०३२

सनत्कुमार उवाच
एतस्मिन्नेव काले तु व्यास दक्षः प्रजापतिः ।
अयजत् सोश्वमेधेन राजा प्राचेतसात्मजः[^१] ॥ १ ॥

तत्र देवनिकायानां भागधेयानि सर्वशः ।
हव्यवाहस्तदा तत्रा[^२]वहन्मन्त्रैस्समीरितः[^३] ॥२ ॥


स्थानं… - घ. । १९८ तवैव - क. । १९९… नात् - घ. । २०० भवेत् - ख. । २०१ स्यापि - घ. । २०२ वाग्यतो - ध. । २०३ नियतासनः - घ. । २०४ स सर्वपापनिर्मुक्तो -?, २०५.. श्च -? २०६ गणो - ख. । २०७ यत्नवान् सर्वथा - घ. । २०८ सर्वपातकनिर्मुक्तः - क. । २०९.. .बन्धनवर्जितः - घ. । २१० महेश्वरो - घ. । २११ नित्यशः - घ. । २१२ यस्त्दिमेकरात्रं - घ. । २१३ पठेत् - घ. । २१४.. .देहो -ख. २१५ स तेन - ख. । २१६ दधीचमाहात्म्ये त्रिंशोध्यायः - घ ।
प्रचेतसात्मजः - घ. । २ तत्र - घ. । ३ .. स्समाहितः - घ. ।


वहन्तम्[^४] तमपश्यच्च[^५] देवी गिरिवरात्मजा ।
अनुस्मरन्ती तद्वैरं शापकारणमेव च ॥ ३ ॥

उवाच चैनं गिरिजा बोधयन्ती पुरातनम् ।
श्लिष्टं मधुरया वाचा कारणेन समन्वितम् ॥४॥

त्वं देवः सर्वदेवानां गतिश्च[^७] शरणं तथा[^८] ।
त्वया विना कथं यज्ञो[^९] वर्तते सर्वदेवप ॥ ५ ॥

देवानां भागधेयानि वहत्यग्निरयं भव[^१०] ।
नायं तव महेशान किं कारणमतिद्युते ॥ ६॥

न साम्ना सिध्यते कार्यं[^११] विक्रमेण विना प्रभो ।
अयं मूढोवलिप्तश्च राजा प्राचेतसात्मजः ॥७ ॥

अनुस्मरन् पूर्ववैरं नैव दास्यत्यशासितः ।
दधीचस्य वरश्चापि त्वया दत्तस्तदा[^१२] प्रभो ।
तस्यायमागतः कालस्तदर्थेन[^१३] विधीयताम्[^१४] ॥८॥

सनत्कुमार उवाच
एवमुक्तस्तदा व्यास भगवान् वृषभध्वजः ।
उवाच प्रहसन् देवीं पिता तव शुचिस्मिते ॥९॥

पूर्वजन्मनि सुश्रोणि प्रजापतिसुतः शुभे ।
मम त्वं भावविज्ञानं कुर्वती[^१५] देवि भाषसे ॥8.32.१० ॥

नहि दुःखं पितुर्लोके कश्चिदिच्छति भामिनि[^१६] ।
एवमुक्ता तदा व्यास[^१७] देवेन विमलात्मना ॥ ११ ॥

ललाटे भृकुटीं[^१८] कृत्वा ततो देव्यायतेक्षणा ।
क्रोधात्[^१९] करेण नासाग्रं सम्ममर्द शुचिस्मिता ॥ १२ ॥


तं वहन्तं - घ. । ५ अपश्न्ती - घ. । ६ श्लक्ष्णं - घ. । ७ त्वं गतिः ख । ८ शरणार्थिनां - घ. । ९ जज्ञे - क । १० तव - घ । ११। साम्ना सर्वंसुराध्यक्ष– घ। नाम्ना - क, नाम्ना - क, न सत्वो - घ. । १२ स्वयं - ख. । १३ स्तदा तेन - घ., तदोर्ध्वेन - क । १४ -विधीयते - घ. । १५ कुर्वन्तो - ख. । १६ भाविनि - घ, । १७ देवी - घ. । १८ भ्रुकुटी - क। १९ क्रुद्धा - घ ।


तस्यां सम्मृद्यमानायां नासिकायामतिप्रभा ।
जज्ञे स्त्री भृकुटीवक्त्रा चतुर्दंष्ट्रा त्रिलोचना
बद्धगोधाङ्गुलित्रा च कवचा[^२०] बद्धमेखला ॥ १३ ॥

सखङ्गा सधनुष्का च[^२१] सतूणीरा[^२२] पताकिनी ।
द्वादशास्या दशभुजा तनुमध्या तमोनिभा[^२३] ॥१४॥

घनस्तनी[^२४] पृथुकटी नागनासोरुरव्यया[^२५] ।
भद्रकालीति तां प्राह देवीं देवी[^२६] शुभानना[^२७] ॥१५॥

ततोब्रवीत् तदा देवमेषा सृष्टा मया प्रभो ।
त्वमप्यन्यं सृज गणमनुरूपं नमोस्तुते ॥१६॥

ततो देवस्तदा स्कन्धं स्वमवैक्षत भास्वरम्[^२८] ।
तस्माज्जज्ञे पुमान् दिव्यस्त्रैलोक्यं प्रदहन्निव[^२९] ॥ १७॥

भृकुटीभूषितास्यश्च[^३०] बद्धगोधाङ्गुलित्रवान् ।
कवची बद्धतूणीरः[^३१] शरी खङ्गी शरासनी ॥ १८॥

त्र्यक्षश्चतुर्भुजश्चैव[^३२] वज्रसंहननो युवा ।
स सृष्टः[^३३] प्रणतो भूत्वा हरिर्नाम्ना[^३४] गणेश्वरः ॥ १९॥

उवाच प्राञ्जलिर्भूत्वा देवदेवं सहोमया ।
आज्ञापय सुरेशान यत् कर्तव्यं मया विभो ॥8.32.२० ॥

ततस्स भगवानाह[^३५] हरिं तं गणनायकम् ।
प्राचेतससुतस्यास्य[^३६] यज्ञं गच्छ विनाशय ॥२१ ॥

भद्रकाल्या सहाशु त्वमेतत् कृत्यं गणेश्वर[^३७] ।
ततः स[^३८] भगवान् देवो गणेशान्[^३९] कामरूपिणः[^४०] ॥२२ ॥

स्वगात्रेभ्योसृजद् धीमान्[^४१] नाना[^४२] रूपधरान् गणान् ।
पस्पर्श बाहुं[^४३] सम्यक् च[^४४] तस्मा[^४५] ज्जाता महाबलाः[^४६] ॥२३ ॥


सकवचा? । २१ च सवाहा - घ. । २२ सतूली च - घ । २३… तिमोहिनी - ख । २४ तुङ्गस्तनी - घ । २५ नागपासवरायुधा - घ. । २६ देव - घ. । २७. नाम् - घ. । २८ स्त्रमैक्षत सुभासुरम् - क., स्वभाश्वरं - ख., प्रभाश्वरं - घ. । २९ संहरन्निव - क. । ३० भ्रुकुटीभूषितास्यश्च - क ख. । ३१ च - घ. । ३२… श्च सुभुजश्चैव - क ख. । ३३ सन्तुष्टा - घ. । ३४ हरिर्नाम - घ. । ३५ भगवान्देवो - ख. । ३६ प्रचेतससुतस्यास्य - घ. .. स्येम - क । ३७. नवेश्वर - ख । ३८ ततोस्य - क. । ३९ गणेश - ख., गणेशः - घ. । ४०. णं - ख. । ४१ भीमान् - घ. । ४२ नाम्ना - घ. । ४३ बाहून् -घ. । ४४ तु - क. । ४५ तस्मि (न्) - क. ख. घ. । ४६ महात्मनः - क., ना - घ. ।


