न तत् - ख. । १४९ किञ्चित, - घ । १५० बुध्यस्व मा कृथान्यया - ख, मध्यं चा - घ. । १५१ जलेन्द्र… - क.घ. । १५२ विमोक्षणं - ख. घ. । १५३ तत्वप्रबुद्धा - क. । १५४ भवन्ति - क., वदन्ति - ख. । १५५ मानवाः - क. । १५६ स्नात्वा - ख. । १५७ भयद्? ख पापरहिताः - क. । १५८ मोहजालगहनं - घ । १५९ एतेद - घ. । १६०… त्सदा - क, त्सर - ख, सुविस्तीर्णं - घ. । १६१ वन… - क., वनशताकुलम् - घ. । १६२ च - क. ख.,… लोके च - घ. । १६३ म । तव. - क, महीयते - घ. । १६४ क्षेत्रं - घ. । १६५ च - घ. ।
सनत्कुमार उवाच
उद्यानानि ततो देवः स्थानानि च तथात्मनः१ ।
आख्याय हिमवत्पुत्र्या विचचार तदा पुनः ॥१॥
सोपश्यत२ तदा विप्रं तप्यमानं परं तपः ।
पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् ॥२॥
स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयन् सदा ।
भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् ॥३ ॥
जप्येन वृषनादैश्च४ तपसा भावितः शुचिः ।
तमेवं वर्तमानं तु भक्त्या परमया६ युतम्७ ॥४॥
भगवान् सहसाभ्येत्य इदं वचनमब्रवीत् ।
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ॥५॥
तुष्टोस्मि वरदश्चास्मि८ ब्रूहि यत्ते मनोगतम् ।
स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् ।
प्रणम्य शिरसा पादाववदत्९ परया मुदा ॥६॥
जैगीषव्य उवाच
नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः ।
नमः पिनाकहस्ताय हिमवन्निलयाय च ॥७॥
नमः पवनवेगाय ध्येयाय ध्यानिभिः१० सदा ।
नमः सोमाय हेम्ने च हेममालाधराय च ॥८॥
नमो गणाधिपतये नमः शान्तेन्द्रियाय च ।
योगसाहाय्यकर्त्रे च११ सहसोपशमाय च ॥९॥
नमो मृत्युहरायैव नमः शोकहराय च ।
नमः सिद्धिप्रदात्रे च सिद्ध१२ सिद्धिप्रदाय च ॥8.30.१० ॥
महात्मनः - घ. । २ सोन्वपश्यत् - घ. । ३ …यत् - क. । ४.. .नादेन - ख. । ५ युक्त… - घ. । ६ च परया - प. । ७ र्च्चितं - क.,.. विन्तम् - घ. । ८.. .श्चैव - क. घ. । ९ ववन्दत् - ख. । १. ध्यायिभिः - क.,ध्यानतः - घ. । ११ सा - क । १२ सिद्धि… - क. ।
धारिणे सर्वलोकानां सर्वलोकेश्वराय च ।
नमो दशार्धवर्णाय संसारापनुदाय च ॥११ ॥
नमः संसारपाराय अपारपरमाय च ।
स्वयं मन्त्रे च मनसे दुर्विज्ञेयाय वै नमः ॥१२ ॥
नमः कालकलाज्ञाय१३ सकलाया१४ कलाय च ।
नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः१५ ॥ १३ ॥
नमः क्रोधविहीनाय क्रोधाधिपतये नमः ।
नमः श्रमाय श्रमिणे श्रमापनयनाय च ॥ १० ’ ।
नमो ज्ञानरसज्ञाय ज्ञानिने ज्ञानहारिणे ।
सक्ताय१६ चैव तपसि१७ ऐश्वर्यनिरताय१८ च ॥ १५॥
नमो ज्ञाना१९नुबन्धायः२० अज्ञानविनिवर्तिने२१ ।
नमः सर्वानुभावाय भावानुगतचेतसे ॥१६ ॥
नमः शमदमाध्वाय मृत्युदूतापहारिणे ।
नमः शैलादिनाथाय शैलादिगणपाय च ॥१७॥
नमो योगरहस्याय२२ योगदाय नमो नमः ।
मह्यं सर्वात्मना कामान्२३ प्रयच्छ भगवन् प्रभो ॥ १८ ॥
सनत्कुमार उवाच
स एवं स्तूयमानश्च२४ भक्त्या परमयापि च ।
