्तानलेक्षणः१२९ ।
गणपं प्रति दुद्राव तिष्ठतिष्ठेति चाब्रवीत् ॥८८॥
तमापतन्तं वेगेन पर्जन्यास्त्रेण सोस्त्रवित्१३० ।
ताडयामास बलवान् स१३१ प्रजज्वाल वेगवान्१३२ ॥८९॥
सहानुगः - घ । १२२ तृलोचनम् - क. ख. । १२ - रक्षति - घ । १२४ शुभं तथा - घ । १२५ … मुक्त्वा - ख. । १२६ भवेदर्धं (न्ध?) साधकः - क । १२७ मुहु. - ख. । १२८ र्न्नेष्ये स्त्वाहं हरान्तिक - ख., नेष्यमीन्दुभृतोन्तिकम् - घ । १२९. यतेक्षण - ख । १२० सोबली - क, सोप्रणः - ख । १३१ सः - क. । १३२ वेगशः - ख. ।
ज्वलन्तं२४४ तं तदाभ्यासमागतं क्रोधमूच्छितम् ।
अशन्यस्त्रेण महता स जघान स्तनान्तरे ॥ 8.33.९० ॥
अभ्याहतस्ततोस्त्रेण वेगवानपि१३४ मूर्च्छितः ।
तस्थौ मुहूर्त्तं संविग्नो विधूमो दहनेश्वरः१३५ ॥९१ ॥
ततस्तं रुद्रपाशेन बबन्ध करयोस्तदा ।
विस्फुरन्तं महावह्निं१३६ गणपः क्रोधमूर्छितः ॥९२॥
तं बद्धं पाशवर्येण पतितं वीक्ष्य चैव हि ।
तस्य पुत्रसुहृद्वर्गा१३७ विविधायुधपाणयः ॥९३ ॥
दुद्रुवुर्गणपं क्रुद्धाः शतशोथ सहस्रशः ।
तानप्यसौ१३८ विनिर्जित्य गणपस्तं१३९ हुताशनम् ॥९४॥
उपनिन्ये हरायाशु पशुं मेध्यमिवाध्वरे ।
तमानीतं महादेवः सम्प्रेक्ष्यार्णवभोजनम् ॥ ६३५॥
उवाच वृषभं ब्रूहि किमस्य१४० क्रियतामिति ।
स तं कृपणमालक्ष्य महोक्षा१४१ दीनचेतसम् ॥९६ ॥
प्रणम्य शिरसा पादाविदमाह कृताञ्जलिः ।
भगवन् देवदेवेश१४२ सर्वलोकमहेश्वर१४३ ॥९७॥
दृष्टमेतत्तव विभो माहात्म्यं सदसस्पते१४४ ।
दृष्टोयं१४५ कृपणश्चापि१४६ ह्यबलश्च१४७ महाबल१४८ ॥९८॥
विसृज्यतां सुरश्रेष्ठ हत एष न संशयः ।
पुत्रा ह्यस्य१४९ हताः सर्वे सुहृदश्चैव सर्वशः ॥९९॥
दीनस्यास्य न मे देव वध इष्टो विमुच्यताम् ।
एतद्वचो महेशो१५० वै वृषभस्याभिभाषितम् ॥8.33.१०० ॥
प्रज्वलन्तं तदा - घ. । १३४ तेजवानपि - घ. । १३५ ज्वलनेश्वरः - ख । १३६ महानग्निं - ख. । १३७.. द् भ्राता - घ. । १३८ अनेकशो - घ. । १३९ गणस्तं स - ख । १४० किमद्य - ख । १४१ महोक्षो - ख. । १४२ देवतारिघ्न - घ. । १४३… महेश्वरं - क ख. । १४४ ते जगत्पते - ख. । १४५ दीनोयं - ख. घ । १४६. श्चैव - ख. । १४७ ह्यनलश्च - घ । १४८ महात्मनः - क. । १४९… स्तस्य - घ. । १५० महेष्वासो - घ. ।
श्रुत्वा तुष्टः प्रहस्यैनं दहनं व्यसृजत् तदा१५१ ।
रुद्रं तञ्च जराशोकजन्ममृत्युविर्जितम् ॥ १०१ ॥
गणेश्वरपतिं कृत्वा द्वीपमस्मै ददत् प्रभुः ।
मनोरमणमित्येव१५२ नाम्ना ख्यातं महर्द्धिमत् ॥ १०२॥
दिव्यं कामगमं व्यास भवनैरुपशोभितम् ।
जाम्बूनदमयैः शुभ्रैः सर्वकामसमन्वितैः ॥१०३ ॥
तस्मिन् काले तदा देवाः१५३ सर्वे ब्रह्मपुरस्सराः ।