कोट्यस्ता नवतिश्चैव शतञ्चैव तदा प्रभोः[^४७]।
स ताँश्चोवाच[^४८] भगवान् यज्ञं प्रमथतानघाः ॥२४॥

सनत्कुमार उवाच
ततस्तौ तेन सैन्येन महताभिसमावृतौ ।
जग्मतुः सागरोन्नाद[^४९] मेघाशनिनिनादितैः[^५०] ॥२५॥

देवोपि सह पार्वत्या रैभ्याश्रमसमीपतः[^५१] ।
स्थित्वापश्यद् गणेशानां कर्म तद् यज्ञनाशनम् ॥२६॥

सनत्कुमार उवाच
वृक्षाः कनखलेयास्तु गङ्गाद्वारसमीपगाः ।
सुवर्णशृङ्गश्च गिरिर्मेरुपर्वतसन्निभः ॥२७॥

तस्मिन् प्रदेशे दक्षस्य यज्ञोसावभवत्तदा[^५२] ।
गणेश्वरबलं चागाद् भीमं कालीपुरोगमम् ॥२८ ॥

ते सम्प्राप्य महाभागाः सर्वे दीप्तानलप्रभाः ।
ऊचुस्तं यजमानञ्च ऋत्विजोथ मुनीन् सुरान् ॥२९॥

वयं ह्यनुचराः सर्वे शर्वस्य परमात्मनः ।
इहाभिलिप्सवः प्राप्ता भागान् यच्छध्वमीप्सितान् ॥8.32.३० ॥

तपसा यज्ञभागार्हा बलेन[^५३] नियमेन वा[^५४] ।
ऐश्वर्येणाथ योगेन[^५५] येन तेन पुरो हि वः[^५६] ॥३१॥

सर्वञ्चास्मास्वपि हि तद्[^५७] वयमप्यंशभागिनः[^५८] ।
अथ चेत् स्वामिनो देवास्तेन भागार्हतां गताः ॥३२॥

स्वामित्वे च बलं हेतुस्तपो वा नात्र संशयः ।
अस्मास्वेवोभयं तच्च स्वामित्वं तेन नो वरम् ॥३३ ॥

अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः ।
भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् ॥३४॥


प्रभो - क .घ । ४८ सर्वांश्चोवाच - क. । ४९ सागरैर्नादैः - घ. । ५० विनादितैः - क., तौ - क., नी (नौ?) - ख. । ५१ वैश्वानरसमप्रभः - घ. । ५२ यज्ञोयमभवत्तदा - क. । ५३ बलेना - घ. । ५४ च - घ. । ५५.. .भियोगेन - घ. । ५६ वयं सुराः - घ. । ५७ चास्मासु पिहितं - घ. । ५८ तद्वयं ह्यंशभागिनः - घ. ।


तं ब्रूत यो ज्ञापयति वेत्स्यामो हि वयं ततः ।
एवमुक्तास्तु हरिणा सर्वे देवपुरस्सराः ॥३५॥

ऊचुर्मन्त्राः प्रमाणं वो भागं प्रति गणेश्वराः[^५८] ।
मन्त्राप्यूचुः सुरान् यूयं तमोपहतचेतसः ॥३६॥

येन प्रथमभागार्हं[^६०] नायजध्वं महेश्वरम् ।
मन्त्रैस्ते प्रोच्यमानापि नैव भागान् ददुर्यदा ॥३७॥

तदा यातास्ततो मन्त्रा ब्रह्मलोकं सनातनम् ।
ततः शक्रादयो देवाः सर्वे ऊचु[^६१]र्गणेश्वरान् ॥३८॥

त्यक्त्वा (?) - - - - - ।
युष्मान्निहन्मो विक्रम्य सर्वानेवागतान् युधि ॥३९॥

तेषां सगर्वं[^६२] तद् वाक्यं श्रुत्वा हरिरमित्रजित् ।
उवाच प्रहसन् सर्वानिदं वचनसूर्जितम् ॥8.32.४०॥

मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः[^६३] ।
यस्मात् प्रसह्य तस्माद्वो नाशयाम्यद्य गर्जितान्[^६४] ॥४१॥

ऋत्विग्भिर्भागधेयैश्च सह यज्ञेन चोद्यतः[^६५] ।
येषां च लवत्ता[^६६] वस्तान् सर्वान्[^६७] नाशयाम्यहम् ॥४२॥

एवमुक्त्वा स तेजस्वी हरिभद्रः प्रतापवान् ।
भद्रकाली च सङ्क्रुद्धा अभिदुद्रुवतुः[^६८] सुरान् ॥४३॥

गणेश्वराश्च सङ्क्रुद्धा यूपानुत्पाट्य चिक्षिपुः ।
प्रस्थात्रा[^६९] सह होतार[^७०]मश्वं[^७१] चैव गणेश्वराः ॥४४॥

गृहीत्वा कुपिताः सर्वे गङ्गास्रोतसि चिक्षिपुः ।
यजमानञ्च पाशेन बद्ध्वा निन्युर्यथासुखम् ॥४५॥


महेश्वराः - ख. । ६० प्रमथभगार्हं - ख । ६१ सर्वानूचु - क. । ६२ सवर्गं - क. । ६३… दर्पितैः? ६५ गर्वितान्? ६५ चोदितः - घ. । ६६ यद्बलं यत्तपो वापि - घ. । ६७ तत्सर्वं - घ. । ६८.. .वभिदुद्रुवातुः- क. । ६९ प्रस्तोत्रा - ख. । ७० होत्रा च - घ. । ७१ मखं - घ. ।


वेदीमन्ये[^७२] कुशानन्ये[^७३] स्रुचोन्ये चमसान् परे[^७४]।
व्यनाशयँश्चिक्षिपुश्च शालाश्चान्येभ्यदीपयन्[^७५] ॥४६॥

हरिभद्रोपि दीप्तात्मा शक्रस्योद्यच्छतः[^७६] करम् ।
व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् ॥४७ ॥

भगस्य नेत्रे पूष्णश्च दशनान् रुषिताननः[^७७] ।
धनुष्कोट्या समाहत्य[^७८] मिषतां[^७९] सन्न्यपातयत्[^८०] ॥४८ ॥

विष्णोश्चक्रं च तद् घोरं युगान्तादित्यवर्चसम्[^८१] ।
व्यष्टम्भयददीनात्मा करस्थं न चचाल ह ॥४९ ॥

तुषिताँश्च तथा[^८२] देवानुद्युक्तान् युद्धलालसान् ।
वायव्यास्त्रेण संहत्य पृथिव्यां तान्न्यपातयत् ॥8.32.५० ॥

अन्याँश्च देवान् देवोसौ सर्वान्[^८३] युद्धाय[^८४] संस्थितान् ।
मोहनेनास्त्रवर्येणे[^८५] समोहयदनिन्दितः ॥५१ ॥

राजानश्चापि ये केचित् तत्रायाता दिदृक्षवः[^८६] ।
तान्सर्वानस्त्रवीर्येण स्वगृहाननयद् बलात् ॥५२॥

तद् प्रविध्वस्तकलशं भग्नयूपसतोरणम् ।
प्रदीपितमहाशालं दृष्टवा यज्ञोभिदुद्रुवे ॥५३ ॥

तं तदा मृगरूपेण धावन्तं गगनं प्रति ।
हरिः शरं स सन्धाय[^८७] विशिरस्कमथाकरोत् ॥५४॥

