२९

व्यास१ उवाच
एवं कालेन२ सम्प्राप्य वाराणस्यां निकेतनम् ।
जगतः पितरौ देवौ चक्रतुः३ किमतः परम् ॥१ ॥

सनत्कुमार उवाच
ततः स भगवान् देवो देवीं हिमवतः सुताम् ।
उवाच देवि पश्याम४ उद्यानं यदि रोचते ॥२ ॥

देव्युवाच
एवं भवतु देवेश यथात्थ त्वम्२ वृषध्वज ।
न हि मेन्यत्र गन्तव्यमुद्यानात् परतो हर ॥३ ॥

सनत्कुमार उवाच
सह देव्या ततो व्यास वाराणस्यां वृषध्वजः ।
दिव्यो६ द्यानदिदृक्षार्थं विचचार७ समन्ततः ।४॥

पूर्वस्मिन् स दिशो भागे देव्या देवः पिनाकधृक्॥

उद्यानं दर्शयामास नानाकुसुमशोभितम् ॥५॥

चम्पकाशोकपुन्नागप्रियङ्गूचूतसङ्कुलम्८ ।
बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि ॥६॥

नाशुचये - घ. । १२६… य कदाचन - क,. याशुभाय च - घ । १२७ नित्यं नाव्रताय - घ । १२८ सर्वदा देवि - घ, सर्वैश्च - ख । १२९ पूजाविधिर्नाम - घ. ।
सन उ. - क. । २ कामेन घ. । ३ कुरुत. - घ । ४.. व - क. टि., घ । ५ तत्त्वं - घ. । ६ देवो - क., घ । ७ विषभ्राम - क. । ८. व्र ।) त… - घ. ।
गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः ।
रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः ॥७॥

संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसन्निभम् ।
स तदुद्यानमासाद्य देवीमाह जगत्पतिः ॥८॥

अस्मिन् देशे पुरा देवि तिष्ठतो मम शोभने ।
ऊर्ध्वं गोलोकसंस्थानाद् गवां वत्सैः स्वयम्भुवैः ॥९ ॥

पीयमान९ पयोवेगात् फेनं मूर्ध्नि समापतत ।
ततो मयो१०र्ध्वतो दृष्टा११ गावस्ताः सोमपार्श्वतः१२ ॥ 8.29.१० ॥

ततस्ताः१३ प्रेक्षितास्तत्र मया१४ गावस्तदाभवन् ।
तेजसा दह्यमानास्तु नैकवर्ण्णा भृशार्दिताः ॥ ११ ॥

गावः पूर्वमिमा देवि आसन् कपिलवर्णजाः ।
नैकवर्णास्तदाभूवन् यदा सम्प्रेक्षिता मया ॥ १२॥

तासां शरण्यतां यात्वा ताभि१५र्मामेव शैलेजे ।
आश्रितः सोम आगत्य स्रवन्तीभिः१६ समन्ततः ॥१३ ॥

अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः ।
प्रसादं कुरु देवेश सौरभ्य१७ स्तेजसा तव१८ ॥ १४॥

न नश्यन्ति१९ यथा सद्यस्तथा सर्वसुरार्चित ।
ततोहमास्थितो देवि स्थानेस्मिन् स्वयमेव तु ॥ १५॥

गोप्रेक्ष इति विख्यातः२० संस्तुतः२१ सर्वदेवतैः२२ ।
गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य२३ च मानवः ॥ १६ ॥

न दुर्गति२४ मवाप्नोति कल्मषैश्च विमुच्यते ।
ततस्ता दह्यमानास्तु२५ प्रसन्ने२६ कपिला२७ मयि ॥१७॥

ह्रदेस्मिन् धेनवो२८ भ्येत्य शान्तास्ता विबभु२९स्तदा ।
कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते ॥ १८॥