तुष्टस्तुतोष भूयोस्य२५ इदं चैनमुवाच ह ॥ १९॥
देवदेव उवाच
अजरश्चामरश्चैव सर्वशोकविवर्जितः ।
महायोगी महावीर्यो योगैश्वर्यसमन्वितः ॥8.30.२० ॥
प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् ।
योगेष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ॥२१ ॥
लज्ञाय - क. ख. । १४… य - क. । १५ अज्ञानविनिवर्त्तिने - ख । १६ शक्ताय - क । १७… से - क. । १८.. .नियताय - ख. । १९ ज्ञाय - क, वबद्धाय - ख, यबुद्धाय - घ. । २० प्रेताधिपतये नमः - ख. । २१ विनिवारिणे - घ. । २२ योगाय रम्याय - घ । २३ काम - घ. । २४… स्य - क- ख. । २५ तुष्टस्तुतो हरो देवो - ख. ।
भविष्यसि२६ द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः ।
यश्चेदं२७ त्वत्कृतं२८ लिङ्गं नियमेनार्चयिष्यति ॥२२॥
योनयः (?) सप्त गत्वा तु योगेशत्व२९मवाप्स्यति ।
जैगीषव्य गुहाञ्चेमां प्राप्य यो योक्ष्यते द्विजः ॥२३ ॥
सप्तरात्रं स३० युक्तात्मा सर्वपापैः प्रमुच्यते ।
मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति३१ ॥२४॥
एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् ।
त्रिरात्रेण व्यतीताँश्च परान् सप्त च तारयेत् ।
अतो भूयश्च किं तेद्य३२ जैगीषव्य ददान्यहम्३३ ॥२५॥
जैगीषव्य उवाच
भगवन् देवदेवेश इच्छेयं मे३४ मनोगता३५ ।
अतोहं नान्यदिच्छामि योगाक्षय्यात् परं हि तम् ॥२६॥
त्वयि भक्तिश्च नित्यं स्यात् सोमे सगणपेश्वरे ।
अनुत्सेकं तथा क्षान्तिं शमं३६ दममथापि च ॥२७॥
न चाप्यभिभवं कुर्यान्न३७ च तेजोवमाननाम् ।
एतान्वरानहं देव३८ सदेच्छामि महाद्युते ॥२८॥
देवदेव उवाच
एते तव भविष्यन्ति अजय्यत्वं च योगिभिः ।
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥२९॥
सनत्कुमार उवाच
ततः स भगवान् देवः पाराशर्योमया सह ।
सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया ॥8.30.३० ॥
तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् ।
वरदानाय देवेशो जगाम पुरतस्तदा ॥३१ ॥
त्वं सिद्धश्च - घ । २७ यश्चेमं - क. । २८ दुष्कृतं - घ. । २९ योगशः - क. । ३० स सप्तरात्रं - क. । ३१… ते - घ. । ३२ भ्यतेः - क. । ३३ … म्यहं - वा. । ३४ यच्छ यन्मे - क., प्रयच्छस्व - घ. । ३५ मनोगतं - क. घ. । ३६ समं - क. । ३७ न - क. । ३८ एतत्सर्वमेकदैव - घ. ।
अथ दृष्टवा त्रिपादञ्च ह्रस्वबाहूरुपादकम् ।
तप्यमानं तपो घोरं सुतं विस्रवसस्तदा ॥३२॥
दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् ।
तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् ॥३३ ॥
देवदेव उवाच
भो भो विस्रवसः पुत्र चक्षुर्दिव्यं ददामि३९ ते ।
सोमं पश्य महासत्व४० मां त्वं दिव्येन चक्षुषा ॥३४॥
ततस्स दृष्ट्वा देवेशं साम्बं नन्दिपुरस्सरम् ।
प्रणम्य कर्षितस्सम्यगुत्थातुं न शशाक ह ॥ ३५॥
अबलं तं समालक्ष्य उत्थानेशक्त४१मीश्वरः ।
उवाचोत्तिष्ठ भद्रन्ते बलं पौराणमस्तु ते ॥३६॥
तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत ।
पार्श्वगां चैव नेत्रेण देवीमालोकयन् स्थितः ॥३७॥
इयं सा पर्वतसुता सर्वलोकनमस्कृता ।
माता लोकत्रयस्यास्य महायोगबलान्विता ॥३८॥
अहोस्यास्तपसो वीर्यमहो दीप्तिरहो बलम् ।
या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह ॥३९॥
सनत्कुमार उवाच
तमेवम्भूतमनसमीक्षमाणं४२ च पार्वतीम् ।
बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी ॥8.30.४० ॥
सा क्रुद्ध्वा तु कुबेरस्य वाममक्षि सुदीप्तिमत् ।
विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा ॥४१ ॥
पुनश्चास्य विनाशाय कुबेरस्य शुभानना ।
मतिं दध्रे तपोयोनिरथैनामवदद्धरः ॥४२॥
ददानि - क. । ४० …त्वम्. घ. । ४१ शक्ति - क. । ४२.. .णस्य - क. ।
मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः ।
यशस्वी धार्मिकश्चायं भक्तस्त्वाञ्च विशेषतः ॥४३ ॥
कौतूहलतया ह्येष त्वान्निरीक्षितवान् शुभे ।
प्रसादं कुरु बालस्य धनदस्य महेश्वरि४३ ॥४४॥
देव्युवाच
एषो सकृन्मां देवेश वीक्षतेविनयात् प्रभो ।
मिनोति न गुणान् देव कस्मान्मम पुरः स्थितः ॥४५॥
तेजसां योप्रमेयानां कुर्यान्मोहेन लङ्घनम् ।
सोल्पवीर्यो विनश्येत पतङ्गोग्निमिवागतः ॥४६॥
सनत्कुमार उवाच
तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शङ्करीम् ।
उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः ॥४७॥
ब्रवीमि त्वां महाभागे मा क्रुधो जगतोरणि४४ ।
त्वया सृष्टं जगत् सर्व प्रकृतिस्त्वं सुरेश्वरि ॥४८॥
पुत्रस्तेयं यतो देवि तस्मान्न क्रोद्धुमर्हसि४५ ।
मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने ॥४९॥
न दोषोस्ति न चैवास्य त्वयि चेतो विमोहितम् ।
तस्मात् त्वमेव देव्यस्य प्रपन्नस्य४६ नतस्य च ।
प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम् ॥8.30.५०॥
सनत्कुमार उवाच
सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा ।
प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् ॥५१ ॥
देव्युवाच
कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ ।
तुष्टास्मि मा कृथाश्चैवं पुनस्तेजस्विलङ्घनम् ॥५२॥
, . श्वरी - क. । ४४.. बले (रणे) - घ । ४५ क्रोधमर्हति - घ., ति - घ. । ४६ प्रसन्नस्य - क. ।
यत् त्विदन्ते मया दग्धमीक्षमाणस्य लोचनम् ।
एतत्तथैव४७ भवतु४८ पिङ्गलं दीप्तिमच्च ह ॥५३ ॥
अनेन चाङ्कितो लोके भविष्यसि न संशयः ।
एकाक्षिपिङ्गलो नाम्ना ख्यातस्सर्वत्रपूजितः ॥५४ ॥
चरितं यत्तपश्चेद४९ मक्षयं तच्च तेव्ययम् ।
सौभाग्यमुत्तमं चैव मत्प्रसादाद् भविष्यति ॥५५॥
सनत्कुमार उवाच
एवमुक्त्वा ततो देवी विरराम शुभानना ।
भगवान् वरदोस्मीति कुवे(रे?)रमवदत्ततः ॥ ५६ ॥
अथैव५० मुक्तो देवेन कुवेरो हृष्टमानसः ।
तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः ॥५७ ॥
कुवेर उवाच