शरं चापरमादाय[^८८] वीरभद्रः प्रतापवान् ।
पलायमानं तं यज्ञं ससार मृगरूपिणम् ।
नक्षत्रसमतां यातुं द्वाबद्धं वीतमभ्यगात् ॥५५ ॥

सनत्कुमार उवाच
एवं ते[^८९] निकृता[^९०] व्यास गणैः काल्या तथैव च ।
हरिणा चैव देवेन सर्वे[^९१] शरणमागताः ॥५६॥


मध्ये - ख. । ७३… मन्ये - क. । ७४… नपि - क. । ७५… न्यदीपयन् - क. । ७६… स्यामुच्चतः- घ । ७७ कुपिताननः - घ. ॥३८ महासत्व - घ । ७९ मिथस्तां (न्) - घ. । ८० सन्यवारयत् - घ. । ८१ सन्निभम् - क. । ८२ ततो - घ. । ८३ स तान् - ख., यज्ञ - घ. । ८४ कौशल्य - घ., युद्धसमु- त्थितान, - ख. । ८५… वीर्येण क. ख. घ. । ८६ तत्र तत्र समागतान् - घ. । ८७ समाधाय - क. घ., समादाय - ख. । ८८ सशरं चाप - घ., शरञ्चापं स - ख । ८९ निर्गता - घ । ९० गणैभद्रा - क सर्वेवै त्रिदिवौकसः - घ. । ९१ तं सर्वे - घ. ।


तान् प्रपन्नान् तदा सर्वान् देवान्[^९१] समुनिलोकपान् ।
हरिः काल्या सहैवाह गच्छध्वं सोममव्यम् ।
प्रसादयध्वं देवेशं ततो वो भविता शमः[^९२] ॥५७॥

सनत्कुमार उवाच
त एवमुक्ता[^९३] हरिणा जग्मुर्देवं प्रमन्यवः ।
प्रसादयितुमव्यग्रा दुःखशोकसमन्विताः ॥५८॥

ततस्ते नातिदूरे तु[^९४] साम्बं[^९५] सगणमीश्वरम्[^९६] ।
अपश्यन्त[^९७] महात्मानः[^९८] सर्वे तद्गतमानसाः ॥५९॥

ते तं दृष्ट्वा प्रणम्योच्चै[^९९] स्तुष्टुवुर्दीप्ततेजसम् ।
वाग्भिराहवनीयाभिः[^१००] कृत्वा ब्रह्माणमग्रतः ॥ 8.32.६० ॥

देवा ऊचुः
नमस्ते सुरशत्रुध्न सुरयज्ञप्रमर्दक[^१०१] ।
महायज्ञ महासत्व महाक्रतुशतस्तुत ॥६१॥

नमो यज्ञविनाशाय वेदसर्वस्वदाय[^१०२] च ।
शिपि[^१०३] विष्टकृते विष्णोर्नरसिंहाभिघातिने ॥ ६२॥

मन्दराद्रिनिवासाय[^१०४] शुभसर्वस्वदाय च ।
महाविमानयानाय ऋतुविघ्नकराय च ॥६३ ॥

मन्त्रान्तः करणयैव[^१०५] मन्त्रव्रतकराय च ।
पूष्णो दन्तविनाशाय भगनेत्रहराय च ॥६४॥

विष्टम्भनाय शक्रस्य विष्णोश्चक्रस्य चैव हि ।
नमो यज्ञप्रणेत्रे च[^१०६] यज्ञोत्पत्तिकराय च ॥ ६५॥

वरदानाधिगम्याय[^१०७] ब्रह्मणो जनकाय च ।
व्याघ्रचर्मभृते तुभ्यं[^१०८] कृष्णचर्माम्बराय च ॥६६॥


सदेवान् - ख., सर्वांश्च - ख. । ९२ समः - घ., मम - क. । ९३ एवमुक्तास्तु घ. । ९४ तं दुरारोहं - घ. । ९५ सोमं - घ. । ९६ शरणमीश्वरम् - घ. । ९७… न्त - घ. । ९८… नं - घ. । ९९ प्रणम्योचुऽ - घ. । १०० रादरणीयाभिः - घ., रावाहनियाभिः - क., संस्कृतयुक्ताभिः - घ. । १०१… प्रवर्तक - क. घ. । १०२ देवसर्व- स्वदाय - घ. । १०३ शिखि… - ख, शिबि., - क. । १०४ मन्दरेन्द्रविनाशाय - क. घ. । १०५ मन्त्रान्त… - घ. मन्त्रार्क… - ख. । १०६ यज्ञप्रणेतुश्च - क. । १०७ . दिगम्याय - घ. । १०८ चैव - ख. ।


नमः स्रग्वरमालाय नरपित्रे तथैव च ।
उत्पादकाय विष्णोश्च जयाय विजयाय च ॥६७॥

नमो मन्युविनाशाय वीरभद्रप्रजाय च ।
नमो हर्षाय कोपाय[^१०९] गणेश्वरसृजे नमः ॥ ६८ ॥

नमो देवानुतापाय मृगबाणार्पणाय[^११०] च ।
नमस्ते भगवन् देव नमस्ते भगवञ्छिव ॥६९॥

नमस्ते सर्वलोकेश नमस्ते लोकभावन[^१११] ।
त्वया सृष्टमिदं विश्वं[^११२] यज्ञो देवाश्च यज्ञहन् ।
प्रसीद मा क्रुधोस्माकं मा नः कृत्वा विनाशय ॥8.32.७० ॥

सनत्कुमार उवाच
य इमं पठते नित्यं प्रयतः[^११३] प्रातरुत्थितः ।
न तस्य विघ्नरूपाणि कदाचित् सम्भवन्त्युत ॥७१ ॥

सनत्कुमार उवाच
स एवमुक्तो देवेशस्तदा[^११४] तान् स्तुवतः स्थितान् ।
उवाच प्रहसन्[^११५] वाक्यं सर्वात्मा सर्वभावनः[^११६] ॥७२॥

देवदेव उवाच
नाहं क्रुद्धो भवन्तो मे नित्यमेवातिवल्लभाः[^११७] ।
क्रुद्धे हि मयि युष्माकं न स्याज्जीवं[^११८] क्षणान्तरे ॥७३ ॥

सनत्कुमार उवाच
एवमुक्त्वा तदा देवः सुराणां हितकाम्यया ।
प्रावेशयत् सुरान् सर्वान् ततस्तान् योगमायया[^११९] ॥७४॥

स्वे शरीरे महादेवो विस्मापयितुमोजसा ।
ते प्रविष्टास्तदा देहमीश्वरस्य[^१२०] महात्मनः ॥७५॥


रूपाय - ख. । ११० मृगमाणार्पणाय - ख- । १११ सर्वभावन - घ. । ११२ सर्वं - घ. । ११३ नियतः - ख । ११४ सदा - घ । ११५ च महादेवः - घ. । ११६ सर्वान्देवान् समागतान् - क. । ११७ नित्यमेव हि वल्लभाः - ख. । ११८ भ्रंस्याज्जीवं - घ.,… व्यं - घ. । ११९ प्रवेशयमास तदा योगेनापि- बलीयसा - घ. । १२०… मुमेशस्य - घ. ।


सप्तलोकसमायुक्तमपश्यन् जगदद्भुतम्[^१२१] ।
ते परिभ्रम्य[^१२२] ताल्ँलोकान् कृत्स्नान् सर्वे भयान्विताः[^१२३] ॥७६ ॥

पञ्चाक्षं गणपं वीरं तत्रापश्यन् समागताः[^१२४] ।
तेन ते सुरशार्दूलाः[^१२५] सर्वे ह्यूर्ध्वमतन्द्रिताः[^१२६] ॥७७॥