पीयनीताम्प… - क., पिबतीनां - घ । १० ममोर्ध्वं - क । ११ दृष्टास्तु ख, दृष्ट्वा घ । १२ गाः - ख. घ. । १३… श्चा - क. । १४ देव्या - घ. । १५ एभि - ख. । १६ सह गोभि र्न तास्त्यजन् - क. । १७ सौरभ्या - क. । १८ भव - घ. । १९ न विनश्यद् - ख. । २० गोप्रेक्षक इति ख्यातः - ख. । २१ संस्मृतः - घ. । २२ सर्वदै. - घ. । २३ चार्च्य - क ख, चाभ्यर्च्य - घ. । २४ स स्वर्गति - घ. । २५ दुह्यमानास्तु - घ । २६ प्रसन्न ।) - घ. । २७ सुरभी - क. ख. । २८ धेनुर.. - क., पेतु - क ख. घ. । २९ विभवु - ख., शिशिवु - घ. ।
अत्रापि३० स्वयमेवाहं वृषध्वज इति श्रुतः३१ ।
सान्निध्यं कृतवान् देवि स चायं दृश्यतां स्थितः ॥१९॥

कपिलाह्रदतीर्थेस्मिन् स्नात्वा नान्यमना नरः३२ ।
वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् । 8.29.२० ॥

सलोकतां मृतश्चापि अर्चयित्वा तु मामिह ।
लभते देहभेदे तु गणत्वं चातिदुर्लभम् ॥ २१॥

अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् ।
शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् ॥२२॥

तासां क्षीरेण सञ्जातं ह्रदमेतन्मनोहरम् ।
भद्रदोहमिति ख्यातं पुण्यं देवह्रदं शुभम्३३ ॥२३ ॥

सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ।
गच्छोपशममीशेति उपशान्तशिवस्ततः ॥ २४॥

स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् ।
दृष्ट्वैनं३४ प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् ॥२५॥

अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ।
ब्रह्मणश्चापि सङ्गृह्य विष्णुना स्थापितः पुनः ॥ २६॥

ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा ।
मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥३७॥

तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् ।
रुद्रदेवे ममात्यन्तं परा भक्तिर्महत्तरा३५ ॥२८ ॥

मयैष स्थापितस्तेन नाम्ना३६ तव भविष्यति ।
हिरण्यगर्भ इत्येवं ततोत्राहं समास्थितः ॥२९॥

दृष्ट्वैनमपि देवेशे३७ मम लोकं व्रजेन्नरः ।
पुनरेव३८ ततो ब्रह्मा मम लिङ्गमिदं३९ शुभे ॥8.29.३० ॥

तत्रापि - क. घ । ३१ प्रभुः - घ ॥ ३२ ग?म्यक् समाहितः - ख., संयतमानसः - घ. । ३३ वनं - क. ख. । ३४. व - ख. । ३५ पितामह - घ. । ३६ तव नाम्ना - ख. । ३७… शं - क. ख., शि? । ३८ श्चापि - ख, रपि घ. । ३९ मिमं - क ।
स्थापयामास विधिवद् भक्त्या परमया युतः ।
स्वलीनेश्वर४० इत्येवमत्राहं स्वयमास्थितः४१ ॥३१ ॥

स्वस्मिन् परतरे लीनः प्रधाने मम४२ कारणे ।
तस्मात् स्वलीन४३मित्येवं४४ गुह्यं४५ क्षेत्रं४६ मम४७ स्मृतम् ॥३२॥

प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ।
आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता४८ ॥३३ ॥

अस्मिन्नपि४९ मया देशे दैत्यो दैवतकण्टकः ।
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ॥३४॥

व्याघ्रेश्वरस्ततः ख्यातो५० नित्यमत्रा५१ हमास्थितः ।
न पुनर्दुर्गतिं५२ यायत्५३ दृष्ट्वा५४ चेमं५५ महेश्वरम्५६ ॥३५॥

उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ।
स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे ॥३६॥

सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् ।
आदावत्राहमागत्य आस्थितो गणपैः सह ॥३७॥

ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ।
दृष्ट्वेदं५७ मम लिङ्गन्तु ज्येष्ठ५८ स्थान५९ समाश्रितम् ॥३८ ॥

