सनत्कुमार उवाच
एतस्मिन्नन्तरे देवो देवीमाह गिरीन्द्रजाम् ।
व्रजाम दातुं यक्षाय वरं भक्ताय भाविनि ॥ १ ॥
भक्तो मम वरारोहे तपसा दग्धकिल्बिषः ।
अर्हो[^१] वरमसौ लब्धुमस्मत्तो[^२] भुवनेश्वरि ॥२ ॥
एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः ।
दिव्यं चक्षुरदाच्चैव[^३] येनापश्यत् स शङ्करम् ॥३ ॥
सनत्कुमार उवाच
अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने ।
अपश्यत् सगणं देवं वृषकेतुमुपाश्रितम्[^४] ॥४॥
देवदेव उवाच
वरं ददामि[^५] ते पूर्वं त्रैलोक्ये नर्शनं तथा ।
सारत्वं च शरीरस्य पश्य मां विगतज्वरः ॥ ५॥
सनत्कुमार उवाच
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च[^६] ।
पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् ॥ ६॥
मापुरन्ते - घ. ।
अहो - घ. । २ लब्धमस्मत्तो - घ । ३ त्तस्मै - घ. । ४ वृषं श्वेतमपाश्रितम् - घ. । ५ ददानि - घ. । ६… णेक्षितेन च - घ. ।
उवाच च तदेशेन[^७] वरदोस्मीति चोदितः ।
भगवन् भक्तिमव्यग्रां त्वय्यनन्याम्[^८] विधत्स्व मे ॥७॥
अन्नदत्वं च लोकानां गाणपत्यम्[^९] तथाक्षयम् ।
अविमुक्ते च ते स्थाने वसेयं[^१०] सर्वदा यथा ।
एतमिच्छामि[^११] देवेश दत्तं वरमनुत्तमम् ॥८॥
देवदेव उवाच
जरामरणसन्त्यक्तः सर्वशोकविवर्जितः[^१२] ।
भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः ॥९॥
अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ।
अन्नदश्चापि[^१३] लोकेभ्यः क्षेत्रपालो भविष्यसि ॥8.31.१० ॥
महाबलो महासत्वो ब्रह्मण्यो[^१४] थ मम प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥ ११॥
उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ ।
तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥ १२॥
सनत्कुमार उवाच
एवं स भगवान् व्यास यक्षं कृत्वा गणेश्वरम् ।
जगाम धाम देवेशः[^१५] सह तेन सुरेश्वरः[^१६] ॥१३ ॥
अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः ।
तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत् ॥ १४॥
देवदेव उवाच
देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे ।
मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया ॥१५॥
सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः ।
प्रपन्न[^१७] स्तापस[^१८] श्रेष्ठो मन्दरः पर्वतोत्तमः ॥ १६ ॥
तदा तेन - घ. । ८… त्वयि नाथे - घ । ९ सोनपत्यं - घ. । १० पश्येयं - घ. । ११.. .दिच्छामि - घ- । १२ लोकविवाजितः - घ. । १३ अर्थदश्चापि - घ. । १४ मम च - घ. । १५ वामदेवेश - क. घ. । १६ नरेश्वरः - घ. । १७ प्रसन्न - क. । १८ तपसां - घ., तपताम्? ।
अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति ।