आक्षिप्तास्तन्मुहूर्तेन लोकमन्यमुपागताः ।
अपश्यंस्ते महाभागा नगरं सूर्यसन्निभम् ॥७८॥

स्फाटिकेनातिमहता प्राकारेणाभिसंवृतम् ।
शृङ्गैश्च विविधैश्चित्रैर्मणिहेमोज्ज्वलैः शुभैः[^१२७] ॥७९ ॥

ततोपरमपश्यँस्ते तन्मध्ये सुरसत्तमाः ।
सप्तयोजनकोटीकं[^१२८] समन्तान्नगरं शुभम् ॥8.32.८० ॥

राजतेनावृतं दिव्यं प्राकारेणेन्दुवर्चसा ।
तस्य मध्ये परं चोर्ध्वं[^१२९] षट्कोट्या[^१३०] विस्तृतं पुरम् ॥८१ ॥

जाम्बूनदमयेनैव प्राकारेण[^१३१] सुसंवृतम् ।
तस्य मध्ये[^१३२] ततश्चान्यत्[^१३३] पञ्चकोटी[^१३४] प्रमाणतः ॥८२ ॥

इन्द्रनीलोपलेनैव प्राकारेण समावृतम् ।
तस्य मध्ये ह्यपश्यंस्ते विबुधा[^१३५] मुनिसत्तम[^१३६] ॥८३ ॥

चतुर्योजनकोटीकं विस्तारायामतः समम्[^१३७] ।
वैदूर्योपलयुक्तेन[^१३८] प्राकारेणाभिसंवृतम् ॥८४॥

नगरं तस्य मध्ये च त्रिकोटीयोजनं[^१३९] शुभम् ।
सर्वरत्नविचित्रेण प्राकारेणाभिसंवृतम् ॥८५ ॥

तेषां मध्ये जनपदाः सर्वदुःखविवर्जिताः ।
शुक्लाभिजनसम्पन्नाः सर्वे च स्थिरयौवनाः ॥८६॥


मपश्यँश्च जगत्ततः - घ. । १२२ परिभ्राम्य - ख. । १२३ ममार्द्दिताः - ख. । १२४ समागतं - घ. । १२५ गणशार्दूलाः - ख. । १२६ वै सूर्यवर्चसः - घ । १२७ सुशोभितमनोहरं - घ. । १२८ कोट्या वै - घ. । १२९ चान्यं - घ. । १३०… कोटी - घ. । १३१ प्राकारेणैव - ख.,… णाति (भि)… - घ. । १३२ तस्योर्ध्वत? - घ. । १३३.. .श्चास्यां - घ. । १३४… कोट्या - घ. । १३५ विविधान् - घ. । १३६… मान् - घ. । १३७ शुभम् - घ. । १३८ वैडूर्योपलयुक्तेन - क. । १३९… कोटीयोजनं - ख. ।


क्षुत्पिसाविनिर्मुक्ता[^१४०] रोगशोकविवजिताः[^१४१] ।
अमरा जरया[^१४२] त्यक्ता नित्यं मुदितमानसाः ॥८७॥

दीर्घिकाभिर्विचित्राभिर्वापीभिश्चाप्यलङ्कृताः[^१४३] ।
वक्षैर्नानाविधैश्चित्रैः सदा पुष्पफलोपगैः ॥८८॥

सर्वभक्षान्[^१४४] प्रसूयन्ते वृक्षास्तत्रापरे शुभाः ।
अपरे चाप्यलङ्कारान्[^१४५] सर्ववासांसि चापरे ॥८९॥

अपरे सर्वपुष्पाणि सर्वाण्येव फलानि च ।
सर्वभावाँस्तथा चान्ये मधु चामाक्षिकं[^१४६] शुभम् ॥8.32.९० ॥

अपरे क्षीरिणस्तत्र वृक्षा व्यास महाप्रभाः ।
क्षीरं क्षरन्ति ते नित्यं सर्वे[^१४७] गव्यं[^१४८] समन्विताः[^१४९] ॥९१ ॥

सर्वा मणिमयी भूमिः शुभा काञ्चनवालुका[^१५०] ।
उद्भिदान्युदकान्यत्र गिरि[^१५१] प्रस्रवणानि च ॥ ।९२॥

न तेषु क्रोधो लोभो वा युद्धं द्वेषोथ मत्सरः ।
न मोहो[^१५२] नैव च स्तम्भो न दोषास्तत्र चापरे ॥९३ ॥

तस्य मध्ये पुरं चान्यद् द्विकोटीविस्तृतं शुभम् ।
पद्मरागमयेनैव प्राकारेण परिष्कृतम् ॥ ९४॥

ईदृशानि पुराणि स्म व्यतिक्रम्य सुरास्ततः ।
कोटीयोजनविस्तीर्णं समन्ताद् वह्निनावृतम् ॥९५॥

संवर्तकानलाकारं दुर्निरीक्ष्यं पुरं महत् ।
अद्वारं ददृशुर्दिव्यमनन्तं ते सुरोत्तमाः ॥ ९६॥

दृष्टवा जग्मुः परं[^१५३] चैव विस्मयं भयमेव च ।
तान् भीतवदनान् व्यास वेपमानान् सुरेश्वरान् ।
पञ्चाक्षो गणपः प्राह मा भीर्भवतु वः सुराः ॥९७॥


विमुक्ता हि - क. घ. । १४१ रागलोभविवर्जिताः - घ । १४२ अजरा अमराः - ख, अजरा - घ. । १४३ चप्यालङ्कृतं - घ. । १४४ सर्वभक्षम्। - क., क्षानि - ख । १४५ चाप्यलङ्कारं - क. ख. घ. । १४६ मधुरैर्माक्षिकैः - घ. । १४७ सर्वं… क. । १४८ दिव्यं - क ख । १४९… तं - क. घ. । १५०… चुल्लिका - क. । १५१ गिरे. - घ । १५२ मानो - ख घ- । १५३ पुर - घ. ।


इदन्तत् सुमहद् घोरं पुरं घोरानलावृतम् ।
द्रष्ट्व्यं वो महात्मानो यत्कृते चागतास्त्विह[^१५४] ॥९८॥

सनत्कुमार उवाच
एवमुक्त्वा स पञ्चाक्षः[^१५५] शूलेनानलवर्चसा ।
पश्यतां सुरसङ्घानां द्वारं चक्रे महाबलः[^१५६] ॥ ९९ ॥

ते प्रविष्टा महात्मानः पञ्चाक्षसहिताः सुराः ।
दिव्यं ददृशिरे पूर्णं[^१५७] सिंहानां तत् पुरं महत् ॥ 8.32.१०० ॥

मेरुमन्दरकल्पानां नखदंष्ट्रावतां तथा ।
घोराणामग्निवर्णानां क्रुद्धानामतितेजसाम् ॥ १०१ ॥

तेषामेकस्तदासिंहश्छित्त्वा बन्धनमूर्जितः[^१५८] ।
अन्वधावत सङ्क्रुद्धः प्रलम्बितमहासटः ॥ १०२॥

तस्य सिंहस्य नादेन भैरवेण दिवौकसः ।
विषण्णवदनाः सर्वे पञ्चाक्षं शरणं ययुः ॥ १०३ ॥

पञ्चाक्ष उवाच
न भेतव्यं सुरा देवं दर्शयाम्यधुना हि वः ।
सनत्कुमार उवाच
इत्युक्ता[^१५९] ददृशुः शर्वं[^१६०] सहसा ते सहोमया[^१६१] ।
न चैव तत्पुरं व्यास न सिंहं[^१६२] नापि किञ्चन ॥ १०४॥

वेपमाना भयेनेशं शरणं पर्युपागताः ।
तान् शरण्यः[^१६३] स भगवानुवाच प्रहसँस्तदा ॥ १०५॥

