लोकान् - क । ७२ सर्वथा - घ । ७३ च - ख । ७४ सदा स्मरेत् - ख । ७५ नभः - क । ७६ दृष्टेन - ख । ७७ तेजसा - घ । ७८ सो - ख । ७९ मामर्चयते सदा - ख । ८० च्च - ख. । ८१. सर्जन- घ. । ८२ देव - ध. । ८३ पूजाविधानो नाम - घ. ।
सनत्कुमार उवाच
ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा ।
अपृच्छद् व्रतसम्बद्धम्१ फलं फलशतार्चिता२ ॥ १ ॥
व्रतानां फलमल्पं वा महद् वा यत् त्रिलोकप ।
व्रतं भवति३ यादृग् वा तत्४ प्रब्रूहि महेश्वर ॥२॥
देवदेव उवाच
महाफलं यद् भवति यच्चाप्यल्पफलं शुभे५ ।
व्रतं यादृक् च यत् प्रोक्तं तच्छृणु६ त्वमनिन्दिते ॥३ ॥
चतुर्दश्यां तथाष्टम्या७मुभयोः पक्षयोः शुचिः ।
संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः ॥४॥
सत्रयाजिफलम्८ यच्च सत्यवागृतुगामिनाम् ।
तच्चैव९ फलमाप्नोति यमञ्चैव न पश्यति ॥५॥
शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः ।
स तप्यत्यानखाग्रेभ्यो१० नित्यं यो मां समाश्रितः११ ॥६॥
मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते ।
लोकास्तस्याक्षया देवि यद्यपि स्यात् स१२ पापकृत् ॥७॥
पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः ।
स त्रिरात्रफलं१३ देवि अहोरात्रेण विन्दति ॥८॥
संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः१४ ।
निवेद्य पितृदेवेभ्यः पृथिव्या१५ मेकराड् भवेत् ॥९॥
नवमी१६ मष्टमीं१७ चैव पौर्णमासों१८ त्रयोदशीम्१९ ।
यो भुङ्क्ते देवि नैतेषु२० सुपर्वसु२१ नरः समाम् ॥8.28.१०॥
अपत्यव्रतसम्बद्धं - ख.,.. सम्बन्धं - ख. । २. समार्चिता - क., सदार्चिता - घ. । ३ स्तुवन्ति - घ. । ४ तच्च - ख. ५ भवेत् - ख. । ६ तच्छृणुष्व - क । ७ चतुर्दश्यामखाष्टम्या - क. । ८ सप्तरात्रिफलं यत्र - घ. । ९ तदैव - ख., तयैव घ. । १० क्रीडमानो नमास्यो - घ., नखाग्रेण - ख. । ११ मामनुव्रतः - ख. । १२ सु - ख. । १३ स त्रिफल? - क. । १४ जितेन्द्रियः - घ. । १५… ?वी - क. । १६ अष्टमी - क । १७. मीं - क. । १८… ?? - तत्र, -चतुर्दशी - घ. । १९,.. शी - क. । २० एतेषु - क. । २१ संयतस्तु - ख. ।
गाणपत्यं स लभते निस्सपत्नमनिन्दिते ।
भूतानां दयितश्चैव२२ दिव्यं रूपं बिभर्ति च ॥११॥
श्रीवत्सं यश्च२३ पिष्टेन दद्याद् हेमफलं२४ शुभम् ।
किरेत् कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च ॥ १२॥
फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः ।
स वै वर्षसहस्राणि द्विषष्टि दिवि मोदते ॥ १३ ॥
दिव्यरूपधरः श्रीमान् देवतैस्सह नित्यशः ।
हिरिवेरमयीं२५ यो मे दद्यात् प्रतिकृतिं स्वकाम् ॥ १४॥
सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् ।
भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् ॥ १५॥
पूर्वदक्षिणयोश्चात्र२६ पश्चिमोत्तरयोस्तथा ।
पार्श्वेषु हरितालञ्च कृष्णागरुमनःशिलाम् ॥ १६ ॥
चन्दनं चैव दद्याद्वै यथासङ्ख्येन पूजितम् ।
तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि ॥ १७॥
सर्वव्याधिविनिर्मुक्तस्तथा२७ निष्कल्मषश्च ह ।
वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् ॥ १८॥