तप्यते तपतां श्रेष्ठो मयि सर्वात्मभावतः[^१९] ॥१७॥
देव्युवाच
नय मामपि देवेश मन्दरं चारुकन्दरम् ।
न रंस्येहं[^२०] विना देव त्वया सर्वजगत्पते ॥ १८॥
ततो देवः प्रहस्यैनामुवाच परमेश्वरः ।
अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि[^२१] ॥१९॥
देव्युवाच
इह चैव निवत्स्यामि[^२२] गमिष्यामि च मन्दरम् ।
अविमुक्तमिदं स्थानं ततो देव भविष्यति[^२३] ॥8.31.२० ॥
देवदेव उवाच
एवमेतद् वरारोहे यथा वदसि पार्वति ।
ऐश्वर्यात्[^२४] सर्वगा[^२५] हि त्वं यथाहं[^२६] देवि सर्वशः ॥२१ ॥
सनत्कुमार उवाच
ततः स भगवान् देवो वृषमारुह्य सर्वगम् ।
सोमः सनन्दी सगणो[^२७] मन्दरं प्रययौ हरः ॥२२ ॥
स गत्वा[^२८] भुवनेशानस्तप्यमानं परं तपः ।
अपश्यन्मन्दरं तत्र दृष्टवा चैन[^२९] मुवाच ह ॥२३ ॥
वरदोस्मि गिरीशान[^३०] तुष्टस्ते तपसा[^३१] भृशम् ।
वरं वृणु यथेष्टन्त्वं सर्वं तत्[^३२] प्रददामि[^३३] ते ॥२४॥
सनत्कुमार उवाच
स एवमुक्तश्शर्वेण दृष्ट्वा त्रिभुवनेश्वरम् ।
सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम् ॥ २५॥
तपसा श्रेष्ठो मयि सर्वात्मभावितः क। २० वत्स्येहं घ । २१ मर्हसि घ। २२ न वत्स्यामि घ। २३ अविमुक्तं ततो देव भविष्यति न संशयः - घ । २४ ऐश्वर्यं - घ. । २५ सर्वगं - घ । २६ त्वं - घ । २७ नन्दिस्सगणो - क. ख. । २८ गत्वा तु - घ. । २४१ चैव - क. । ३०… स्मीति गिरिश - घ. । ३१ तपसानेन ते - क., तस्येद्य (तुष्टोद्य?) - घ, । ३२ तत् सर्वं - घ. । ३३… नि - क. ख. घ. ।
पुनः पुनर्हरं दृष्टवा देवीञ्चैव पुनः पुनः ।
पुनः पुनर्गणञ्चैव[^३४] नन्दिनञ्च[^३५] ननाम सः ॥ २६ ॥
तं तथा व्याकुलं दृष्टवा हर्षजास्राविलेक्षणः[^३६] ।
वरेणच्छन्दयामास भूय एव हरो गिरिम् ॥२७ ॥
देवदेव उवाच
वरं वृणीष्व भद्रं ते वरदोहं तवाचल ।
यथेष्टं दातुमिच्छामि वरं वरय भूधर ॥२८ ॥
मन्दर उवाच
भगवन् यदि तुष्टोसि देवदेव जगत्पते ।
मयि ते वासिच्छामि सोमस्य सगणस्य च ॥२९॥
इच्छामि देवदेवेश पादस्पर्शेन ते सदा[^३७] ।
पवित्रीकृतमात्मानं सोमेन सगणेन च ॥ 8.31.३० ॥
नान्यं वरमिहेच्छामि[^३८] त्वत्तो देव जगद्गुरो ।
एष एव वरो मह्यं दीयतां भुवनेश्वर ॥ ३१ ॥
सनत्कुमार उवाच[^३९]
एवमस्त्विति तं[^४०] प्राह मन्दरं वरदस्तदा[^४१] ।
सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि ॥३२ ॥
त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः ।
अभेद्यश्चैव वज्रेण मत्प्रसादाद् भविष्यसि ॥३३ ॥
रम्यश्च सर्वभूतानां हेमरत्नविभूषितः ।
अप्सरोगणसङ्कीर्णः सुरसिद्धनिषेवितः[^४२] ॥३४॥
सनत्कुमार उवाच
ततोसृजद् गृहं[^४३] तत्र जाम्बूनदमयं महत् ।