आमन्त्र्य सर्वान्[^१६४] देवेशो भयत्रस्तान्[^१६५] दिवौकसः ।
दृष्टा[^१६६] हि वो मम क्रोधाः सिंहरूपा भयानकाः ॥ १०६ ॥

एकेन तेषां रौद्रेण यूयं सर्वेपि[^१६७] तर्जिताः[^१६८] ।
यदि सर्वानहं क्रोधाद्[^१६९] विसृजेयं कदाचन[^१७०] ॥ १०७॥


नागतास्त्विह - क. ख. । १५५ पञ्चास्यः - घ । १५६ महानदः - घ. । १५७ पूर्वं - ख. । १५८… तं - क. ख. । १५९… क्त्वा - क. ख. घ. । १६० सर्वे यूयं - क ख. घ । १६१ तैस्सहोमया - क. । १६२ सिंहो - घ, सिंहां ( न्) - ख. । १६३ भयार्तान्- - ख. घ । १६४ सर्वं - क. । १६५ भया ( त्) - क., भयार्तास्तान् - ख. घ. । १६६ दृष्ट्वा - क., दृष्ट - ख. । १६७ सर्वे यूयं - क. ख । १६८ विनिर्जिताः - क. । १६६ क्रोधान्? क्रोधे - घ. । १७० कथञ्चन - क ख. घ ।


न भवेत न सन्देहः[^१७१] सर्वे यूयं क्षणान्तरे १७२
इयन्तु देवी युष्माकं कुपिता पर्वतात्मजा ।
एतां प्रसादयत व नाहं कुप्यामि वः[^१७३] सुराः ॥१०८॥

सनत्कुमार उवाच
एवमुक्तवति स्वामिन्युद्धता ताम्रलोचना[^१७४] ।
देवी देवीं मुखाद् घोरां ससृजे भयवर्द्धनीम् ॥ १०९॥

दंष्ट्राकरालवदनां[^१७५] बहुपादकराङ्गुलिम्[^१७६] ।
धनुपरशुखड्गोग्र[^१७७] चक्रशूलेषुधारिणीम्[^१७८] ॥8.32.११० ॥

ज्वलर्दकसहस्रांशुतेजसं[^१७९] विश्वरूपिणीम् ।
दशयोजनसाहस्र[^१८०] स्तस्या देहः प्रमाणतः[^१८१] ॥१११ ॥

तयाभिभूतास्ते देवा वध्यमानाश्च[^१८२] सर्वशः ।
न शेकुः[^१८३] पुरतः स्थातुं व्याघ्राद् मृगगणा इव ॥ ११२॥

ततो व्यथितचित्तास्ते कालकर्णीभयात्[^१८४] सुराः[^१८५] ।
भस्मराशिं स्थितं पार्श्वे देवस्य[^१८६] विविशुर्भयात् ॥ ११३ ॥

तान् दृष्टवा भस्मकूटं तु प्रविष्टान् शरणार्थिनः ।
सुरान् भस्मविलिप्ताङ्गान् देवी[^१८७] देवीं[^१८८] न्यषेधयत् ॥ ११४॥

देव्युवाच
कालकर्णि निवर्तस्व मा वधीः[^१८९] सुरसत्तमान् ।
एते पाशुपती[^१९०] भूता भस्मना दिग्धमूर्तयः[^१९१] ॥ ११५॥

एतत् पशुपतिप्रोक्तं व्रतं पाशुपतं पुरा ।
यद् भस्मना पवित्रेण स्नानं स्नानेभ्य उत्तमम् ॥ ११६॥

एते भगवतोवश्य[^१९२] मनुग्राह्याः[^१९३] सुरोत्तमाः ।
भस्म येन प्रविष्टास्तु[^१९४] तस्मान्मैतान् विनाशय ॥ ११७॥


भवेयुरसन्देहः - क. ख. । १७२ क्षणेपिच - ख. । १७३ वा - क. । १७४ युद्धवातम्रलोचना - क. ख. । १७५… दशनां - ख. । १७६ गतिं - घ । १७७… ग्रां - क. । १७८ … लासिधारिणीम् - क. । १७९.. .सां - ख. । १८० साहस्रां - ख. । १८१ देहं प्रकीर्तितम् - क. । १८२ वर्धमानाश्च - घ. । १८३ तत्यजुः - घ. । १८४ कालकर्णभयात् - क, न्या - ख,, कल्प - घ. । १८५ पुरा - घ. । १८६ देवास्ते - घ. । १८७ देवो - क., देवीं - ख । १८८ देवी - क. ख. । १८९ मा धाव - घ. । १९० पाशुपता- क. घ. । १९१ निर्दग्धमूर्तयः- घ. । १९२ वश्या - क. । १९३… गृह्या - ख. । १९४… स्ते - क. ।


रौद्राः पशव एते हि प्रवेशाद् भस्मसोधुना[^१९५] ।
जाताश्च गणपाः सर्वे हन्तव्या न त्वयेश्वरि ॥११८॥

नैषां मृत्युः प्रभवति शङ्करार्पितचेतसाम् ।
मया ह्येतत्[^१९६] व्रतं शर्वं चरितं सार्वकामिकम्[^१९७] ॥११९॥

इत्युक्ता[^१९८] कालकर्णी तु देव्या[^१९९] भैरवरूपिणी ।
न्यवर्तत सुरेभ्यस्तु[^२००] कोपं तत्याज चोत्थितम्[^२०१] ॥ 8.32.१२० ॥

कालकर्णीं निवृत्तां तु दृष्ट्वा तेपि[^२०२] सुरास्ततः[^२०३] ।
शान्तञ्च भयमत्युग्रं तुष्टुवुर्हिमवत्सुताम् ॥१२१ ॥

देवा ऊचुः


सनत्कुमार उवाच
एवं सा संस्तुता देवी देवैर्हृष्टेन[^२३८] चेतसा[^२३९] ।
त्र्यम्बकानुग्रहाच्चैव देवाँस्तुष्टाब्रवीदिदम् ॥ १४५॥

देव्युवाच
गच्छध्वं विज्वराः सर्वे तुष्टाहं वो न[^२४०] संशयः ।
मैवं कार्ष्ट पुनर्देवा मा विनाशो हि वो भवेत् ॥१४६॥

सनत्कुमार उवाच
ततः स देवः प्रहसन् कपर्दी नीललोहितः ।
प्रकृतिस्थान् सुरान् सर्वांश्चकार सुरशत्रुहा ॥ १४७॥

उवाच चैतान् देवेशो गच्छध्वं विगतज्वराः ।
यज्ञश्चैव यदा कृत्यं तदायं भविता हि वः ॥ १४८ ॥

सशिरस्को दितेः पुत्रा मन्त्रेणानेन सन्धितः ।
ततः स्तोत्रं च मन्त्रं च सन्धानकरमव्ययम् ।
ददावाथर्वणं देवः प्रोवाचेदं च[^२४१] सुस्वरम्[^२४२] ॥ १४९॥

देवदेव उवाच
नक्षत्रसमतां यातु यज्ञोयं सुरसत्तमाः ।
मृगानुसारी देवोपि हरिरस्य भवत्वयम् ॥8.32.१५० ॥

भद्रकाली हरिश्चैव[^२४३] गणाश्चेमे महाबलाः ।
सर्वे भद्रा[^२४४] भविष्यन्ति युष्माकममरास्सदा ॥१५१ ॥

सनत्कुमार उवाच
एवमुक्ता भगवता देवास्ते ब्रह्माणा सह ।
शिरोभिः प्रणतास्सर्वे शर्वमूचुरिदं वचः ॥ १५२ ॥