इह लोके सुखी जातो मामेव प्रतिपद्यते ।
रत्नावलिं तु यो२८ दद्याद् ब्राह्मणः क्षत्रियोथ विट् ॥ १९॥
शूद्रः स्त्री वा स मे२९ लोके मत्सौख्यं प्राप्नुते परम् ।
सिद्धार्थकाँश्चाघोरेण३० दैवे पित्र्येथ वा पुनः ॥ 8.28.२० ॥
त्रिंशद्वर्षसहस्राणि३१ तर्पयेत् स३२ पितॄनपि ।
ऋषींश्च सर्वदेवांश्च रूपञ्चाप्नोति पुष्कलम्३३ ॥ २१ ॥
मन्वन्तरञ्च गोलोके गोकन्याभिः स३४ पूज्यते ।
सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च ॥२२॥
ञ्चैव - घ । २३… च्च - क. घ. । २४ धर्मफलं - ख. । २५ हरिवेरमयी - क., शालिपिष्टमयीं - घ. । २६… पि - ख. । २७ मुक्तो यथा - घ. । २८ वक्तारं निर्णयो - घ. । २९ मां - क, समो - ख. । ३०.. काश्च अर्घेण - घ. । ३१ त्रिषड्विंशत्… - क. । ३२ स्व,.. - घ. । ३३… लां - क. ख. । ३४ त्र.. - ख. ।
कुर्वन्त्यर्घ्ये हि सान्निध्यं तेभ्यस्तद्धि विनिःसृतम् ।
गुह्यमेतत् परं देवि यो वेत्ति स३५ महातपाः ॥२३ ॥
तस्य प्रभावाज्जायेत धनवान् प्रियदर्शनः ।
प्रज्ञारूपगुणैर्युक्तः३६ संवत्सरशतायुषः३७ ॥२४॥
क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः३८ ।
अपराधसहस्रन्तु क्षमे३९ तस्याहमन्तशः४० ॥२५॥
यश्च४१ तत्४२ स्नपनं पश्येत् स तत्पापैः४३ प्रमुच्यते ।
मानसस्य च जप्यस्य सहस्रस्य फलं लभेत्४४ ॥२६॥
संवत्सरं तु यः कुर्यात् क्षीरेण स्नपनं शुचिः४५ ।
गाणपत्यं स लभते बल्लभत्वं च नित्यशः ॥२७॥
सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः ।
द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् ॥२८॥
अभिगम्यश्च -देवानां स भवेच्च४६ नरोत्तमः ।
निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् ॥२९॥
सम्मार्जनं च४७ यः कुर्यात् संवत्सरमनुव्रतः ।
वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् ॥8.28.३० ॥
सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि ।
लिङ्गपूजां४८ तु यः कुर्यान्मम देवि दृढव्रतः ॥३१ ॥
शतं वर्षसहस्राणि दिव्यानि दिवि मोदते ।
चतुर्ण्णां पुष्पजातीनां गन्धमाघ्राति शङ्करः ॥३२ ॥
अर्कस्य करवीरस्य बिल्वस्य च बकस्य४९ च ।
सुवर्णनिष्कं पुष्पे तु५० सर्वस्मिन् देवि५१ कथ्यते ॥ ३३॥
सहस्रे त्वर्कपुष्पाणां५२ दत्ते यत कथ्यते५३ फलम् ।
एकस्मिन् करवीरस्य दत्ते पुष्पे हि तत् फलम् ॥३४॥
सु… - ख. । ३६ युक्तं - क. घ. । ३७… युतम् - क. घ. । ३८ त्रि ? ख ३८ ? - घ. । ४०. गः - घ. । ४१ यच्च - क ख. । ४२ तं - क. ख. ग. । ४३ सर्वपापैः - - ख. घ. । ४४ भवेत् - क. । ४५ शुचि - ख. । ४६ भद्रं - क., भवेत - ख । ४७.. त्तु - ख. । ४८ लिङ्गपूरं - क., लिङ्गं पूर्व - घ. । ४९ बुकस्य - क । ५० पुष्पैस्तु - ल., पुष्पं तु - घ. । ५१… न्नेव - ख. घ. । ५२ सहस्रै स्त्वन्यपुष्पाणां - ख., सहस्रै त्वन्य… - क. । ५३ यत्कथितं - ख. ।
करवीरसहस्रस्य भवेद्दत्तस्य५४ यत् फलम् ।
तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते ॥३५॥
पद्मानां च५५ सहस्रस्य मम दत्तस्य यत् फलम् ।
तत्फलं लभते पत्रे दत्ते बिल्वस्य शोभने५६ ॥३६॥
बिल्वपत्रसहस्रं तु दत्ते मे यत् फलं स्मृतम् ।