मनसातिगुणं व्यास[^४४] न तेनास्ति[^४५] समं क्वचित् ॥३५॥
गणानां च - ख. । १५ गणेश्वरं - ख. । ३६.,. णं - क. ख. । ३७ तेजसा - घ. । ३८ नचान्यं वरच्छामि - ख. । ३९ देवदेव - घ. । ४० त ? - घ । १ चारुकन्दरम् - क. । ४२ सिद्धचारणसेवितः - ख. । ४३ सद्म चाप्यमृजत् - क, स्वयमेवासृजत्सद्म - ख । ४ गुणैर्युक्तं - ख. । ४५ न ते तेन - ख. ।
न तादृग् ब्रह्मणोप्यस्ति[^४६] किमुतान्यस्य कस्य[^४७]चित् ।
तेजसा वर्ष्मणा कान्त्या वृषनाम्नातिविश्रुतम्[^४८] ॥३६ ॥
व्यास उवाच
भगवन् ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर ।
न मे तृप्ति[^४९]स्त्वयाख्याते[^५०] देवदेवस्य[^५१] च चेष्टिते[^५२] ॥ ३७॥
स वृषो दयितश्चैव वाहनत्त्वं[^५३] महाबलः ।
केनागमन्महाशब्दो महेशस्य महात्मनः ॥३८॥
कस्य पुत्रः कस्य नप्ता कथं जज्ञे ५४ तथैव च ।
किं तपः किं फलं तस्य एतदिच्छामि वेदितुम् ॥३९॥
अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम् ।
स[^५५] कथं तत्[^५६] परित्यज्य वृषभे मतिमादधे[^५७] ॥8.31.४० ॥
सनत्कुमार उवाच
पुरा वेदः[^५८] सुतो जज्ञे ब्रह्मणः प्रथमोद्भुतः[^५९] ।
द्वितीयश्चैव यज्ञोभूत् तं च लोके[^६०] न्ययुञ्जत[^६१] ॥४१ ॥
स लोकाप्यायनकरः प्रयुक्तो ब्रह्महणा स्वयम् ।
प्रजा विवर्द्धयिषता[^६२] नावर्द्धयदशेषतः ॥४२ ॥
।
– - ॥४३ ॥
यज्ञ उवाच
भगवन् लोकसिद्ध्यर्थं प्रयुक्तोहं[^६३] स्वयम्भुवा ।
न च मेस्ति तथा वीर्यमन्यमिच्छ[^६४] नमस्तव ॥ ४४॥
देवदेव उवाच
जीमूतो भव लोकानां तव सिद्धिर्भविष्यति ।
ततोमृताभिरद्भिस्त्वं लोकान् संवर्धयिष्यति ॥४५॥
सर्वलोकेषु - ख. । ४७ रमणीयं भवेत् - ख । ४८ रम्यं दिव्यगुणादपि - ख. । ४९ मूर्ध्नि - ख. । ५० ख्यातं - ख. । ५१ साम्प्रतं - ख. । ५२ चेष्टितम् - क. । ५३ धारणत्व - घ. । ५४ यज्ञे - घ. । ५५ तत्, ५६ स - घ. । ५७ वाहनं वृषभं भजत् - ख. । ५८ देव - घ. । ५९ परमाद्भुत् - घ. । ६० परमात्मा - घ. । ६१ लोकोभ्यपूजयत् - घ. । ६२ लोकवृ? ।.., ६३ यं - घ. । ६४ मुषु - घ. ।
यज्ञ उवाच
जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम् ।
अस्मद्भवन्तं पृष्ठेन वहेयं विद्युतालय (?) ॥४६ ॥
— - - - - - - - - - - - - - ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥४७॥
-
-
-
-
-
-
-
-
-
-
-
-
-
आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः ।
तताप सुमहद् व्यास तपो यज्ञः सुदुश्चरम्[^६५] ॥४८॥
अथ तुष्टस्तदा देवः शर्वो[^६६] यज्ञस्य सुव्रत[^६७] ।
उवाच वरदोस्मीति स वव्रे वरदं वरम्[^६८] ॥४९ ॥
यथाहं[^६९] यज्ञभावेन[^७०] वहामि त्वां महाप्रभ[^७१] ।
तथैव जलदत्वेपि[^७२] वहेयं त्वाह[^७३] मव्ययम्(?) ॥ 8.31.५० ॥
सनत्कुमार उवाच