न शोचति पुनर्मर्त्यः संसिद्धो६० मृत्युजन्मनी६१।
समन्ताद्देवतै६२ स्सर्वैर्लिङ्गानि थापितानि ह ।३९ ॥

दृष्टवा तु नियतं६३ मर्त्यो देहभेदे गणो भवेत् ।
मया त्विह६४ समागत्य स्वयमेव६५ यतः६६ स्थितम्६७ ॥8.29.४० ॥

न च मुक्तं६८ मया यस्मादविमुक्तमिदं ततः६९ ।
क्षेत्रं वाराणसी पुण्या७० मुक्तिदं७१ सम्भविष्यति ॥४१ ॥

स्वर्लीनेश्वर - क. ख, मुनेश्वर - घ. । ४१ मोहितः - घ. ४२ मयि? । ४३ स्वर्लोन - क. । ४४… मित्येव - क ख. । ४५ मुक्तं - क. । ४६ मम - ख. । ४७ इति - ख. । ४८ योगे सिध्देथ योगिना - ख । ४९ तस्मिन्नपि - क. । ५० व्यास - ख. । ५१ नित्यं यत्रा - ख. । ५२ स पुन. स्वर्गतिं - घ. । ५३ याति - क. । ५४ दृष्ट्वैनं - ख. । ५५ मम - क. । ५६ ममरेश्वरम् - ख- । ५७ दृष्ट्वैनं - क. ख. । ५८ ज्येष्ठं.. - ख । ५९ स्वानम्? - ख । ६० संसिद्धिं - ख । ६१. .नो - - खः । ६२ दैवतै - क. ख. । ६३ नियतो - क. ख. । ६४ इदानीमह.. - क. । ६५ स्वयमस्मिन् - क । ६६ व्यव… - ख., न्यतः - क. । ६७ स्थितः - क. । ६८ न मुक्तं हि - ख. । ६९… क्त ततः स्मृतं - ख. । ७० पुण्यं -? । ७१ मोक्षदः - घ. ।
अविमुक्तेश्वरं७२ मां वै७३ योत्र द्रक्ष्यति७४ मानवः ।
गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह ॥४२॥

प्रा(प्र?)णानिह तु सन्न्यस्य७५ यास्यते मुक्तिमुत्तमाम् ।
पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् ॥४३॥

मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गः प्रतिष्ठितम् ।
शैलेश्वरमितिख्यातं दृश्यतामिदमास्थितम् ॥४४॥

दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् ।
नदी वाराणसी चेयं पुण्या७६ पापप्रमोचनी ॥४५॥

क्षेत्रमेतदलङ्कृत्य जाह्नव्या सह सङ्गता ।
स्थापितं सङ्गमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमम् ॥४६॥

सङ्गमेश्वर इत्येवं'७७ ख्यातं जगति दृश्यताम् ।
सङ्गमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः ॥४७॥

अर्चयेत् सङ्गमेशानं तस्य जन्मभयं कुतः ।
इदमन्यद् बृहत् क्षेत्रं निवासं योगिनां परम् ॥४८॥

क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः ।
मध्यमेश्वर इत्येवं ख्यातं७८ सर्वसुरासुरैः ॥४९॥

सिद्धा(द्ध?)नां स्थानमेतद्धि मदीयव्रतचारिणाम् ।
योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् ॥8.29.५०॥

दृष्ट्वेदं मध्यमेशानं जन्म प्रति७९ न शोचति ।
स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना ॥५१॥

नाम्ना शुक्रेश्वरमिति८० सर्वसिद्धामरार्चितम् ।
दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात् सर्वकिल्बिषैः८१ ॥५२॥

मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः ।
पुरा जम्बुकरूपेण असुरा८२ देवकण्टकाः८३ ॥५३॥