बकपुष्पे५७ तदेकस्मिन् मम दत्ते लभेत्फलम् ॥३७॥
बकपुष्पसहस्रस्य मम दत्तस्य यत् फलम् ।
पुष्पे दत्ते तदेकस्मिन् लभेद्५८ धत्तूरकस्य५९ तु६०. ॥३८॥
निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः ॥३९॥
स्वैरी चैव तथा मुक्तो६१ नियमैश्च बहिष्कृतः ।
नरके स६२ पतेद् घोरे तिर्यग्योनौ च सम्भवेत्६३ ॥8.28.४० ॥
ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
तस्य पापमहं शीघ्रं नाशयामि महाव्रते६४ ॥४१ ॥
दीपमालां तु यः कुर्यात् कार्त्तिके मासि वै मम ।
अवसाने च दीपानां६५ ब्राह्मणाँस्तर्पयेच्छुचिः६६ ॥४२॥
गाणपत्यं स लभते दीप्यते च रविर्यथा ।
दद्यात् कृष्णतिलाँश्चैव सहः६७ सिद्धार्थकाँश्च ह ॥४३॥
यो म्रे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् ।
ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये ॥४४॥
सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् ।
? ॥४५ ॥
-
-
-
-
- ऽ - - - - न ऽ - न - - ऽ (?) ।
चित्रो नाम गणो मह्यं तेन सार्धं स मोदते ॥ ४६ ॥
- ऽ - - - - न ऽ - न - - ऽ (?) ।
-
-
-
दत्ते भवति - घ. । ५५ तु - ख. घ. । ५६ तु सुशोभने - ख. । ५७ बुकपुष्पे - क. ख. । ५० लभते - घ. । ५९ बन्धुक… - घ. । ६० वै? - घ. । ६१ युक्तो - क. । ६२ न - घ. । ६३ दीप्यते च रविर्यथा - घ. । ६४… मते - घ. । ६५ दीपं दत्त्वा व्रतान्ते तु - ख. । ६६… च्छुचोन् - ख. । ६७ सदा - क. ।
सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसङ्क्षये ।
त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते ॥४७॥
न तुष्याम्यर्चितोर्चायां तथा देवि नगात्मजे ।
लिङ्गेर्चिते यथा६८ ऽत्यर्थं परितुष्यामि पार्वति ॥४८॥
सर्वेन्द्रियप्रसक्तो वा युक्तो६९ वा सर्वपातकैः ।
स प्रयाति दिवं देवि लिङ्गं योर्चयतीह मे ॥४९॥
त्यक्त्वा७० सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः ।
मदाशी७१ र्मन्नमस्कारो७२ मामेव प्रतिपद्यते ॥8.28.५०॥
सनत्कुमार उवाच
ततो भगवती भूयः पतिं सर्वजगत्पतिम् ।
अपृच्छत् पुष्प्यमाणा७३ स्या७४ केन त्वं देव७५ तुष्यसे७६ ॥५१ ॥
ततः प्रहस्यमानास्यः सर्वलोकेश्वरेश्वरः७७ ।
प्रोवाच भगवान् वाक्यं७८ लोकानां हितकाम्यया॥५२ ॥
देवदेव उवाच७९
शृणु देवि यथातत्त्वं८० येन यान्ति शुभां गतिम् ।
त्रैलोक्ये जन्तवः सव८१ मद्भक्ता ये शुभानने ॥५३ ॥
यत्तत्८२ परतरं गुह्यं तत् सर्वं मयि८३ तिष्ठति ।
यो हि तत्त्वेन तद् वेद संसारात्८४ स विमुच्यते८५ ॥५४॥
न च प्रकाशयेद् गुह्यं नाम८६ मे कीर्तयेन्नरः ।
सदा सर्वसहेत्येवं प्रातः८७ प्राञ्जलिरुत्थितः ॥५५॥
तस्माच्च८८ कीर्तनात् पापं सर्वमेव विनिर्दहेत् ।
यशः कीर्त्तिं च सम्प्राप्य रुद्रलोके महीयते ॥५६॥
सर्वमाल्यानि यो दद्यान् मम मूर्तिषु८९ नित्यशः ।
मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत्९० ॥५७॥