एष तावत् क्रतु[^२४५] श्रेष्ठस्तवैव भवतु प्रभो ।
सर्वः सुरपते देव शतमभ्यर्च्यते[^२४६]व्यय[^२४७] ॥ १५३ ॥


दिव्येन - ख. । २३९ चक्षुषा - घ. । २४० वोहं - घ. । २४१ कोपेन च - ख. घ. । २४२ सत्वरं - घ. । २४३ हरश्चैव - घ. । २४४ रुद्रा - घ. । २४५ क्रतुः - क. । २४६ मन्यच्च ते - घ. । २४७. . व्ययः - क. ।


भागानां सर्वयज्ञेषु तुभ्यं सर्वं ददामहे ।
एवमुक्तोथ देवेशः सुरैः सर्वैः सुरेश्वरः ॥१५४॥

चकार रूपं परमं सर्वदेवमयं शुभम् ।
स्वात्मानन्ते तदा देवा[^२४८] ह्यपश्यन्त महेश्वरे ॥१५५॥

शिरोबाहूरुपादेषु वस्तिहस्तोदरादिषु ।
अवस्थितान् महात्मानो[^२४९] मुनीँश्चैव तपोधनान् ॥१५६॥

स तद्रूपं तदा कृत्वा देवान् प्रोवाच शङ्करः ।
सर्वे यूयं महात्मानो मच्छरीरसमुद्भवाः ॥१५७॥

युष्माकञ्च शरीराणि मन्मयानि प्रपश्यत ।
ततस्ते देवता[^२५०] व्यास सर्वं रुद्रात्मकं जगत् ॥१५८॥

आत्मानं[^२५१] चाप्यपश्यन्त विस्मयापन्नचेतसः ।
एवं स[^२५२] तेषां देवेशो दर्शयित्वात्मनो बलम् ॥२५९॥

उवाच सुरशार्दूलान् दृष्टा[^२५३] ह्येता विभूतयः ।
यो यां[^२५४] पूजयते मूर्तिं भक्त्या परममया युतः ॥8.32.१६० ॥

तस्य तां मूर्त्तिमास्थाय पूजां गृह्णाम्यहं सुराः ।
न भागधेयैः कृत्यं मे भागधेयानि वस्मुराः ।
सर्वाण्येव ददाम्यद्य[^२५५] यात सर्वे गतज्वराः ॥१६१ ॥

देवा ऊचुः
गुह्यमेतत् परं देव त्वयास्माकं निदर्शितम्[^२५६] ।
एवं यो वेत्स्यते मर्त्यः स लोकान् प्राप्स्यतेव्ययान् ॥१६२॥

इदं च भगवन् स्थानं भद्रेश्वरमिति श्रुतम्[^२५७] ।
भविष्यति जगच्छ्रेष्ठं पुण्येभ्यः[^२५८] पुण्यवत्तमम्[^२५९] ॥१६३ ॥

समन्ताद् योजनं चैवं रुद्रक्षेत्रं सनातनम् ।
मृतोत्र गणपो देव वल्लभस्ते[^२६०] भविष्यति ॥१६४॥


स्वयमन्यं ददौ देवो - ख. । २४९ देवानवस्थितात्मानो - स. । २५० तेजसा - क- । २५१ आत्मन… - घ. । २५२ तेषां स - घ । २१३ दृष्ट्वा - क. घ. । २५४… मां - घ. । २५५.. न्यद्य - क. । २५६ विदर्शितम् - घ. । २५७ स्मृतम् - घ । २५८ स्थानेभ्यः - क. ।ऽ २५९ षुण्यकृत्तमम् - का ख., पुण्यमुत्तममं - घ. । २६० समूहन्ते - ख. ।


यश्चेदं[^२६१] कीर्त्तयेन्नित्यं कल्य उत्थाय[^२६२] यज्ञहन् ।
श्रावयेच्चापि विप्रेभ्यः २६३ सर्वपापैः प्रमुच्यते ॥ १६५॥

भद्रकर्णह्रदे चास्मिन् स्नात्वा योभ्यर्चयेद्धरम्[^२६४] ।
साधयित्वा चरुं चैव भोजयेद् ब्राह्मणान् शुचिः[^२६५] ॥ १६६॥

स सर्वपापनिर्मुक्तो[^२६६]. यत्र तत्र मृतो नरः ।
मोदतेप्सरसां मध्ये दिवि देव इवापरः[^२६७] ॥ १६७॥

यत्र चोक्तं त्वया देव स्थितेन[^२६८] भगवन् प्रभो ।
हरभद्रेति पुण्योयं त्वत्प्रसादाद् भवत्वज ॥१६८॥

अश्वमेधस्य यत्पुण्यं[^२६९] सम्यगिष्टस्य यज्ञहन्[^२७०] ।
तदत्र देव भवतु नरस्याभ्यर्चतः सदा[^२७१] ॥१६९॥

परित्यक्ष्यति[^२७२] यश्चात्र कश्चित् प्राणान् नरोत्तमः ।
हरिभद्रस्य स गणो भविष्यति महाबलः । 8.32.१७० ॥

सनत्कुमार उवाच
एवमस्त्विति स प्रोच्य मन्दरं चारुकन्दरम् ।
जगाम भगवान् शर्वः सोमो गणशतैर्वृतः ॥१७१ ॥

देवापि राज्ञा[^२७३] सहितास्तस्मिँस्थाने यथासुखम् ।
तस्थुर्ब्रह्मा च विष्णुश्च जग्मतुर्देवपृष्ठतः ॥ १७२ ॥

स गत्वा स्तोकमध्वानमुभाभ्यां सहितः प्रभुः ।
नातिदूरे ततः प्राह तिष्ठ विष्णो महाबल ॥१७३ ॥

स प्रणम्य ततः पादौ हरस्य पुरुषोत्तमः ।
तस्थावाम्रं समालम्ब्य[^२७४] स कुब्जस्समपद्यत ॥ १७४॥

यस्मादाम्रं समालम्ब्य तस्मिन् देशे स्थितो हरिः ।
निरीक्षमाणो देवेशं देशस्तस्मादभूदसौ । १७५ ॥


श्चेमं - क. ख. घ. । २६२… मुत्थाय - क । २६३ उपोष्य- ग । नरः सम्यक् - ख, स्वयं वा मानवः सम्यक् - घ. । २६४ हरमर्चते - ख. । २६५ ब्राह्मणं शुभ ख . ण - घ । २६६ सर्वपापादिनिर्मुक्तो - ख. घ. । २६७ इवामरः - क. घ. । २६८ तिष्ठता - घ । २६९ यज्ञस्य - क. । २७० यत्फलं - ख. । २७१.. .र्च्य सर्वदा - क, नः सदा - ख. । २७२ त्यजति - घ. । २७३ यज्ञ.. - ध । २७3 समालक्ष्य - ख. ।


कुव्जाम्रक इति ख्यातो विष्णोः क्षेत्रं समृद्धिमत् ।
पुण्यं निवर्तनाद्विष्णो[^२७५] गोसहस्रफलप्रदम् ॥१७६॥

नातिदूरं ततो[^२७६] गत्वा भूयो देवः पितामहम् ।
निवर्त्तेत्यब्रवीद्[^२७७] व्यास गगनञ्च समाविशत् ॥१७७॥

तस्मिन् वियद्गते देवे ब्रह्मा प्राञ्जलिरुन्मुखः ।
प्रदक्षिणं समावृत्य प्रणम्य प्रययौ ततः ॥ १७८॥

यस्मात्तत्र हरं तेन कुर्वता वै प्रदक्षिणम् ।
आवर्त्तः[^२७८] स्वशरीरस्य प्रकृतः[^२७९] पुण्यकर्मणा ॥ १७९॥