नमः पट्टिशहस्ताय किरीटवरधारिणे ।
नमो वलयधारिण्यै धारिण्यै दर्पणस्य च५१ ॥५८॥
नमः सर्वाङ्गकेशाय दीर्घकेश्यै५२ नमो नमः ।
नमो मेखलधारिण्यै५३ नमो मौञ्जीधराय च ॥५९ ॥
नमश्चित्रशिखडिन्यै५४ नमः पिङ्गजटाभृते ।
नमो ज्ञानाय तनवे५५ भूताधिपतये नमः ॥8.30.६० ॥
नमस्ताराभिधारिण्यै५६ सिंहोरस्काय वै नमः ।
नमो रत्नाग्र्यधारिण्यै५७ नमश्चन्द्रार्धमौलये५८ ॥६१ ॥
नमः प्रकृतये चैव नमोस्तु पुरुषाय च ।
नमोस्तु बुद्धये चैव अहङ्काराय वै नमः ॥६२ ॥
नमोस्तु रतये चैव सुखाय च नमो नमः ।
नमः कृत्यै५९ कर्मणे च आरम्भाय समाप्तये ॥६३ ॥
वामन्तथैव - ख. । ४८ भवितृ - क । ४९ यत्तु पश्येद्यः - ख. । ५० तथैव - घ. । ५१ काञ्चनं ह - ख. । ५२ सर्वज्ञकेशाय दीप्तकेश्यै - घ. । ५३ स्तु शलधारण्यै - ख । ५४ नमो नीलशिखण्डिन्यै - घ. । ५५ भूतये - क । ५६… एता(स्ता?)रातितारायै - क. । ५७ ग्रधारिण्यै - क । ५८.. मौलिने - ख. । ५९ कीर्त्यै - क. ।
नमो यज्ञाय मन्त्राय दक्षिणायै६० ऋचे नमः ।
नमः साम्नेथ यजुषे छन्दसे ष्टुतये नमः ॥६४॥
नमो ग्रये च वेद्यै च स्वाहायै हविषे नमः ।
नमो लक्ष्म्यै श्रिये चैव नमो धर्माय वेधसे ॥६५॥
इच्छायै रतये चैव नमः सम्पद्विरागिणे ।
नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः ॥६६॥
नमस्स्वधायै कव्याय हव्याय च नमो नमः ।
नमो वेद्याय विद्यायै नमः शर्वाय भक्तये ॥६७॥
लयायोत्पत्तये६१ चैव स्थित्यै संसारणाय६२ च ।
मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे ॥६८॥
नमस्ते भगवन् देव सह देव्या जगत्पते ।
दिश६३ नो भूतभव्येश यन्मे मनसि संस्थितम् ॥६९॥
सनत्कुमार उवाच
य इमं पठते नित्यं स्तवं प्रातस्समुत्थितः ।
जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा६४ ॥8.30.७० ॥
तस्य तुष्टो धनेशस्तु६५ प्रयच्छति महद्धनम्६६ ।
सोमश्च भगवान् तुष्टो गतिमिष्टां प्रयच्छति ॥७१ ॥
सनत्कुमार उवाच
एवं हि६७ संस्तुतस्तेन कुबेरेण जगत्पतिः ।
उवाच वरदोस्मीति ब्रूहि विश्रवसस्सुत६८ ॥७२॥
कुबेर उवाच
त्वत्तः प्रसादं सततं भक्तिं च त्वयि६९ शाश्वतीम् ।
भगवन् त्वाञ्च पश्येयं वर एषोस्तु मे विभो ॥७३ ॥
दीक्षणायै - क., दीक्षायै दीक्षिताय च - ख । ६१ प्रलयोत्पत्तये - क. ख. । ६२ संसारिणाय - क. । ६३ शम्स - घ । ६४ ब्राह्मणः क्षत्रियो वापि विट् शूद्रो वापि संयतः - ख. । ६५… थ देवस्तु - ख. । ६६ महद्वरम् - ख. । ६७ तु. - ख. । ६८ स्ववचसा पुनः - घ. । ६९ त्वयि च - क. ।
सनत्कुमार उवाच७०
एवमस्त्विति तत्सर्वं प्रदाय७१ भगवान् शिवः७२ ।
आत्मना सह सख्यं च ददावात्यन्तिकं तदा ॥७४॥
देवदेव उवाच
गृहाण चैतां७३ शिबिकां नरयुक्तामसङ्गिनीम् ।
लोकान् यथेष्टाल्ँलोकेश यामारुह्य चरिष्यसि७४ ॥७५॥
इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम् ।
गृहाणायुधमेतत्ते भविष्यत्यरिदुस्सहम् ॥७६ ॥
अस्त्रञ्च ते प्रयच्छामि तव नाम्ना भविष्यति ।
कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम् ॥७७॥
सनत्कुमार उवाच
ततस्स देवस्तुष्टात्मा मालां स्वीया७५ मनिन्दिताम् ।
आबबद्धास्य शिरसि भास्कराकारवर्चसम्७६ ॥७८॥
कुशेशयानां फुल्लानां स्रग्दाम च७७ मनोरमम्७८ ।
आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः७९ ॥७९ ॥
प्रकामं८० दर्शनञ्चास्य दत्त्वा चैव धनेशताम् ।
जगाम भगवान् सोमस्ततोन्यं देशमीप्सितम् ॥8.30.८० ॥
सनत्कुमार उवाच
य इदं८१ तु कुबेरस्य वरदानमशेषतः ।
शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान् समाहितः ॥८१ ॥
धनवान् रूपसम्पन्नः पुत्रपौत्रसमन्वितः ।
कुलज्ञानबलोपेतो जायते स मृतो नरः ॥८२॥
देउदेव उ. - क. ख. घ. । ७१ प्रसादं - घ. । ७२ ञ्छिवः - क. । ७३ चेमां - ख । ७४ च यास्यसि - ख. । ७५ स्वय - क. । ७६… साम्- - क- । ७७… ञ्च - क. ख. । ७८ मनोहरं - ख. । ७९ मुमापतिः - ख. । ८०… म - क. । ८१ इमं - क. ख ।
सनत्कुमार उवाच
अथ देवी महाभागा सहिता शम्भुना तदा ।
सञ्चिन्त्य पञ्चचूडास्तु तपन्त्योप्सरसः शुभाः ॥८३ ॥
कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः ।
कारुण्याहृतचेतस्का८२ देवं वचनमब्रवीत् ॥८४॥
एतासां तप्यमानानां८३ योषितां वरमुत्तमम् ।
ददामीप्सितमीशान८४ तन्मेनुज्ञातुमर्हसि ।
तस्या विज्ञप्तिमाकर्ण्य भगवा८५ निदमब्रवीत् ॥८५ ॥
देवदेव उवाच
एवं कुरु महाभागे भक्तानुग्रहमीप्सितम्८६ ।
वैदिक्योप्सरसो ह्येताः पञ्चचूडा इति स्मृताः ॥८६ ॥
त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः८७ प्रदीयताम्
ततः सा देवदेवेन तथा समनुचोदिता ।
पञ्चचूडाः समागम्य वच एतदुवाच८८ ह ॥८७॥
तुष्टास्म्यप्सरसः साक्षात्८९ पश्यध्वं मां शुचिस्मिताः ।
ददामि९० वो वरानिष्टान् ये वो९१ हृदयसंस्थिताः ॥८८॥
सनत्कुमार उवाच
ता एवमुक्ताः पार्वत्या वैदिक्योप्सरसः शुभाः ।
देवीं दृष्ट्वा प्रणम्यैनां९२ शिरसा पादयोर्नताः ॥८९॥
अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना ।
शिरस्यञ्जलिमाधाय९३ तुष्टुवुः सहिताः समम् ॥8.30.९० ॥
अप्सरस ऊचुः
नमः सिद्ध्यै नमस्तुष्ट्यै क्रियायै बुद्धये९४ नमः ।
नमः कीर्त्यै नमः सत्यै उल्क( ।) जायै तथेष्टये ॥९१ ॥
कारुण्यकृतचेतस्का - ख. । ८३ जप्यमातान्ना - घ. । ८४ ददानीप्सितमीशान - क- ख. । ८५ भवानी - घ. । ८६.. कारिणि - ख. । ८७ एभ्यः - वा, । मिष्टं - ख. । ८८ वाक्यमेतदुवाच - ख. । ८९ सर्वाः… - घ. । ९०.. .ति - क. ख. घ. । ९१ यद्वो - क., यानि वो हृदि - ख. । ९२… व - क. ख. घ. । ९३… दाय - घ. । ९४ वृद्धये - घ. ।
नमः पृथिव्यै कल्याण्यै श्रियै९५ लक्ष्म्यै नमो नमः ।
नमः सुधायै स्वाहायै स्वधायै दितये नमः ॥ ९२॥
नमोस्तु तडिते९६ चैव सौदामन्यै९७ नमो नमः ।
सवित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः ॥९३ ॥
नमः पर्वतकन्यायै मतये स्मृतये नमः ।
नमः पर्वतवासिन्यै रुद्राण्यै च नमो९८ नमः ॥९४॥
नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः ।
शोभायै दीप्तये चैव भास्करग्रहरश्मये ॥ ९५ ॥
गत्यायै गतये चैव इन्द्राण्यै९९ मुक्तये नमः ।
नियत्यै सरिते चैव गङ्गायै सूतये नमः ॥९५ ॥
हेतवे१०० प्रीतये चैव नमः करणवृत्तये१०१ ।
नमः सन्ततये चैव इरायै वृत्तये नमः ॥९७॥
वारुण्यै च शरण्यायै शान्त्यै कान्त्यै१०२ नमो नमः ।
कौशिक्यै च नमस्तेस्तु कात्यायन्यै नमो नमः ॥ ९८ ॥
नमः सन्नतये चैव महिम्ने च नमो नमः ।
अणिमायै नमस्तेस्तु लघिमायै नमो नमः ॥ ९९ ॥
पूजायै१०३ ते नमश्चैव शितिबाह्वे१०४ च सृप्तये१०५ ।
सञ्ज्ञायै च नमस्तेस्तु गिरेथ१०६ स्मृतये नमः ॥ 8.30.१०० ॥
नमस्तेस्तु सरस्वत्यै जिह्वायै दृष्टये नमः ।
नमो महिषघातिन्यै तथा शुम्भनिशुम्भयोः ॥ १०१ ॥
नमः सिंहरथिन्यै१०७ च शूलिन्यै च नमो नमः ।
नमो मुद्गरधारिण्यै१०८ कवचिन्यै नमो नमः ॥ १०२॥
नमः कुण्डलधारिण्यै धारिण्यै जगतो नमः ।
नमो धनुर्धरायै च खडगिन्यै च१०९ नमो नमः ॥१०३ ॥
श्रिये- क. । ९६ तद्धिते - क. । ९७ सौदामिन्यै - घ. । ९८ चैव ते - ख. । ९९… यै - ख । १००.. ये - ख - । १०१ कारणवृत्तये - ख. । १०२ काल्यै - ख. । १०३ प्रजायै - घ. । १०४ शितिकायै - घ. । १०५ वृष्टये - घ. । १०६ शिवायै - घ । १०७ सिंहरथे - ख. । १०८ नमस्तु क्षीधरारिण्यै - ख. । १०९ खङ्गहस्ते - ख. ।
नमः पिच्छध्वजिन्यै च धारिण्यै पट्टिशस्य च ।
नमोस्तु भूतमात्रे च स्कन्द११० मात्रे नमो नमः ॥१०४
विशाखशाखयोर्मात्रे१११ नैगमेशस्य चैव हि ।
जात्यै सर्वसुराणां११२ च देवतायै वनस्य११३ च ॥१०५॥
आर्यायै च नमो नित्यं शिखण्डिन्यै११४ नमो नमः ।
नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः ॥१०६॥
नमोस्तु तनुमध्यायै११५ देवतायै धनस्य११६ च ।
नमो धृत्यै नमश्चित्यै कीर्तये च११७ नमो नमः ॥ १०७॥
स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः ।
राकानुमतये चैव सिनीवाल्यै नमो नमः११८ ॥ १०८॥
नमः क्रियायै श्रद्धायै मेधायै च नमो नमः ।
नमोस्तु धारणायै च ऊहायै च नमो नमः ॥१०९॥
अपोहायै नमस्तेस्तु वषट्प्रकृतये नमः ।
नमः समाधये चैव स्पृहायै चित्तये११९ नमः ॥8.30.११०॥
वेदनायै नमस्तेस्तु बृहदुक्थ्यै१२० नमो नमः ।
नमः प्रभायै१२१ शुद्धायै शुद्धये१२२ शुचये नमः ॥ १११ ॥
नमस्त्र्यम्बकभार्यायै विद्यायै१२३ च नमो नमः।
दीक्षायै१२४ दक्षिणायै च ज्वालायै च नमो नमः ॥११२॥
इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम् ।
श्रुतये सर्ववेदानां१२५ भवान्यै१२६ च नमो नमः ॥११३ ॥
दुर्गायै दुर्गतारिण्यै१२७ धारिण्यै सर्वदेहिनाम् ।
नमस्ते सर्वदेवत्ये नमस्ते लोकभाविनि१२८ ॥११४॥
नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च ।
नमोस्त्व१२९दित्यै दानव्यै वितानायै१३० नमो नमः ॥११५॥
