व्यास उवाच
भगवन् पिङ्गलः केन गणत्वं समुपागतः१ ।
अन्नदत्वञ्च२ सम्प्राप्तो वाराणस्यां महाद्युतिः ॥ १ ॥
क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः ।
एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया ॥२॥
सनत्कुमार उवाच
शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः ।
अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि ॥३ ॥
पूर्णभद्रसुतः श्रीमानासीद् यक्षः प्रतापवान् ।
हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह ॥४॥
तस्य जन्मप्रभृत्येव भवे५ भक्तिरनुत्तमा ।
तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः ॥५॥
आसीनश्च शयानश्च गच्छन्तिष्ठन्ननुव्रजन् ।
भुञ्जानोथ पिबन् वापि रुद्रमेवान्वचिन्तयत्७ ॥६॥
तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् ।
न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा ॥७॥
पहर्ता - ख. । १७० मौली जगाम - ख । १७१ आचूड ( २६८) - ख. । १७२ अत्र ऊनत्रिंशोभ्याय इति ख. घ. पुस्तकयोः पाठः । १ समुपावृतः - घ । २ अर्थदत्वञ्च - घ. । ३ यक्षराट् स - घ. । ४ ब्राह्मणो -ख, वरेण्यो - घ. । ५ सर्व (शर्वे?) - घ । ६… नश्च वदँश्चापि - घ. । ७… नुचिन्तयन् - घ ख ।
नहि८ यक्षकुलीनाना९ मेतद् वृत्तं भवत्युत ।
गुह्यका बत यूयं वै स्वभावात्१० क्रूरचेतसः ॥८॥
क्रव्यादाश्चैव किं भक्षा हिंसाशीलाश्च पुत्रक ।
मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम् ।
स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते ॥९॥
हरिकेश उवाच
सृष्टा११ चैवा१२ प्रशस्ता च गर्हिता साधुभिः सदा१३ ।
वृत्तिः स्वयम्भुविहिता१४ त्यक्तव्या यदि नो१५ भवेत् ॥8.30(2).१० ।
आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः ।
हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह१६ ॥ ११॥
देवत्वं नो१७ विमार्गेयुर्मानुष्यं जातिमेव च ।
अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंसृतम् ।
ममापि१८ विहितं पश्य कर्म तन्नात्र१९ संशयः ॥१२॥
सनत्कुमार उवाच
स एवमुक्तः पुत्रेण२० पूर्णभद्रः प्रतापवान् ।
उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते२१ ॥ १३ ॥
ततः स निर्गत२२ स्त्यक्त्वा गृहसम्बन्धिबान्धवान्२३ ।
वाराणसीम्२४ समासाद्य तपस्तेपे सुदुश्चरम् ॥१४॥
स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः२५ ।
सन्नियम्येन्द्रियग्राममवातिष्ठत२५ निश्चलः ॥ १५॥
अथ तस्यैवमनिशं२७ तत्परस्य तदाशिषः ।
सहस्रमेकं वर्षाणां दिव्यमत्यतिवर्तत२८ ॥१६॥
न वै - घ. । ९ यक्षकुलस्यास्य - घ. । १० न तावत् - घ. । ११ दृष्टवा - घ. । १२ चैव - घ. । १३ च सुबुद्धिभिः - घ. । १४ स्वयम्भुवा सृष्टा - घ. । १५ वा - ख । १६ सह - घ. । १७ नहि घ । १८ मया च - घ. । १९ कर्मैतन्नात्र - घ. । २० एवमुक्तः स्वपुत्रेण - घ. । २१ हितं चैव यदेच्छसि - घ. । २२ निन्दित - ख. । २३ गृहं सम्बन्धिनं तथा - घ. । २४ स्यां - घ. । २५ शुष्कश्चैव विशेषतः - घ. । २६ मवाक्तिष्ठत - घ. । २७ तस्यत्विशक्तस्य - ध. । २८. मभ्यति… - क. ख. ।