थवा - घ । ७३ लिङ्गं - घ । ७४ मम दृथ्ट्वैव घ. । ७५ सन्त्यज्य? । ७६ पुण्यं - क. ख. । ७७… मित्येवं - क,.. घ? - ख । ७८ ख्यातः - - क. । ७९ जन्ममृत्यू - ? । ८० शुक्रेश्वरं नाम - क. ख. । ८१.. .षात् - घ. । ८२ असुरो - घ. । ८३ देवकण्टकः - घ. ।
ते ब्रह्मणो८४ वरं लब्ध्वा८५ गोमायुवधशङ्किताः८६ ।
निहता'८७ हिमवत्पुत्रि८८ जम्बु(स्बु?)केशस्ततो ह्यहम् ॥५४॥

अभवं जगति ख्यातः सुरासुरनमस्कृतः ।
दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् ॥५५॥

ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि ॥

पश्य लिङ्गानि पुण्यानि सर्वकामदुघानि मे'८९ ॥५६॥

इत्थमेतानि९० पुण्यानि मन्निवासानि पार्वति ।
कथितानि तव क्षेत्रे९१ गुह्य चान्यदिदं शृणु ॥५७॥

क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।

        • -९२ चार्वङ्गि मृत्युकालेमृतप्रदम् ॥५८ ॥
              • स्थाने केदारे च व्यवस्थित?म् ।
                गणत्वं लभ्यते९३ दृष्टवा क्षेत्रेस्मिन् मोक्षमाप्यते ॥५९॥

गाणपत्यपदात्तस्मात् यतः स्यान्मुक्तिरुत्तमा ।
ततो महालयात्तस्मात् केदारान्मध्यमादपि ॥8.29.६० ॥

स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे९४ ।
केदारमध्यमे स्थाने स्थानं चैव महालयम् ॥६१ ॥

मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ।
यदा९६ मृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् ॥६२॥

कदाचिन्न मया मुक्तमविमुक्तं ततोभवत् ।
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः ॥ ६३ ॥

सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ।
शैलेशं सङ्गमेशं च स्वलीनं९७ मध्यमेश्वरम् ॥६४॥

ब्रह्मणोथ - ख., ब्रह्मणस्तु - घ. । ८५ लब्धा - ख । ८६… वरशङ्किताः । - घ, शङ्कितः । - घ. । ८७ न हिता - क., निहिता - ख. । ८८ - पुत्री - क., पुत्र्या - ख. । ८९ प्रदानि तु - ख. । ९० एवमेतानि - ख. । ९१ क्षेत्रं - घ. । ९२ योजनानां मृत्यु (?) - घ. । ९३ लभते - घ. । ९४ शुभम् - घ. । ९५ न्विदम्? । ९६ यतः - घ. । ९७ स्वर्लीनं - क. । -
हिरण्यगर्भमीशानं गोप्रेक्षं९८ सवृषध्वजम् ।
उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् ॥ ६५॥

शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ।
दृष्टवा न जायते९९ मर्त्यः संसारे दुःखसागरे ॥६६ ॥

सनत्कुमार उवाच
एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ॥

विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे ॥६७॥

अकस्मादभवत् सर्वं तत् क्षेत्रं ज्वलितं यथा ।
सविद्युत्स्तनिताघोष सूर्यायुतशतोदितम् ॥६८॥

तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव ।
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः ॥६९॥

योगीश्वरा१०० महात्मानस्तथा वैतानिकव्रताः१०१ ।
अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः१०२ ॥8.29.७० ॥

बहवः सहसोपेत्य१०३ नमश्चक्रुर्महेश्वरम् ।
पुनर्निरीक्ष्य देवेशं ध्यानयोगञ्च कृत्स्नश (?) ॥७१ ॥

तस्थुरात्मानमाधाय लीयमाना इवेश्वरे ।
स्थितानां१०४ स तथा१०५ तेषां देवदेव उमापतिः१०६ ॥७२॥

सञ्चिन्त्य परमां मूर्तिं बभूव१०७ पुरुषः प्रभुः ।
षड्विम्श ईश्वरोव्यक्तः सूर्यायुतसमप्रभः ॥७३॥

कृत्स्नं जगदिवैकस्थं कर्तुं मत्त१०८ इवास्थितः ।
तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः ॥७४॥