देवदेवं समागम्य वाक्यमूचुर्यथार्थवत् ॥ १०४॥
भगवन् देवतारिघ्न वृषोयं देवसत्तम१५४ ।
त्वया ह्यध्यासितः१५५ पूर्वं नादेनापूरयद्बली ॥१०५॥
त्रैलोक्यमखिलं दर्पादस्वस्थं कृतवान् प्रभो ।
वेगेन च दिशः सर्वा विमानैः सह भूतप१५६ ॥१०६॥
भ्रामयन् त्रिदशान्१५७ नादाद् गगने१५८ सञ्चचार ह१५९ ।
अधुना वरलब्धश्च अस्मान्१६० भूयस्तथैव च ॥१०७॥
यथा न कुरुते देव उपायः स१६१ विधीयताम् ।
त्वन्नो गतिश्च देवेश शरणं चैव भूतप ।
सदा भयाभिभूतानां त्वं त्राता१६२ सर्वशः१६३ प्रभो ॥ १०८ ॥
देवदेव उवाच
यथा भयं न भवति यथा स्वस्थाश्च१६४ नित्यशः ।
लोका भवन्ति सर्वे वै१६५ तथाहं१६६ विदधामि वः१६७॥ १०९ ॥
सनत्कुमार उवाच
ततस्स भगवान् व्यास देवदेवो महाद्युतिः ।
असृजद् वरदानाच्च१६८ गणेशं चारुकुण्डलम् ॥ 8.33.११० ॥
तथा - ख. । १५२ मालाचमनमित्येव - घ, मरणमित्येव - क. । २५३ व्यास - घ । १५४ देवसत्तमः - ख । १५५ नासादितः - घ । १५६ भूतयः - ख. । १५७ द्विवश ( ।) - क. ख. । १५८ गमने - क. । १५९ यं चचारह - ख. । १६० कृत्स्नान् - घ. । १६१ स - घ. । १६२ रक्षिता - घ., भ्राता - क । १६३ सर्वतः - घ. । १६४ सुस्थाश्च - घ. । १६५… पि - (?) । १६६ हि - क । १६७ च - क., तथा करिष्ये वृषभं गच्छ त्वं च यथासुखम् - घ. । १६८ वरदानेन - घ.,… नञ्च - ख. ।
आकर्णाद् दारितास्यं च महाकायं१६९ महाबलम् ।
महापरिघबाहुं च वज्रसंहननं दृढम् ॥१११ ॥
महादंष्ट्रं महोरस्कं महाखड्गधनुर्धरम ।
दीप्ताङ्गारकनेत्रं च त्रिनेत्रं कवचोज्ज्वलम्१७० ॥ ११२ ॥
बिभ्रत्तं चाक्षयेत्यर्थमिषुधी चर्मवाससम्१७१ ।
शरमेकेन हस्तेन धनुरेकेन बिभ्रतम्१७२ ॥११३ ॥
ग्रहनक्षत्रचित्रेण तडित्सूर्यावभासिता१७३ ।
उत्तरीयेण वियता भास्वन्तं मेरुकूटवत् ॥ ११४॥
प्रभाकरेति सुव्यक्तमामन्त्र्य भगवानिदम् ।
अब्रवीत्सर्वदेवानां समक्षं तं१७४ प्रभाकरम् ॥११५ ॥
प्रभाकर मयाज्ञप्त१७५ स्त्वं देवानां गुणाकर१७६ ।
परमैश्वर्यसंयुक्तो वृषवेगं निवारय ।
निवासार्थञ्च दिव्यन्तमिन्द्रद्वीपं ददामि ते ॥ ११६॥
ज्योत्स्ना भवित्री पत्नी ते तथा चैवाजरामरः१७७ ।
भविष्यसि मयायज्ञप्तो१७८ महागणपतिर्मम ॥ ११७॥
सनत्कुमार उवाच
ततस्तं देवतास्सर्वाः प्रणम्य ब्रह्मणा सह ।
जग्मुः स्वानि क्षयानि स्म देवोपि वृषवान् वभौ१७९ ॥ ११८॥
मुखतोर्द्धं१८० वृषो धर्मो जघनं यज्ञ उच्यते ।
चक्षुषी चन्द्रसूयौ च१८१ ब्रह्मा मूर्धानमाश्रितः ॥ ११९॥
जिह्वायां तस्य वरुणो वायुरन्तश्चरः स्वयम् ।
पादान् विष्णुर्भगश्चैव१८२ पूषा शक्रश्च संस्थिताः१८३ ॥ 8.33.१२० ॥
जङ्घाः शेषास्तथा दित्या ऊरूश्चैव१८४ समाश्रिताः ।
रुद्राः कर्णौ च नासाञ्च ग्रीवोष्ठौ हनुमेव च ॥१२१ ॥