वल्मीकेन समाक्रान्तो२९ भक्ष्यमाणः पिपीलिकैः ।
वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च ॥ १७ ॥
निर्मांसरुधिरत्वग् वै३० कुन्दशङ्खेन्दुसप्रभः ।
अस्थिशेषो३१ भवत् सर्वो देवश्चैवममन्यत३२ ॥ १८ ॥
एतस्मिन्नन्तरे देवी व्यज्ञापयत शङ्करम् ।
उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद३३ ॥ १९॥
क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे ।
यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम् ॥8.30(2).२० ॥
इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः ।
सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे ॥ २१ ॥
निर्जगाम च देवेशः पार्वत्या सह शङ्करः ।
उद्यानं दर्शयामास देव्या देवः पिनाकधृक्३४ ।२२ ॥
प्रफुल्लनानाविधगुल्मशोभितं३५ लताप्रतानावनतं३६ मनोरमम्३७ ।
विरूढपुष्पैः परितः३८ प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च३९ केतकैः ॥२३ ॥ तमालगुल्मैर्निचितं४० सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः ।
अशोकपुन्नागवनैस्सुपुष्पितैर्द्विरेफमालाकुलपुष्पसञ्चयैः ॥२४॥
क्वचित् प्रफुल्लाम्बुजरेणुरूषितै विहङ्गमैश्चारुकलप्रणादिभिः ।
विनादितं सारसहंसमद्गुभिः४१ प्रमत्तदात्यूहरुतैश्च वल्गुभिः ॥२५॥
क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम्४२ ।
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ॥२६॥ मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम्४३ ।
क्वचित् सपुष्पैः४४ सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम्४५ ॥२७॥
तदाक्रान्तो - ख. । ३० च… - ख. । ३१ अस्थ्ना वशेष - ख. । ३२ न मन्यते - ख. । ३३ शङ्कर - ख । ३४ इतः परं देवदेव उवाच इति घ पुस्तके । ३५ ता - क. । ३६ लताप्रतानैः सततं - ख. । ३७ मनोहरम्- ख. । ३८ पतितैः - ख. । ३९… भिश्च - क. ख. । ‘८०.. .तैः - ख. । ४१ नादिभिः ( तैः ) - ख. । ४२… कायुतं - क. व । ४३ सुगन्धिपुष्पम् - घ. । ४४ च्च पुष्पैः - क ख. । ४५ सुपुष्पितैः - ख ।
प्रगीतविद्याधरसिद्धधारणं३६ प्रनृत्तनित्यानुगताप्सरोगणम्४७ ।
प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥२८॥
मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः४८ ।
प्रफुल्लनानाविधचारुपङ्कजै४९ स्सरस्तडागैरुपशोभितं क्वचित् ॥२९॥ निविडनिचुललीनानीलकण्ठाभिरामं५०
मदमुदितविहङ्गवातनादाभिरामम् ।
कुसुमिततरुशाखालीनमत्तद्विरेफं
नवकिशलयशोभाशोभित५१ प्रान्तशाखम् ॥8.30(2).३० ॥
क्वचिच्च दन्तिक्षतचारुवीरुत् क्वचिल्लतालिङ्गितचारुवृक्षम् ।
क्वचिद्विलासालसगामिनीभिर्निषेवितं किम्पुरुषाङ्गनाभिः ॥३१ ॥
पारावतध्वनिविकूजितगारु शृङ्गैरभ्रङ्कषैः सितमनोहरचारुरूपैः ।
आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ॥३ ॥। फुल्लोत्पलाम्बुजसहस्रवितानयुक्तैस्तोयाशयै५२स्समनुशोभितदेवमार्गम् । मार्गान्तरागलितपुष्पविचित्रभक्तै५३ स्सम्बद्धगुल्मविटपैर्विहगैरुपेतम् ॥३३ ॥
तुङ्गाग्रैर्नील५४ पुष्पस्तबकभरनतप्रान्तशाखैरशोकै-