एवमस्त्विति सं[^७४] प्रोच्य वाहनत्वे व्यकल्पयत्[^७५] ।
जीमूतं[^७६] व्यास भगवान् यज्ञमूर्तिमतिप्रभम् ॥ ५१ ॥
यदा तु यजतो व्यास दक्षस्य सुमहात्मनः ।
शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः ।
तदा शिरस्कं[^७७] तं यज्ञं वाहनत्वादपानुदत[^७८] ॥५२ ।
व्यास उवाच
कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम्[^७९] ।
कारणं चात्र किं विप्र येन तं हतवान् प्रभुः ॥५३ ॥
सनत्कुमार उवाच
शापः पूर्वं समाख्यातः कारणं मुनिसत्तम ।
इदञ्च शृणु मे भूयो विस्तरेण पुरातनम् ॥५४॥
सुदुस्तर - घ. । ६६ स (भ) वो - क, सर्वो - घ. । ६७ तत्सुतः - ख. तः - क. । ६८ वरमुत्तमं - ख, विपुलं - घ. । ६९ यदा - ख । ७०.. पि - घ, ति - क ख । ७१. ५ प्रभुम् - क. ख.,… भो - ख. । ७२ वरमिच्छामि - घ.. । ७३ वहेयमह… - क, भद्र… - घ. । ७४ स - ख, त - घ. । ७५ तं ह्यकल्पयत् - ख, … नं चेति? - घ. । ७६ जीवितं - ख । ७७ शिषः क्षतं - घ । ७८ वदद्भृश - ख., नं दुपान्वदत् - घ. । ७९… हनत् सुतं - घ. ।
पुरा हि ब्रह्मणो वक्त्रात् क्षुवतोभिविनिःसृतः[^८०] ।
बद्धगोध्वाङ्गुलित्रश्च शरी तूणी शरासनी ॥५५ ॥
खङ्गी[^८१] किरीटमाली च कुण्डली[^८२] कवची[^८३] तथा ।
महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः ॥५६॥
क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत ।
तमिन्द्रो वरयामास राजानं भुवि[^८४] लोकपम् ॥५७॥
सोब्रवीद्यदि मे वज्रमायुधं स्वं[^८५] प्रयच्छसि ।
ततः स्यां भुवि राजाहं नान्यथा रोचते मम[^८६] ॥ ५८॥
इन्द्र उवाच
चिन्तितं करमेतत्ते वज्रमेष्यति[^८७] नान्यथा ।
एवं भवतु भद्रं ते भव राजा प्रजाहितः ॥५९॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह ।
च्यावनिश्च[^८८] दधीचोस्य[^८९] सखा समभवत्तदा ॥8.31.६० ॥
स तेन सह सङ्गत्य[^९०] सुखासीनो वरासने ।
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः ॥६१ ॥
अथाभवत्तयोर्व्यास रागो जातिकृतः पुनः[^९१] ।
क्षत्रं[^९२] श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति[^९३] च ॥६२ ॥
क्षुपोब्रवीत् क्षत्रमिति दधीचो ब्रह्म चेति[^९४] ह[^९५] ।
अथू तां[^९६] कारणे[^९७] चोभौ[^९८] न न्यवर्तत[^९९] कश्चन ॥६३ ॥
अथ तीक्ष्णतया चैव तपोधिकतया[^१००] तथा ।
ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च ॥ ६४॥
भुवि निः सृतः - घ. । ८१ शृङ्गी - क । ८२ कवची - ख । ८३ कुं डली - ख. । ८४ भूमि - क । ८५ त्वं - क. । ८६ मम रोचते - घ. । ८७ वज्रमेष्यति क., वर यास्यति - घ. । ८८ च्यावनेश्च -? । ८९ दधीचस्य? । ९० सङ्गम्य - ख. । ९१ प्रभः - ख । ९२ क्षेत्रं - क. ख । ९३ नचेति - घ. । ९४.. वेति - क. । ९५ च - ख. घ. । ९६ नाब्रूतां - ख । ९७ कारण - घ. । ९८ चोभे - क. ख ९१ प्रवर्तत - घ व्यक..? - क, व्यवर्तन ( त) - ख । १०० वयोधिकतया - क ।
कुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि ।
आजघान महातेजा वज्रेणातडयत्[^१०१] स च[^१०२] ॥६५॥
वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः ।
सोवदत् त्वं[^१०३] महायोगः[^१०४] शक्तः[^१०५] सन्धातुमात्मना[^१०६] ॥६६ ॥
स्वं देहं[^१०७] स तथाभूतं[^१०८] दधीचो योगमायया ।
सन्धयामास[^१०९] शर्वञ्च शरणं समपद्यत ॥ ६७॥
स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम्[^११०] ।
वज्रास्थित्वमभेद्यत्वमजरत्वञ्च शङ्करात् ॥६८॥
सर्वभूतानुकम्पित्वं महायोगित्वमेव च ।
पुनरागात् क्षुपं द्रष्टुं पुनः सख्यमभूत्[^१११] तयोः ॥ ६९॥
रागो जातिकृतो यश्च पूर्ववत् स[^११२] बभूव ह ।
वामपादेन चाप्येनं क्षुप स समताडयत्[^११३] ॥8.31.७० ॥
पुनश्च वज्रमादाय स चैनमहनत्तदा ।
न चार्तिं न व्यथां तस्य[^११४] तद्वज्रमकरोन्मुने ॥७१ ॥
अवध्यत्वमथो[^११५] ज्ञात्वा क्षुपस्तस्य महात्मनः ।
नारायणं समासाद्य वरार्थं समराधयत्[^११६] ॥७२॥
वरदोस्मीति तुष्टेन[^११७] विष्णुना स च[^११८] चोदितः ।
प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः[^११९] ॥७३ ॥
क्षुप उवाच
दधीचो नाम विप्रर्षिरवध्योक्षय एव च ।
सखा मम हृषीकेश स च मामाह नित्यदा[^१२०] ॥७४॥
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा ।
पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा[^१२१] ॥७५ ॥
वक्रेणा ताडयत् - क. । १०२ तदा - घ. । १०३… त्तं - घ. । १०४ महायोगं - घ. । १०५ शक्रः - घ. । १०६ महात्मनः - क. । १०७ स्वदेहं - ख., स - घ । १०८ त्यक्ता - क.. भूत्वा - ख., श्रुत्वा - घ. । १०९ सान्त्वयामास - घ. । ११० तं वरेश्वरमाराध्य सम्प्राप्य वरमुत्तमम् - घ. । १११ सङ्ख्यमभूत् - घ. । १] २ सं - क. घ. । १ । ३ समभिताडयत - ख. । ११४ चास्य - ख. । ११५ मयं - ख. । ११६ वरार्थमतपत्तपः - ख., समवारयत् - घ. । ११७ तुष्टोस्मि - ख. । ११८ स तु - घ., सम… - ख. । ११९ महातपाः - घ. । १२०. नामहनत्सदा - घ. । १२१ च - घ. ।
बिभेमीति यथा ब्रूयात् तथा त्वं[^१२२] कर्तुमर्हसि[^१२३] ।
एवमुक्तो नरेशेन[^१२४] स विष्णुर्लोकभावनः ॥७६ ॥
तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ ।
स[^१२५] प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः ॥७७॥
अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत् ।
भगवन् ब्रह्मणश्रेष्ठ पितामहसमद्युते ॥७८॥
वरमेकं वृणेहं यं तं[^१२६] भवान्दातुमर्हति[^१२७] ।
प्रसादितोहं विप्रेन्द्र क्षुपेण शुभकर्मणा ॥७९॥