तस्मात् स देशो विख्यातो ब्रह्मावर्त्तेति शोभनः ।
अश्वमेधफलं तत्र स्नातः प्राप्नोति मानवः ॥ 8.32.१८० ॥

साधयित्वा चरुं चात्र भोजयित्वा तथा द्विजान् ।
प्राणान् परित्यज्य ततो[^२८०] ब्रह्मलोकमवाप्नुयात् ॥१८१ ॥

ततोभ्येत्य सुरैस्सार्धं ब्रह्मा विष्णुपुरस्सरैः[^२८१] ।
भद्रेश्वरे पशुपतेर्महिमानमथाकरोत् ॥ १८२॥

स लिङ्गः तत्र संस्थाप्य पूजां कृत्वातिभास्वराम् ।
भद्रकर्णह्रदे स्नात्वा सह देवैर्दिवं ययौ ॥ १८३ ॥

तं प्रयान्तं[^२८२] तदा दक्षो ब्रह्माणमिदमूचिवान् ।
कर्तव्यं किं मया देव मम तद् ब्रूहि पृच्छतः ॥१८४॥

पितामह उवाच
प्रसादय महेष्वासं[^२८३] शर्वमुग्रं कपर्दिनम् ।
ततो यज्ञसमाप्तिं च लोकांश्च प्राप्स्यसे क्षयान्[^२८४] ॥१८५॥

सनत्कुमार उवाच
स एवमुक्तो देवेन ब्रह्मणा व्यास तत्त्वतः ।
लिङ्गं कनखले कृत्वा रुद्रमभ्यर्चयत् तदा ॥१८६॥


निवर्तनान्यष्टौ - क, । २७६ नातिदूरे ततो - ख. । २७७ निवर्तस्वाब्रवीद् - घ. । २७८ आवृत्य - ख, आवर्त्ततां - घ. । २७९ प्रकृते. - घ., प्रकृतिः - ख. । २८० परित्यजेद्यस्तु - घ, तथा - क. । २८१… सुरेश्वरः - घ. । २८२ प्रयातं - क. घ. । २८३ महेशानं - ख । २८४… श्चावाप्भ्यसेव्ययान् - ख. ।


तस्य संवत्सरशते पूर्णे दिव्ये प्रजापतेः ।
महादेवोद्रिजां प्राह प्रहसन् गिरिमूर्धनि ॥ १८७॥

प्राचेतसात्मजो देवि स्थितस्तपसि संयतः ।
पश्यैनं मद्गतेनेशे चेतसा समवस्थितम् ॥ १८८ ॥

ततो दृष्ट्वा महादेवी वायुभक्षमवस्थितम्२८५ ।
लिङ्गेपरमया भक्त्या पूजयन्तं महेश्वरम् ॥१८९॥

उवाच हृषिता देवी देवं सर्वसुरार्चितम् ।
कृताञ्जलिपुटा व्यास२८६ सर्वदेवपतिं पतिम् ॥8.32.१९० ॥

देव्युवाच
क्षुद्रोयं२८७ दुष्टचेताश्च स्तब्धो मानी२८८ च दुर्मतिः ।
विष्ट्या त्वया२८९ विनिकृत२९० स्त्वामेव शरणं गतः ॥ १९१॥

तदस्य२९१ दुष्टभावस्य२९२ प्रपन्नस्य२९३ महेश्वर ।
क्षन्तुमर्हसि भक्तस्य त्वामस्यार्थे प्रसादये२९४ ॥ १९२॥

देवदेव उवाच
त्वमेव देवि यच्छास्मै वरानिष्टान् यथासुखम् ।
अनुज्ञाता मया सुभ्रु त्वमेवास्य वरं दिश ॥ १९३ ॥

सनत्कुमार उवाच
ततस्तौ देवदेवेशौ सङ्गतौ स्वगणैर्वृतौ ।
ऊचतुः पश्य दक्षावां तुष्टौ दिव्येन चक्षुषा ॥ १९४॥

प्राचेतस महाभाग वरदौ स्वो२९५ महातपः ।

                                • ॥ १९५ ॥

शापशान्त्यर्थमेत्२९६ ते वरं दद्मि तवेप्सितम् ।
यस्ते यज्ञो गणैर्ध्वस्तः फलं तस्य त्वमाप्नुहि ॥१९६॥


समास्थितम् - ख. । २८६ देवी - ख । २८७ क्षत्रोयं - घ । २८८ मौनी - घ. । २८९ चायं - घ. । २९० विनिहित - घ- । २९१ तत्तस्य - घ. । २९२ त्वं स्वभावस्य - घ. । २९३ प्रसन्नस्य - ख. । २९४ शरणं देहि देवेश नान्यव्रतरतस्य च - घ. । २९५ वरदो -ख., वरदोस्मि - क । २९६ तपः शान्त्यर्थमेतत् - घ. ।


कामरूपधरः श्रीमान् गणेशश्च भवस्व मे ।
अक्षयश्चामरश्चैव२९७ दुःखशोकविवर्जितः ।
भविष्यसि महाभाग मम चैव समीपगः ॥१९७॥

देव्युवाच
शृणुष्व२९८ भूयः किं चान्यत् प्रयच्छतु महेश्वरः ।
सुदुष्करमपि ह्येष वरं दद्यात् त्वयार्थितः२९९ ॥१९८॥

सनत्कुमार उवाच
एवमुक्तस्तदा दक्षो हिमवत्सुतया तया ।
प्राञ्जलिः प्रणतो३०० भूत्वा इदमाह महामतिः३०१ ॥१९९॥

दक्ष उवाच
यो देवस्त्रिभुवनजन्मनाशकर्ता यं मूढा न विदुरनुक्तमेकमेव३०२ ।
भक्तानामशुभहरं पिनाकपाणिं तं देवं शरणगता वयं सभार्म् ॥8.32.२००॥

योज्ञाना३०३दसुरतयातिमानमोहान्नास्माभिस्सह खलु पूजितोद्रिपुत्र्या ।
यश्शापं मम रुषितो ददौ सुरेशस्तं देवं शरणगता वयं सभार्यम् ॥२०१ ॥

यस्स्रष्टा सुरगणयक्षराक्षसानां३०४ सिद्धानां दितिसुतदानवेन्द्रनॄणाम् ।
भूतानां पशुमृगपक्षिपत्तगानां तं देवं शरणगता वयं सभार्यम् ॥२०२॥

यः कोधान्महदसृजद् गणेश्वरेशं३०५ सिंहेन्द्रं हरिममितप्रभावरूपम् ।
पत्नीं चाप्यमितगुणप्रभावयुक्तां तं देवं शरणगता वयं सभार्यम् ॥२०३॥

यो देवान्३०६ सहवरुणान् सवित्तगोपान् सब्रह्मान् सशतमखान्३०७ सविष्णुवायून् । इन्द्राग्र्यान् समुनिमहायुधान् विजिग्ये तं देवं शरणगता वयं सभार्यम् ॥२०४॥ यत्किञ्चित्त्वयि३०८ कलुषं कृतं च दुष्टं ह्यज्ञानादपि च हि रागदोषमोहात् ।
तत्सर्वं मम३०९ सह३१० भार्ययाद्य शर्वो३११ विश्वात्मा क्षमतु महानुभावभावात्३१२ ॥२०५॥

सनत्कुमार उवाच
तत एवं स देवेशं स्तुत्वा सास्राविलेक्षणः ।
प्रसार्य बाहू सर्वेण शरीरेणापतद् भुवि ॥२०६॥