र्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितं तन्मनोज्ञैः ।
रात्रौ चन्द्रप्रभासा५५ कुमुमिततिलकैरेकतां सम्प्रयातं
छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ॥३४॥
हंसानां पक्षवात५६ प्रचलितकमलस्वच्छविस्तीर्णतोयं
तोयानां तीरजातप्रविकचकदलीवाटनृत्तन्मयूरम्५७ ।
मायूरैः पक्षचन्द्रैः क्वचिदपि पतितं रञ्जितक्ष्माप्रदेशं५८
देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् ॥३५॥
चारुगूढं - घ । ४७.. .गणैः - ख । ४८ कदम्बकैर्मृगै. - घ. । ४९.. पुष्पित घ. । ५०?.. नीलं नीलकण्ठाभिरामं - ख. घ.,. रावं - ख. । ५१.., शोभितम्- - क ख । ५२.. श्रय - ख. । ५३.?. क्ति - क. ख. । ५४. लीन - ख. । ५५ चन्द्रस्य भासा - ख. । ५६ पक्षपात - क. ख. । ५७ वातनृत्यन्मयूरम्- ख. । ५८ रञ्चितक्ष्माप्रदेशम् - घ. ।
सारङ्गैः क्वचिदुपसेवितप्रदेशं
सञ्छन्नं कुसुमचयैः क्वचिद्विचित्रैः५९ ।
हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिः क्षीबाभिः सुमधुरगीतवृक्षषण्डम् ॥३६ ॥
संसृष्टैः६० क्वचिदुपरि प्रकीर्णपुष्पै६१ रावासैः परिवृतपादपं मुनीनाम् ।
आमूलात्फलनिचितैः क्वचिद्विशालै-रुत्तुङ्गैः पनसमहीरुहै६२रुपेतम् ॥३७॥ फुल्लातिमुक्तकलतागृहलीनसिद्धं६३
सिद्धाङ्गनाकनकनूपुररावरम्यम् ।
रम्य६४ प्रियङ्गुतरुमञ्जरिसक्तभृङ्गं
भृङ्गावलीशबलिताम्रकदम्बपुष्पम् ॥३८ ॥
पुष्पोत्करानिल६५ विघूर्णितपादापग्र६६
मग्रे सुरेभविनिपाटित६७वंशगुल्मम्६८।
गुल्मान्तरप्रसृतभीत६९ मृगीसमूह७० -
मूहावतां तनुभृतामपवर्गदातृ ॥३९ ॥
चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः
सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः ।
चामीकरप्रतिसमैरथ कर्णिकारैः
पुष्पोत्करैरुपचितं सुविशालशाखैः ॥8.30(2).४० ॥
क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसन्निभैः ।
क्वचित्काञ्चनसङ्काशैः पुष्पैराचितभूतलम् ॥४१ ॥
पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् ।
रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् ॥४२॥
विचित्रं - ख. । वृ ० समृप्टैः ख. । ६१ प्रलिप्तपुष्प - क ख. । ६२ पवनसमीरितै - ख । ६३ सिद्धैः - - ख. । ६४ रम्यं - ख., रम्या - क. । ६५ बिल.. - ख. । ६६ ग्र्यमग्र्ये - क. ख. । ६७. पातित - क. ख. । ६८.., युग्मं - ख. । ६९ भीम - ख. । ७०.. .समूहा.. - ख ।
सकलभुवनभर्ता लोकनाथस्तदानीं
तुहिनशिखरिपुत्र्या७१ सार्धमिष्टैर्गणेशैः ।
विविधतरुविशालं७२ मत्तहृष्टान्यपुष्ट-
मुपवनमतिरम्यं७३ दर्शयामास देव्याः ॥४३ ॥
देव्युवाच
उद्यानं दर्शितं देव शोभया परया युतम् ।
क्षेत्रस्य तु गुणान् सर्वान् पुनर्वक्तुमिहार्हसि ॥४४॥
अस्य७४ क्षेत्रस्य महात्म्यमविमुक्तस्य तत्तदा ।
श्रुत्वा हि७५ नहि मे तृप्तिरतो७६ भूयो वदस्व मे ॥४५॥
देवदेव उवाच
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ॥४६॥
अस्मिन् सिद्धाः सदा देवि७७ मदीयं७८ व्रतमास्थिताः७९ ।
नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः ॥४७॥
अभ्यस्यन्ति८० परं योगं युक्तात्मानो जितेन्द्रियाः ।