वरदोस्मीति चाप्युक्तो वरं वव्रे महामुने ।
प्रोक्तं त्वया बिभेमीति ब्रूहि तन्[^१२८] मदनुग्रहात् ॥8.31.८० ॥
अभयं सर्वभूतेभ्यो[^१२९] ब्राह्मणस्य न संशयः ।
अवध्यश्चापि सर्वेषां महायोगबलान्वितः ॥८१ ॥
अभीतस्त्वं[^१३०] तथाप्यद्य मदर्थं वद तत्[^१३१] प्रभो ।
दधीचश्चैव[^१३२] मुक्तोपि[^१३३] विष्णुना मधुरं तदा ॥८२ ॥
उवाच न बिभेमीति भूयो भूयो जनार्दनम् ।
नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया ॥८३ ॥
सनत्कुमार उवाच
एवमुक्तश्चक्रपाणिश्च्यावनिं[^१३४] क्रोधमूर्च्छितः[^१३५] ।
उवाच चक्रमुद्यम्य भयमस्य विदर्शयन् ॥८४॥
एवमेव हि कर्तव्या ये भूत्वा[^१३६] बलवत्तराः ।
अस्वामिन इव प्रेम्णा ब्रुवते[^१३७] दुर्बलं जनम्[^१३८] ॥८५ ॥
न चेद् द्रक्ष्यसि[^१३९] भीतोस्मीत्येतच्चक्र[^१४०] ततस्तव ।
सुनसं शिर आदाय[^१४१] महीं सं प्रापयिष्यति ॥८६॥
तत्तथा - घ. । १२३ मर्हति - घ. । १२४ नरेन्द्रेण - घ । १२५ सं - ख. । १२६ त्वत्तः - ख, तद् - क., स - ख. । १२७ मर्हसि - क ख । १२८ वाक्यन्त (वाच्यन्तद्?) - ख. । १२९ सर्वभूतानाम्: - ख. । १३०… श्च - क.,… तोपि - ख. । १३१ त्वं वद - ख. । १३२ स्त्वेव… - ख. । १३३ वै - क. । १३४ दधीचं - घ. । १३५ मूर्छितः - घ । १३६ भूता - घ. । १३७ विब्रूते - घ. । १३८ बलं - घ. । १३९ न च वक्ष्यामि - घ. । १४० एव चक्रं - ख । १४१ सनसं सुमुखं तस्य - ख., नृशम्स शिवया ( शिरआ?) - घ. मुखमादाय - ख. । ४२ स - घ ।
दधीचिरुवाच[^१४३]
किं वृथा चक्रमुद्यम्य विष्णो त्वं[^१४४] क्लेशमिच्छसि[^१४५] ।
नाहं चक्रस्य ते गम्यः[^१४६] प्रसादात् त्र्यम्बकस्य तु ॥८७॥
किन्तु जिज्ञासया यामि लोकपालशरण्यताम् ।
तेषां निष्क्रियतां ज्ञात्वा ततो यास्यामि[^१४७] शङ्करम् ॥८८॥
एवमुक्त्वा च्यावनिस्तु प्राद्रवद् वरुणं प्रति ।
शरणं तं प्रपन्नश्च सं[^१४८] प्रादादभयं[^१४९] प्रभुः ॥८९॥
तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः ।
युद्धं समभवद् घोरं बहूनब्दान् विभीषणम् ॥8.31.९० ॥
निगृहीतेथ[^१५०] वरुणे च्यावनिर्यममभ्ययात्[^१५१] ।
स चाप्यभयद[^१५२] स्तस्मै[^१५३] विष्णुना निर्जितो युधि ॥९१ ॥
ततोग्निमभ्ययाद्[^१५४] व्यास सोपि तेनाभिनिर्जितः ।
ततः स मुष्टिमादाय कुशानां च्यावनिस्तदा[^१५५] ॥९२॥
स्वमाश्रममुपागम्य तिष्ठतिष्ठेत्यभाषत ।
जिज्ञासार्थं लोकपालानहं शरण मेयिवान्[^१५६] ॥ ९३ ॥
अबलास्ते च सर्वेपि मय्येव बलमुत्तमम् ।
अद्य गर्वञ्च दर्पञ्च बलं यच्च[^१५७] तवाद्भुतम्[^१५८] ।
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन ॥९४॥
सनत्कुमार उवाच
ततो युद्धं समभवत् तुमुलं लोमहर्षणम् ।
नारायणस्य च व्यास च्यावनेश्च महात्मनः ॥९५॥