महाकालं - ख. । १७० वपुस्तस्य च पिङ्गलम् - घ. । १७१… ञ्चर्मवाससम् - क. ख. । १७२ चोद्वहन् - क. ख. घ. । १७३ तडित्सूर्यावभासिना - ख,.. त्सूर्यवता तथा - क. । १७४ स समक्षं - ख- । १७५ ज्ञात - क । १७६ गुणाकरः - ख. । १७७.. जरामरा - ख । १७८ मयाज्ञाप्तो - क.. यथाज्ञप्तं - ख. । १७९ वृषलाञ्छनः - ख । १८०. र्द्धं क. ख. । १८१ तु - ख. । १८२… र्भवश्चैव - ख. । १८३… तौ - क. । १८४… श्चैव - क. ।
आयुधानि खुरा१८५ स्तस्य चक्रवज्रौ१८६ च शृङ्गयोः ।
अपाने च स्वयं मित्रः पुच्छं दानानि१८७ सर्वशः ॥१२२॥
अस्थीनि पर्वताः सर्वे पुरीषं श्रीरभूच्छुभा ।
मूत्रं चास्याभवद् दिव्यममृतं व्यास पावनम् ॥ १२३ ॥
रोमाणि ऋषयस्सर्वे नक्षत्राणि च सर्वशः ।
ग्रहास्तस्याभवन् व्यास सन्धयः शुभदर्शनाः ॥१२४॥
इष्टयो वेदयज्ञाश्च मन्त्राः स्तोत्रा फलानि च ।
अभवंस्तस्य मांसानि रुधिरं सरिदर्णवाः ॥ १२५॥
सप्तलोकं मुखं ह्यासीत् तस्याप्रतिमतेजसः ।
हस्ता मरीचयश्चैव मज्जा औषध्य एव च१८८ ॥ १२६॥
मन्त्रभूताश्च पशवः सकृत् (? स्नायुश्च१८९ वीरुधः ।
वल्ल्योथ वृक्षगुल्माश्च तथैवान्ये१९० नगाः शुभाः ॥१२७ ॥
नागा१९१ स्तस्याभवन् नाड्यो वसवः शुक्रसञ्चयः ।
आमपक्वाशयौ तस्य तौ देवावश्विनौ स्मृतौ१९२ ॥११८ ॥
मेघास्तस्याभवन् त्वक्च तडिन्माला - - - - ।
-
-
-
-
-
- यक्षा गन्धर्वाप्सरसस्तथा ॥ १२९॥
-
-
-
-
शिरा धमन्योथ मदो दर्पाश्चैवाभिजज्ञिरे ।
मानुषा मातरश्चैव भूतानि विविधानि च ॥8.33.१३० ॥
रोमकूपाणि तस्यासन् वृषभस्य महात्मनः१९३ ।
एवं स भगवान् देवः परमैश्वर्यसंयुतः ।
सौरभेयो महादेवः सर्वदेवमयोभवत्१९४ ॥१३१ ॥
य इदं१९५ सौरभेयस्य जन्म कर्म च तत्त्वतः ।
माहात्म्यमखिलं चैव शृणुयाद्वा पठेत वा ॥ १३२॥
क्षुरा - ख., क्षुरप्र - घ । १८६ चक्रवज्रे - ख. घ. । १८७ नद्यश्च - ख., छन्दांसि - घ. । १८८… मेव च - क. । १८९ स्नानं च - क. घ. । १९० तथा चान्ये - घ. । १९१ गाव - घ. । १९२… वाश्विनीसुतौ - घ. । १९३ वृषस्य सुमहात्मनः - क. । १९४ महत् - क, । १९५ इमं - क. ।
नित्यं शुचिरदीनात्मा सर्वपापैः प्रमुच्यते ।
मृतश्च कालेकाले वा रुद्रलोकमवाप्नुयात् ॥ १३३ ॥
नेदं शठाय दातव्यं श्राव्यं वापि कथञ्चन ।
न नास्तिकाय दुष्टाय तथा वा पापकर्मणे१९६ ॥ १३४॥
इदं पुत्राय शिष्याय धार्मिकाय महात्मने ।
देयं श्राव्यञ्च शुचये गुह्यमेतत् सनातनम् ॥ १३५ ॥
यो लोकवेदप्रभवेन१९७ तेन सर्वार्थसिद्धेन महाबलेन ।
यात्यम्बुदाम्भोनिधिगर्जितेन स वोस्तु नित्यं सुमना महेशः ॥ १३६ ॥
इति स्कन्दपुराणे वृषोत्पत्तिमाहात्म्यं नाम त्रयस्त्रिंशोध्यायः