नानावृक्षलताकीर्णे८१ नानाविहगसेविते ॥४८॥
कमलोत्पलपुष्पाढ्यैः सरोभिः समलङ्कृते ।
अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ॥४९॥
रोचते मे इहावासो८२ येन कार्येण तच्छृणु ।
मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ॥8.30(2).५० ॥
यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् ।
जपध्यानोद्यतानां च ज्ञानेष्वारक्तचेतसाम्८३ ॥५१ ॥
शिखरपुत्र्या - क. ख. । ७२. विशालै - ख. । ७३ मिति.. - क. । ७४ अन्य - घ. । ७५… पि - ख. घ । ७६ श्रद्धापि जायते दृष्टेरतो - घ. । ७७ महादेवि - घ. । ७८ मदीय - ख. । ७९.?. श्रिताः - क. । ८० अभ्य सन्ति - क. ख. । ८१… समाकीर्णे - ख. घ. । ८२ महदावासं - ख. । ८३ सदा… - घ., षु वास्तुचेतसाम् - घ. ।
तमोमोहहतानां८४ च वाराणस्यां गतिर्नॄणाम् ।
अत्रोत्क्रमणकाले तुव स्वयमेव महेश्वरः ॥५२ ।
ददाति तारकं ब्रह्म येनासौ तन्मयो भवेत् ।
एवं८५ मम पुरं दिव्यं गुह्याद् गुह्यतरं महत् ॥ ५३ ॥
ब्रह्मादयो विजानन्ति ये च सिद्धा८६ मुमुक्षवः ।
अतः८७ प्रियमिदं८८ क्षेत्रं यस्माच्चेह८९ रतिर्मम ॥५४॥
विमुक्तं न मया यस्माद् मोक्ष्यते वा कदा च न ।
मम९० क्षेत्रमिदं तस्मादविमुक्तमिदं९१ स्मृतम् ॥५५॥
नैमिशेथ कुरुक्षेत्रे गङ्गाद्वारेथ पुष्करे ।
स्नानात्९२ संसेवनाच्चापि९३ न मोक्षः प्राप्यते यतः ॥५६॥
इह सम्प्राप्यते येन तत एतद्९४ विशिष्यते ।
प्रयागे वा भवेन्९५ मोक्ष इह वा मत्परिग्रहात्९६ ॥ ५७॥
प्रयागादपि तीर्थाग्र्यादिदमेव महत् स्मृतम् ।
जैगीषव्यः परा सिद्धिं यो गतः स महातपाः ॥ ५८ ॥
अस्य९७ क्षेत्रस्य माहात्म्याद्९८ भक्त्या च मम भावतः ।
जैगीषव्यगुहा प्रेष्ठा९९ योगिनां स्थानमिष्यते ॥ ५९ ॥
ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ।
कैवल्यं परमं याति देवानामपि दुर्लभम् ॥ 8.30(2).६० ॥
अत्र सिद्धिं परां प्राप्तो मार्कण्डेयो महातपाः ।
बालखिल्यास्तथा सिद्धा अस्मिन् क्षेत्रे सुदुर्लभे ॥ ६१ ॥
आत्रेया भार्गवाः सिद्धा अस्मिन् क्षेत्रे सुदुर्लभे ।
अव्यक्तलिङ्गै१०० र्मुनिभिः सर्वसिद्धान्तवेदिभिः ॥६२॥
इह सम्प्राप्यते मोक्षो१०१ दुर्लभोन्यत्र कर्हिचित् ।
तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम् ॥ ६३ ॥
गतानां - घ । ८५ -पूतं - घ । ८६ -पक्षा घ- । ८७ इदं - घ । ८८ पुण्यतमं - घ. । ८९ क्षेत्रमसमाच्चेह? - ख. । ९० महा - घ । ९१ क्तं ततः - ख. । ९२ स्नतानि - ख. । ९३… द्वापि - घ. । ९४ एवं - ख । ९५ वा सवे - घ. । ९६ मत्सम्परिग्रहात्? - ख । ९७ तस्य - ख. । ९८ माहात्म्यं - ख. घ. । ९९ श्रेष्ठा - ख. । १००..लिङ्गनिर्मुक्तैः - घ । १०१ मोक्ष - ख. ।
आत्मनश्चैव१०२ सायुज्यमीप्सितं स्थानमेव च १०३ ।
कुवेरः स महासत्वस्तथा सर्वार्पितक्रियः ॥ ६४॥
क्षेत्रसंसेवनादेव धनेशत्वमवाप ह ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥६५ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्१०४ ।
पराशरसुतो योगी ऋषिर्व्यासो महातपाः ॥६६॥
मम भक्तो भविष्यश्च वेदसंस्थाप्रवर्तकः१०५ ।