यान्यस्त्राणि शरा ये च नारायणकरच्युताः ।
योगेन तान् दधीचोसौ कुशमुष्टौ न्ययेशयत् ॥९६॥
च्यावन (नि) उ - क. । १४४ त्वं विष्णो - क. । १४५ क्लिश्यसेनघ - ख., श्चकं समर्चसि - घ. । १४६ मन्यः - घ. । १४७ ध्या… - क. घ., ध्यायामि - ख । १४८ प्रसादादभयं - क., १४९ प्रददावभत्यं - ख. । १५० तु - ख. । १५१… गाद् - ख १५२ चास्याभयाद् - क ख. । १५३ श्चास्य? । १५४?.. गाद् - ख. । १५५ श्शुभः - क.,… ने स्थितः - घ. । १५६ मीयिवान् - घ. । १५७ यत्ते - ख. । १५६ तदाद्भुतम् - ख. ।
ततो विष्णोर्योगबलाद् गात्रेभ्यः सम्प्रजज्ञिरे ।
देवा युयुधिरे सर्वे[^१५९] विष्णुना सह दंशिताः ॥९७॥
तानप्यशेषतः सर्वान् सायुधान् सह वाहनैः ।
कुशमुष्टौ स[^१६०] सङ्क्रुद्धो विष्णुवर्जं[^१६१] न्यवेशयत् ॥९८॥
ततस्सर्वामरैर्व्यास कुशमुष्टौ[^१६२] प्रवेशितैः ।
योगेन तेजसा चैव दधीचेन महात्मना ॥ ९९॥
विष्णुं संविग्नरूपं[^१६३] तु कोपावेशात् प्रमोहितम् ।
तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत् ॥ 8.31.१०० ॥
किन्तवानेन गोविन्द तथा यत्नेन[^१६४] सदद्विजे[^१६५] ।
कृतेनाथ[^१६६] दधीचस्य शर्वाल्लब्धवरस्य तु ॥१०१ ॥
किन्न वेत्सि यथा ह्येष प्रसादात् पारमेश्वरात् ।
अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च ॥ १०२॥
वज्रास्थिसारताञ्चैव लब्धवान् स्वयमीश्वरात् १६७ ।
न चैवं[^१६८] त्वद्विधा देव ब्राह्मणेषु विकुर्वते ॥१०३ ॥
तस्मादाशु[^१६९] निवर्तस्व क्षमयैनं[^१७०] द्विजोत्तमम् ।
ततो ब्रह्मवचः[^१७१] श्रुत्वा स विष्णुर्लोकभावनः ॥१०४॥
योगेन तद्बलं ज्ञात्वा दधीचस्य महात्मनः[^१७२] ।
क्षामयामास[^१७३] विप्रेन्द्रं स्वं चावासमथाभ्यगात् ॥ १०५॥
ब्रह्मापि तमृषिं सान्त्व्य[^१७४] पूजयित्वा त्रिलोकपः[^१७५] ।
जगामादर्शनं व्यास सह सर्वामरैस्तदा ॥ १०६॥
दधीचोपि महातेजास्तपस्तेपे स्वकाश्रमे[^१७६] ।
महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः[^१७७] ॥ १०७॥
अथास्य युक्तस्य तदा तपसा भास्करद्युतेः ।
तुतोष भगवान् त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम् ॥ १०८॥
तत्र - घ. । १६० सु - क घ. । १६१ चक्र - घ. । १६२ मुष्टि… - क. । १६३ संविघ्नरूप - घ । १६४ क्लेशेन - ख. । १६५… द्विजः- क. । १६६ कृतेनास्य- ख । १६७… स्त्वयमीश्वरात्-ख. । १६८. ख - क. । १६९ तस्मादेव - ख. । १७० क्षामयैनं - क. । १७१ ब्रह्मणो वचनं - ख. । १७२ च शङ्करात् - क । १७३ क्षमयामास - घ. । १७४ शान्त्वा - घ. । १७५ च लोकपः - घ. । १७६ स्वके… - ख. । १७७… भोजनम् - क. ।
देवदेव उवाच
च्यावने तपसानेन तव तुष्टोस्मि सुव्रत ।
ब्रूहि यत्ते भिलषितं कृतमेव हि तन्मया ॥ १०९॥
दधीचिरुवाच[^१७८]