स्य च - क. ख. । १११ श्चैव - क., मात्र च - ख. । ११२ रसानां - ख. । ११३ नमस्य - क. । ११४ शिखिन्यै च - घ. । ११५ तन्तुमध्यायै - ख. । ११६ वनस्य - घ. । ११७ कीर्त्यै चैव - ख. । ११८ तथैव च - क. । ११९ वित्तये - ख. । १२०… क्ष्यै - क.,.. .क्त्यै - ख. । १२१ विशुद्धायै - ख., वै - क. । १२२ शुद्धायै - ख- । १२३ नित्यायै - घ. । १२४ दक्षिणायै - क., दीक्षि… ख. । १२५ देवानां - ख. । १२६ भवाद्यै - ख. । १२७ दुर्गतायै च - ख. । १२८ सर्वभाविनी - ख. । १२९… स्तु - घ. । १३०. तिजतायै? - ल., वितता - क. ।
नमः शिवायै कर्त्र्यै च प्रभावायै१३१ नमो। नमः ।
मृकण्ड्वै१३२ मार्द्दबाह्वै च तथा सुरभये नमः ॥ ११६ ॥
विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः ।
नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः१३३ सदा ।
दिश नः सुमनाः सर्वं यत् किञ्चिद् हदये स्थितम् ॥ ११७ ॥
सनत्कुमार उवाच
य इदं१३४ पठते नित्यं नरः स्त्री वा समाहितः ।
स रात्रिषु१३५ कृतं पापं त्यजेत् सर्वमशेषतः ॥ ११८ ॥
शयानो जपते यश्च प्रयतो व्यास नित्यशः ।
दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत्१३६ ॥ ११९ ॥
यश्चैत१३७ च्छृणुयान्नित्यं द्विजान् वा श्रावयेत् सदा१३८ ।
स देहभेदमासाद्य पञ्चचूडप्रियो भवेत् ॥ 8.30.१२० ॥
यश्चेदं१३९ प्रजपन् मर्त्त्यस्त्यजेत् प्राणान् सुदुस्त्यजान् ।
विमाने सूर्यसङ्काशे अप्सरोगणसेविते ॥ १२१ ॥
सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं शतम्१४० ।
यश्च भक्त्या परमया तिथौ नियमवान्नरः ॥ १२२ ॥
देवीभ्यर्च्य जपते सर्वपापैः प्रमुच्यते ।
जपनादेव तपसा१४१ देहे भिन्ने च भक्तिमान्१४२ ।
स भूत्वानुचरो देव्याः पुण्ये लोके महीयते ॥ १२३ ॥
सनत्कुमार उवाच
ताभिरेव स्तुता देवी स्थिता देवस्य सन्निधौ ।
उवाच हृष्य१४३ माणास्या पञ्चचूडा इदं१४४ वचः ॥ १२४ ॥
शृणुताप्सरसः सर्वास्तपसोस्य१४५ महत्फलम् ।
यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः ॥ १२५॥
प्रभवायै - ख. । १३२ मृत्कण्वै - ख. । १३३ सर्वदे - ख. । १३४ इमं - क. ख. । १३५ रात्रिजं - क. । १३६ त्सुगतिमाप्नुयात् - ख. । १३७ यश्चैनं - क. । १३८ श्रावयीत वा - ख. । १३९ यश्चैनं - क. ख. । इतः पर पत्रमेकं खण्डितम् । १४०. समम् - ख. । १४१ देहपतनात् - घ. । १४२ शक्तिमान् - घ. । १४३ हुषं .. .- ख. घ. । १४४ पञ्चचूडमिदं - ख.। तदा घ. । १४५… थ - घ. ।
अजराश्च विशोकाश्च नित्यं मुदितमानसाः ।
प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया ॥१२६॥
ब्रूत यच्चापि किञ्चिद्वो हृदि स्थितमशङ्किताः ।
सर्वं दास्यामि तद्वोहं मा चिरायत दुर्व्यथाः १४६ ॥ १२७॥
पञ्चचूडा ऊचुः
देवि पुंसां स्त्रियः १४७ सर्वाः कार्यार्थं१४८ विदितं च ते ।
अर्थिनस्ते च नस्तावत् यावत् कार्यं समाप्यते ।
समाप्ते चैव१४९ ते कार्ये परा इव भवन्ति नः ॥१२८॥
तद् देवि यदि तुष्टासि यदि देयो वरश्च नः ।
सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः ॥ १२९॥
देव्युवाच
अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा ।