रमते१०६ सोपि पद्माक्षि क्षेत्रेस्मिन्मुनिपुङ्गवः ॥६७॥
ब्रह्मापि ऋषिभिः१०७ सार्धं विष्णुर्वायुर्दिवाकरः ।
देवराजस्तथा शक्रो अपि चान्ये दिवौकसः ॥६८॥
उपासते महात्मानः सर्वेशमिह सुव्रते ।
अनन्यमनसो भूत्वा मामेवोपासते सदा ॥६९॥
आलर्कश्च१०८ पुरीमेतां मत्प्रसादादवाप्स्यति ।
स चैनां पूर्ववत् कृत्वा चतुवर्णसमाकुलाम् ॥8.30(2).७० ॥
स्फीतां१०९ जनपदाकीर्णां भुक्त्वा च सुचिरं११० तदा ।
मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ॥७१ ॥
ततः प्रभृति चार्वङ्गि१११ येपि क्षेत्रनिवासिनः ।
गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः ॥७२॥
मत्प्रसादाद् गमिष्यन्ति मोक्षं परमदुर्गमम् ।
विषयासक्तचित्तोपि त्यक्तधर्मरतिर्नरः११२ ॥७३ ॥
इह क्षेत्रे मृतश्चापि११३ संसारं११४ न पुनर्विशेत् ।
ये पुनर्निर्ममा धीराः११५ सिद्धाः स्युर्विजितेन्द्रियाः ॥७४॥
व्रतिन स्थानिरावस्थाः (?) सर्वतो मयि भाविताः ।
देहभेदं समासाद्य११६ धीमन्तः सर्गवर्जिताः११७ ॥७५॥
श्चापि - घ. । १०३ वा - घ । इतः परं कियानंशः खण्डितः क. ख. पृस्तकयोः । १०४ यास्यनुत्यत्तमाम् - घ । १०५ देवसंस्थाप्रवर्तक - क । १०६ रम्यते - घ. । १०७ ह्यृषिभि - घ । १०८ आन ( अल?) र्कश्च - घ. । १०९ स्थितां - घ. । ११० स्व शुचिरं - घ । १११ सर्वाङ्गि - घ. । ११२… र्वरः - घ. । ११३., स्यापि - घ. । ११४.. रे - घ । ११५ वीराः - घ । ११६ समासश्च - घ. । ११७ स्वर्गवर्जिताः - घ ।
प्रपत्स्यन्ते११८ परं मोक्षं प्रसन्ने मयि११९ सुव्रते ।
जन्मान्त्तरसहस्रेषु युञ्जन् योगमवाप्नुयात् ।
तदिहैव१२० परं मोक्षं मरणादधि१२१ गच्छति ॥७६ ॥
ब्रह्मघ्नगोघ्नगुरुतल्पगचौरवृत्ति-
र्न मो प है (?) - - - - नियतस्ववृत्तिः ।
संसारभूतदृढपाशविमुक्तशोको
वाराणसीं मम पुरीं समुपैति लोकः ॥७७॥
एतत् सङ्क्षेपतो देवि क्षेत्रस्यास्य महत् फलम् ।
अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ॥७८॥
अतः परतरं नास्ति सिद्धं गुह्यमधीश्वरि१२२ ।
एतद् बुध्यन्ति योगज्ञा ये च योग१२३ परा१२४ भुवि ॥७९॥
एतदेव परं ज्ञानमेतदेव परं शिवम् ।
एतदेव परं ब्रह्म एतदेव परं पदम् ॥8.30(2).८० ॥
वाराणसी तु भुवनत्रयसारभूता
रम्या पुरी मम सदा गिरिराजपुत्रि ।
यत्रागता१२५ विविधदुष्कृतकारिणोपि
पापक्षयाद्विरजसः श्रुति(?) यान्ति मुक्तिम् ॥८१ ॥
य आगच्छेत् कथञ्चिच्च१२६ पुरीं वाराणसीं नरः१२७ ।
तमुपायं प्रकुर्वीत निर्गच्छेन्न पुनर्यथा ॥८२ ॥
यदीच्छेत् सफलं जन्म कोन्यं वेद्याफलं (?) तथा ।
काशीपुर्यां त्यजेद् देहं यदीच्छेत् परमं पदम् ॥८३ ॥
एता एव - घ. । ११९ मम - घ । १२० तमिहैव - घ । १२१.. .दपि - घ- । १२२ गुह्यमतीश्वरि - घ. । १२३ योगी - घ. । १२४ पुरो - घ. । १२५ यात्रागता - घ । १२६ नरो गच्छेत् - घ. । १२७ पुनः - घ. ।
एतत्स्मृतं प्रियतमं(?) मम देवि विश्वं (?)
क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् ।
अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति१२८
मोक्षाख्यमेवशिवतापि (?) न संशयोत्र ॥८४॥
इति स्कन्दपुराणे वाराणसीमाहात्म्यं नाम त्रिंशत्तमोध्यायः