श्चाव्ययश्चैव - ख. घ. । २९८ वृणुष्व - ख. । २९९ तवार्थितः - ख., सदाशिवः - घ. । ३०. प्रयतो -घ. । ३०१ महाद्युतिः - क, ख. । ३०२..? र्व्यक्तमेकमेव - घ. । ३०३ अज्ञाना - क. । ३०४ नागानां - ख. । ३०५… श - क. । ३०६ देवानां - ख. । ३०७ सशतक्रतून् - क., सकुलिशपतीन् - ख. । ३०८… न्मयि - क. । ३०९ सह क. ख. । ३१० मम - क ख. । ३११ सर्वो - क. । ३१२… युक्तः - ख. टि. ।


तं प्रपन्नं तदा देवो दक्षं सास्राविलेक्षणम् ।
देव्या सह३१३ महाभाग३१४ स्वयमुत्थापयद् बली ॥२०७॥

तस्याश्रूण्यपतन्भूमौ बिन्दुभूतानि तत्र वै ।
तानि संहत्य३१५ विप्रेन्द्र नदी तु समपद्यत ॥ २०८॥

तामुवाच ततो देवो३१६ नदीं वै पुण्यलक्षणाम् ।
अर्जुनादश्रुबिन्दोस्त्वं३१७ यस्माद् देवि३१८ विनिःसृता ॥२०९॥

तस्मात् ख्याता भवित्री त्वमर्जुना नामतः शुभा ।
पर्वपर्व समासाद्य वहिष्यसि३१९ महायशे३२० ॥ 8.32.२१० ॥

अश्वमेधफलं चापि त्वयि स्नातो ह्यवाप्स्यति ।
मृतश्च तव तीरेस्मिन् नियमेनेतरेण वा ॥२११ ॥

न पुनर्जन्म मानुष्ये दुर्गतिञ्चोपलप्स्यते ।
त्रिरात्रोपोषितो यश्च चरुं कृत्वा निवेद्य च ॥ २१२ ॥

ब्राह्मणं भोजयेत् स्नातस्त्वयि सोपि गमिष्यति ।
गवां लोकं महातेजा न च तस्मात् पतिष्यति३२१ ॥२१३ ॥

सनत्कुमार उवाच
एवं स सृष्ट्वा सरितं कृत्वा चैवाप्यनुग्रहम् ।
तमाश्वास्य३२२ सुरेशस्तु३२३ दक्षं प्राह नृपं तदा ॥२१४॥

देवदेव उवाच
गतं तस्माद् भयं तेस्तु गणेशो मे भव प्रियः ।
ब्रूहि किन्ते पुनस्साधो ददानि३२४ वरमीप्सितम्३२५ ॥२१५ ॥

सनत्कुमार उवाच
अथ दक्षस्तदोवाच प्रणम्य शुभया गिरा ।
भूयो भूयस्समाश्वस्य३२६ निरीक्ष्य च पुनः पुनः ॥२१६॥


सह देव्या - घ. । ३१४ महाभागं - घ । ३१५ सम्प्रति - क ख. । ३१६ महादेवो - क. घ. । ३१७… च्चाश्रुबिन्दोस्त्व - ख. । ३१८ देव - क घ. । ३१९ भविष्यसि - घ. । ३२० महायशाः - घ. । ३२१ च्यविष्यति - ख. । ३२२ तदाश्वास्य - घ. । ३२३ सुरेशानो - घ- । ३२४ ददामि - घ. । ३२५. मुत्तमम् - ख. । ३२६ भूयः प्रणम्य निश्वस्य - ख,… श्वास्य - घ. ।


दक्ष उवाच
यदि तुष्टोसि मे देव भवत्वेतद् तवाव्यय३२७ ।
स्थानं पवित्रं पुण्यं च३२८ वर एषोस्तु मे शिव ॥२१७॥

देवदेव उवाच
एते च मुनिकन्ये द्वे तप आस्थाय दुष्करम् ।
कणैस्संवत्सरे पूर्ण्णे खलेन च यतोशनम् ॥२१८ ॥

कृतवत्यौ महाभागे त्वं च दक्ष यतः स्थितः ।
इदं कनखलं तस्मान्मम स्थानं भविष्यति ॥ २१९ ॥

तीर्थञ्चैव महत्पुण्यं गङ्गासागरसन्निभम्३२९ ।
नात्र पापा न च शठा नास्तिका न च मानिनः ॥8.32.२२० ॥

लप्स्यन्ते वै सदा गन्तुं न च वस्तुं कथञ्चन ।
मृतोत्र न पुनर्जन्म लप्स्यते मम तेजसा ॥२२१ ॥

अत्राभिगम्य स्नात्वा च चरुं कृत्वा तथैव च ।
सर्वपापविमुक्तात्मा३३० शक्रलोके महीयते ॥२२२॥

ततो गणपतिं तत्र हरिभद्रमयोजयत् ।
कालीञ्चास्मै ददौ प्रीत्या३३१ भार्यां सर्वगुणोदिताम् ॥२२३ ॥

वराँश्च .विपुलान् दिव्यान् द्वीपञ्चापि घृतोदकम् ।
बाहुजेभ्यश्च सुबहून् गणेभ्यः प्रददौ वरान् ॥२२४॥

सनत्कुमार उवाच
एवं स दक्षयज्ञो वै विध्वस्तो व्यास शम्भुना ।
यज्ञस्य च शिरश्छिन्नं यथैतत् कथितं तव ॥२२५॥

व्यास उवाच
सा देवीमुखजा घोरा दिव्या३३२ देव भयङ्करी ।
क्व वा गता कथं वापि ह्येतदिच्छामि वेदितुम् ॥२२६॥


तदाव्ययम् - घ. । ३२८ पुण्यं पवित्रं च - क घ । ३२९ सम्मितं - ख. । ३३० . विनिर्मुक्तः - ख. । ३३१ प्रीतो (त्यै) - ख । ३३२ दिव्या घोरा - क. ।


सनत्कुमार उवाच
स्तुता यदा३३३ भगवती प्रणतै३३४ स्सुरसत्तमैः ।
तदास्य साम्बिका प्राह ब्रूहि किङ्करवाण्यहम् ॥२२७॥

ततो ब्रह्मा महादेवीं प्रणम्य बहुमानतः ।
उवाच दुहितृत्वे मे३३५ भवत्वेषा सुरेश्वरि ॥२२८॥

सनत्कुमार उवाच
एवमस्त्वित्युमा प्रोच्य३३६ तां देवीं प्रददौ सुताम् ।
मृत्युस्त्वमिति३३७ सोप्युक्त्वा३३८ घोरे कर्मण्ययोजयत् ॥२२९॥

सर्वप्राणभृतां३३९ देवीम्३४० प्राणापहरणे शुभाम्३४१ ।
सापि तत्कार्यकरणे नियुक्ता ब्रह्मणा स्वयम् ।
ऊर्ध्वबाहुः३४२ सदेवेशा३४३ सदोद्युक्ता३४४ त्वया मया ॥8.32.२३० ॥

य इदं३४५ दक्षयज्ञस्य विध्वंसनमनुत्तमम् ।
भद्रेश्वरप्रतिष्ठाञ्च दक्षानुग्रहमेव च ॥२३१ ॥

पठेद् वा३४६ शृणुयाद्वापि श्रावयीत द्विजानपि ।
स सर्वपापविर्मुक्तः३४७ स्वर्गलोके महीयते ॥२३२॥

भगनयननिपातं३४८ दक्षयज्ञे दवाग्निं३४९
मदनपुरहुताशं चन्द्रलेखोज्ज्वलाङ्गम् ।
सुरगुरुमखकालं३५० सप्तलोकाधिपालं
शरणमुपगतोहं शङ्करं शर्महेतोः ॥२३३ ॥

इति स्कन्दपुराणे दक्षयज्ञप्रमथने द्वात्रिंशोध्यायः