भगवन् यदि तुष्टोसि यदि देयो वरश्च मे ।
इच्छामि विष्णुना सार्धं सर्वान्देवाँस्त्वया जितान्[^१७९] ॥8.31.११० ॥
सनत्कुमार उवाच
ततः प्रहस्य वरदो दधीचमृषिसत्तमम् ।
एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः ॥ १११॥
तस्मिन्दत्ते[^१८०] तदा तेन त्र्यम्बकेण वरे शुभे ।
अमन्यत स्थितं[^१८१] वैरं क्षुपेण सह वै ऋषिः ॥ ११२ ॥
ध्यायन्तं तं[^१८२] तथा दृष्ट्वा भगवान् गोवृषध्वजः ।
उवाच वरमन्यञ्च[^१८३] ब्रूहि विप्र ददामि ते[^१८४] ॥११३ ॥
दधीचिरुवाच
यस्मात् स्थितमिदं[^१८५] वैरं वरदानात् तव[^१८६] प्रभो ।
इह तस्मात्तव स्थानं नाम्नैतेन[^१८७] भवत्वज ॥ ११४॥
देवदेव उवाच
स्थानेश्वरमिति ख्यातं[^१८८] नाम्नैतत्[^१८९] स्थानमुत्तमम् ।
भवितृ[^१९०] क्रोशपर्यन्तं नानापुष्पलताकुलम् ॥११५॥
अत्र योभ्यर्चयेन्मां तु परं[^१९१] नियममास्थितः ।
त्रिरात्रोपोषितः सम्यक् स्नात्वा नद्यां तु मानवः ॥ ११६ ॥
ब्राह्मणं[^१९२] भोजयित्वा च चरुं[^१९३] धर्मेण संयुतः[^१९४] ।
सर्वपापविनिर्मुक्तो[^१९५] मम लोकमवाप्नुयात्[^१९६] ॥११७॥
दधीच उ - घ. । १७९ सर्वे देवास्त्वया जिताः - घ. । १८० तस्मिन्नुक्ते - घ. । १८१ स्थिरं - क. ख. । १८२ ध्यानतस्तं - घ. । १८३… मन्यच्च - क. ख घ. । १८४… न्ददामि - क., ददानि - क. ख. घ. । १८५ स्थिरमिदं - घ. । १८६ भुवि - घ. । १८ ऽ नाम्ना तेन - घ. । १८८ देव स्यानेश्वरमिति - घ. । १८९ नाम्नैव - घ. । १९० भवेच्च - ख, भवतु - घ. । १९१ सदा - घ । १९२ ब्राह्मणान् - घ. । १९३ वरं - घ. । १९४ संयुतं - क. घ. । १९५ स सर्वपापनिर्मुक्तो - क. । १९६ रुद्रलोकमवाप्नुयात् - क. ।
स्थाणुतीर्थं[^१९७] च भवितृ तथैतत्[^१९८] पापनाशनम् १९९ ।
अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम् ॥११८॥
अयञ्चापि वटः श्रीमान् स्थितोहं यत्र साम्प्रतम् ।
वरं दातुं मदाख्यानो नाम्ना स्थाणुवटो महान्[^२००] ॥ ११९॥
भविष्यति न सन्देहः फलञ्चाप्यस्य[^२०१] मे शृणु ।
योत्र तिष्ठेदहोरात्रं संयतो[^२०२] नियताशनः[^२०३] ॥ 8.31.१२० ॥
चीर्णं स्वयं भवेत्तेन स्थाणुव्रतमनुत्तमम् ।
सर्वपापविनिर्मुक्तो[^२०४] गणपस्स[^२०५] भवेन्मम ॥ १२१ ॥
अकम्पनो नाम महान्[^२०६] महायोगबलान्वितः ।
यश्च प्राणान्नियमवान् यमवानथवा[^२०७] पुनः ॥१२२॥
परित्यजेत मनुजस्तस्य पुण्यफलं महत् ।
सर्वपापविनिर्मुक्तः[^२०८] सर्वबन्धविवर्जितः[^२०९]।
गणोश्वरो[^२१०] नन्दिसमः स मे भवति सर्वगः[^२११] ॥ १२३ ॥
स्थानेश्वरे यस्त्विह चैकरात्रं[^२१२] स्थित्वा क्षपेत्[^२१३] सर्वमशेषतो हि ।
स सर्वपापप्रविमुक्तचेता[^२१४] गणेश्वरो मे भवितातिभीमः[^२१५] ॥१२४॥
इति स्कन्दपुराणे क्षुपदधीचविवादो नाम[^२१६] एकत्रिंशत्तमोध्यायः