वश्या भवन्तु सर्वत्र१५१ सर्वकार्यकराश्च ह१५२ ॥ 8.30.१३० ॥
अदौ पश्चाच्च सर्वाभ्यो१५३ हिरण्यं पशवः स्त्रियः ।
सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च ॥ १३१ ।
व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च ।
प्रिया एव भविष्यन्ति पापं न च भवेत् सदा ॥१३२ ॥
मातरं पितरं भ्रातॄन्१५४ सुह्रदोथ सुतानपि ।
अर्कायाणि करिष्यन्ति स्त्रीणां वश्यत्वमागताः ॥ ३३ ॥
पश्यन्तोपि व्यलीकानि दोषान् वैकृत्यमेव च ।
नैव द्रवन्ति ते पुंसां(?)१५५ मद्वरान्मोहितेन्द्रियाः ॥१३४॥
सनत्कुमार उवाच
ततः सा देवदेवस्य पत्नी हिमवतः सुता ।
माल्यदाम गृहीत्वा तु भ्रामयन्ती शुभानना ॥ १३५॥
दुष्यथाः - ख । १४७ दिशं च ( वशाः?) - ख. । १४८.. थ - स. । १४९ तत् ख. घ. । १५० त्वं देवि - घम्. । १५१ सर्वे वश्या भविष्यन्ति - घ. । १५२ सदा - घ. । १५३ सर्वेभ्यो - ख । १५४ भार्यां १५५ वश्याः (?) ।
भव नार्य इति प्राह हसन्ती प्रियमव्यया ।
भ्राम्यमाणस्य दाम्नोस्य यान्य१५६ शीर्यन्त१५७ भूतले ॥१३६॥
कुसुमान्यभवँस्तानि नार्यः कमललोचनाः ।
ता उवाच पुरा यूयं जराक्षयविवर्जिताः ॥१३७॥
जगन्मोहकराः सर्वाः१५८ पुंसां हृदयबन्धनाः१५९ ।
दृष्टिस्पर्शविलासेषु आविश्य जगतीत्रयम्१६० ॥१३८॥
-
-
-
-
- पुरुषाँस्त्रीवशाँश्च करिष्यथ ।
नराः सर्वे च युष्मासु१६१ भविष्यन्ति सदा रताः ॥१३९॥
- पुरुषाँस्त्रीवशाँश्च करिष्यथ ।
-
-
-
वृत्तिः शुभा१६२ भवित्री च सर्वासां मम तेजसा ।
पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च ।8.30.१४० ॥
क्रियाः शुभाङ्गसंस्कारा दिव्या ये१६३ मानुषाश्च ह ।
बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः१६४ ॥ १४१ ॥
सनत्कुमार उवाच
एवं देवी तदा व्यास सृष्ट्वा ता१६५ वै विसृज्य च ।
उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम्१६६ ॥१४२॥
तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेम हि ।
देवानां मानुषाणां च अवश्याश्चैव१६७ रक्षसाम् ।
ता उवाच ततो देवो एवं लोके भविष्यथ१६८ ॥ १४३ ॥
ततः स सहितो देव्या सनन्दी परमेश्वरः ।
गणैः सर्वैश्च सहितो गृहान्स्वानाविशत् प्रभुः ॥१४४॥
यानि - ख. । १५७… न्त - ख. । १५८ यूयं - ख. - । १५९… नात् - क. । १६० जगति स्त्रियः - घ. । १६१ युष्माकं - घ- । १६२ शूद्रा - घ । १६३ ये दिव्या - घ. । १६४ सर्वमङ्गलाः - घ । १६५ सृष्टास्ताः (?) १६६ किं भूयः करवाण्यहम् (?) । १६७ अवध्याश्चैव - ख. घ. । १६८ एवं भवत्विति प्रोक्ता (?) । देवी त्रिजगतो वली ( रणौ) । उवाच सद गच्छाम चिरोत्सृप्टमिति प्रभो इति पाठः घ पुस्तके ।
भगनयननिपाती दैत्यदर्पापहारी
सुरकमलहिमौघः कामयज्ञाग्निहन्ता१६९ ।
जलदवृषभयायी सर्वदुःखान्तकारी
समरवृषभकेतुश्चन्द्रमौलिर्जगाम१७० ॥१४५॥
इति स्कन्दपुराणे वाराणस्यवलोकने जैगीषव्यधनदपञ्चचूडानां१७१ वरप्रदाननामा त्रिंशोध्यायः१७२