न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ।
ततस्तं हृष्टमात्मानं बुद्ध्वा१०९ सा प्रकृतिस्थितम् ॥७५॥

क्षेत्रं - (?) । ९९ न दृथ्ट्वा जायते - क. । १०० योगेश्वरा - ख. । १०१ वेधा. - क । १०२ .. योग. - ख.,… व्रताः - क । १०३ शतशोभ्येत्य - क । १०४ स्थिराणाम् - ख. । १०५ तदा - क. घ, सर्वता (था) - ख. । १०६ मुमा… - ख., पतिम् - क. ख. । १०७ बभूवुः - ख. । १०८ मन्त्र (?) मन्तरिव (?) मन्तरव (?) । १०९ सृष्टवा - घ.
प्रकृतेर्मूर्त्तिमास्थाय योगेन परमात्मिकाम्११० ।
न शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः ॥७६॥

ततस्ते लयमाधाय योगिनः१११ पुरुषस्य तु ।
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः११२ ॥७७॥

अनुगृह्य ततः सर्वान् तान् सिद्धान् यतिपुङ्गवान् ।
नीललोहितमूर्तिस्थं पुनश्चक्रे११३ वपुः शुभम् ॥७८॥

तद् दृष्ट्वा११४ शैलजा प्राह हृष्टसर्वतनूरुहा११५ ।
स्तुन्वन्ती११६ चरणौ गत्वा क इमे११७ भगवन्निति ॥७९॥

तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् ।
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ॥8.29.८० ॥

यैर्यैर्योग इहाभ्यस्त११८ स्तेषामेकेन जन्मना ।
क्षेत्रस्यास्य प्रभावेण११९ भक्त्या च मम भावनात्१२० ॥८१ ।
अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा ।
तस्मादिदं१२१ महत् क्षे(त्रे?)त्रं ब्रह्माद्यैः सेव्यते मम ॥८२॥

श्रुतिमद्भिश्च विप्रेन्द्रः संसिद्धैश्च तपस्विभिः ।
प्रतिमास१२२ मथाष्टम्यां प्रतिमासं१२३ चतुर्दशीम् ॥८३ ॥

उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे ।
शशिभानूपरागे च कार्तिक्यान्तु विशेषतः ॥८४॥

सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु१२४ च ।
पृथिव्यां सर्वं तीर्थानि१२५ वाराणस्यां तु जाह्नवी (म्) ॥८५॥

उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् ।
पितुस्ते गिरिराजाच्च१२६ स्रुतां१२७ हिमवतः शुभाम् ॥८६॥

परमात्मिका - क., परमार्थकं - घ. । १११ योगेन - ख. । ११२.. जीविनः - क. ख घ. । ११३ प्रीतश्चके - ख. । ११४ तं - ख., तन्दृष्ट्वा.. - क । ११५ सृष्टसर्वतनूरुहा - ख. । ११६ स्तुवती - घ. । ११७ एते - ख. । ११८ यैर्योगस्समुपास्यन्ते - ख. । ११९ भाविनः - क. । १२० भावनः - क. । १२१ तस्मादियं - क. । १२२.. सं तथा - घ. । १२३ पौर्णमासी - घ. । १२४ विषुवायनसधिषु - ख. । १२१ यानि तीर्थानि - घ. । १२६ गिरिराजस्य - क ख. घ, त्मर - ख. । १२७ सुता - ख. ।
भजन्ति१२८ सर्वतोभ्येत्य ताञ्छृणुष्व वरानने ।
सन्निहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ॥८७।.।
पुष्करं नैमिशं चैव प्रयागं च१२९ पृथूदकम् ।
सन्ध्या१३० सप्तरिचञ्चैव (?)१३१ सर्वा नद्यः सरांसि च ॥८८॥

समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ।
भागीरथीं समेष्यन्ति सर्वपर्वसु१३२ काशिगाम् ॥८९॥

अविमुक्तेश्वरं१३३ मां च काशीस्थमचलात्मजे ।
पृथिव्यां यानि पुण्यानि१३४ मह्यमायतनानि च ॥ 8.29.९० ॥

प्रविशन्ति सदा१३५ भ्येत्य पुण्यां१३६ पर्वसु पर्वसु१३७ ।
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये ॥९१ ॥

मध्यमेश्वरसंस्थं१३८ च तथा पशुपतीश्वरम्१३९ ।
शङ्कुकर्णेश्वरं चैव गोकर्णेशौ तथा ह्युभौ१४० ॥९२॥

द्रिमिचण्डेश्वरं चैव भद्रेश्वरमथेश्वरम् (?) ।
स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम्१४१ ॥९३ ॥

भैरवेश्वरमीशानं तथा कारोहणस्थितम्१४२ ।
यानि चान्यानि पुण्यानि स्थानानि मम भूतले ॥९४॥

तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् ।
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ॥९५ ॥

तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम्१४३ ।
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे१४४ ॥९६॥

सर्वयज्ञफलैस्तुल्यमिष्टैः१४५ शतसहस्रशः ।
सद्य एव समाप्नोति१४६ किन्न्वतः परमुत्तमम्१४७ ॥९७॥

-.. न्ते - - ख. घ. । १२९ स - क । १३० साध्या - घ. । १३१ सप्तर्षयश्चैव - घ. । १३२ पर्वपर्वसु - घ. । १३३ पुरे - क., पुरं - घ. । १३४ तीर्थानि - घ. । १३५ तदा - घ., यदाने… - ख?. । १३६ पुण्यं क. । १३७ सर्वसु पर्वसु - घ. । १३८ पुरपस्थं - घ । १३९ पाशुपतीश्वरम् - क. । १४० च ता (वुभौ) - क. ख. । १४१ नलेश्वरम् - घ । १४२.. पास्थितम् - ख. । १४३… तास्पदम् - घ. । १४४ सकृदेव शुभानने - ख. । १४५ फलं चैव दक्षिणाभिः सहैव तु - ख. । १४६ मवाप्नोति - ख. । १४७ किन्त्वस्य परमं शुभम् - क. घ, परमस्ति वै - ख. ।
सर्वातयनमुख्यानां दिवि भूमौ गिरिष्वपि ।
नातः१४८ परतरं देवि१४९ बुध्यस्वास्तीति कृत्स्नशः१५० ॥९८॥ ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेश१५१ वित्ताधिपवायुभिश्च ।
गन्धर्वयक्षोरगसिद्धसङ्घैः सार्धं सदा सेवितमेतदग्र्यम् ॥९९॥

स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् ।
विशोकसं१५२ सिद्धिफलप्रदं हि प्रबुद्धतत्त्वा१५३ यतयो भजन्ति१५४ ॥ 8.29.१०० ॥ क्षेत्रेस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः१५५ ।
पश्यन्तोन्वहमादरेण शुचयः स्नाताः१५६ सदा मत्पराः ।
ते मर्त्या भयपापदुःखरहिताः१५७ संशुद्धकर्मक्रियाः ।
भित्त्वा सम्भवबन्धजालगहनं१५८ विन्दन्ति मोक्षं परम् ॥१०१ ॥

एवमेतत्१५९ सुरैःकीर्ण १६० नानाद्रुमलताकुलम्१६१ ।
जाह्नव्यालङ्कृतं पुण्यं क्षेत्रं गुह्यतमं मम ॥ १०२ ॥

भागीरथीमिहासाद्य वाराणस्यां ममास्पदे ।
अश्वमेधशतं प्राप्य ब्रह्मलोकं स१६२ गच्छति१६३ ॥ १०३ ॥

नातः पुण्यतमं देवि१६४ नातो गुह्यतमं क्वचित् ।
नातः शुभतरं किञ्चिन्नातः प्रियतरं मम ॥१०४॥

क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् ।
ख्यातो भवेत् सर्वसुरासुराणां मृतश्च यायात् परमं पदं तत्१६५॥ १०५॥

इति स्कन्दपुराणे ऊनत्रिंशोध्यायः