तथा- ख- । ६९ युतो घ । ७० कृत्वा घ । ७१ महाणी घ । ७२ मार्थ्यमत्प्राप्य घ, नमस्कारोपि यं कुर्यात् - ख., । योपि कुर्यान्नमस्कार? । ७३ पुष्यमाना - क., पुष्पमालास्या - ख., तुष्यमाना - घ. । ७४ सा - घ. । ७५ देवि - क. । ७६.. सि - ख. । ७७… देवेश्वरेश्वरः - - घ- । ७८ वचः प्रोवाच भगवान् - क. घ । ७९ देप्युवाच - ख. । ८०.. तथ्यं - घ । ८१ न तु सर्वेण - घ. । ८२ यद्यत् - घ. । ८३ त्वयि - क. ख. । ८४ स संसाराद् - घ. । ८५.. प्रमुच्यते - क. घ-, प्रवि.. - ख । ८६ नामतः - घ.,… स्ते - ख. । ८७ महेश्वरं प्रातः स्मरेत् - घ. । ८८ यस्माच्च - घ. । ८९ सर्वमूर्तिषु - क. घ. ९० शृणु - घ. ।
मन्त्रः९१
सर्वगाय सुरेशाय सर्वदेवमयाय च ।
नमो भगवते चैव गुह्यागुह्याय वै सदा९२ ॥ ५८ ॥
सोमाय९३ भूतनाथाय भावनाय भवाय च९४ ।
सर्वगुह्याय वै स्वाहा देवगुह्यमयाय९५ च ॥ ५९॥
सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव हि९६ ।
कटङ्कटाय वै९७ स्वाहा स्वाहा देवाय शुष्मिणे९८ ॥ 8.28.६० ॥
पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् ।
सहस्रं तेन९९ जाप्यस्य मानसस्य कृतं भवेत् ॥ ६१ ॥
अथा१००ञ्जलिममावास्यां सुसम्पूर्णां समाहितः ।
तिलानां चैव कृष्णानां सर्षपाणां च पार्वति ॥६२ ॥
अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति ।
इदं१०१ च वचनं कुर्यात्१०२ सूर्येति व ममेति च१०३ ॥६३ ॥
सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः ।
अर्चयित्वा च मां देवि ब्राहाणान्न च तर्पयेत् ॥६४॥
न तत्फलमवाप्नोति नाहं तुष्यामि तस्य वै ।
अर्चयित्वा द्विजान्मां च यो मे नामानि कीर्तयेत् ॥ ६५॥
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ।
सोपि देवि प्रमुच्येत वियोनिं न स गच्छति ॥६६॥
वामदेव सुदेवेति१०५ हर गुप्तेति वा पुनः ।
उमापते नीलकण्ठ शान्त१०६ श्रीकण्ठ गोपते ॥ ६७॥
शर्व१०७ भीम१०८ पशुपते१०९ शङ्करोग्र भवेति च ।
महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयन्११० ॥ ६८॥
अय मन्त्र - खः । ९२ गुह्यात्मने नमोस्तुते - घ । ९३ नमस्ते - घ । ९४ भवात्मने - क. । ९५ वेदगुह्याय - ख. । ९६ स्वाहा - ख । ९७ यैव? - क. घ । ९.८ देवाय शुष्मिने स्वाहा - ख । ९९ सहस्राशेन - क. । १०० अन्या? - घ । १०१ इय - क । १०२ ब्रूयात् - घ. । १०३ सूर्येज्योति- मयेति च - घ. । १०४ प्रपश्ये त - क. घ । १०५ वानुदेवेति - घ । १०२ श्रान्त - ख. । १०७ शर्वो - क., पार्वतीश - ध. । १०२ भीमः - क. । १०९ पशुपतिम्. - ख, पशुपते. - क. । ११०… येतु - क. ।
सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते ।
एतेषामेकमपि यः कथयेद्वा पठेत वा ॥६९॥
स देहपद्धतिं१११ भित्त्वा११२ मामेव प्रतिपद्यते ।
एवं११३ सर्व११४ प्रणामे च११५ यन्मया परिकीर्तितम् ॥8.28.७० ॥
अमावास्यान्तु यो नित्यं सघृतं गुग्गुलं दहेत् ।
क्षीरेण चैव सम्मिश्रं गुह्यमेतन्मम प्रियम्११६ ॥७१ ॥
सोच्युतं११७ स्थानमाप्नोति मत्प्रसादान्न संशयः ।
इदं च परमं गुह्यं यो मे देवि निवेदयेत् ॥७२॥
अर्कपत्रयुतं पूर्णं घृतेन११८ मधुना सह११९ ।
निवेद्य विधिवद् भक्त्या सर्वपापैः प्रमुच्यते ॥७३ ॥
इमानि च महाभागे यो मे नामानि कीर्तयेत् ।
श्मशाननिलयो नग्नो भस्मशायी१२० यतव्रतः ॥७४॥
वामदेवः प्रशान्तश्च स्तब्धशेप१२१ स्त्रिलोचनः ।
अ?सव्यप्रियः१२२ सव्यो बहुरूपोन्तकान्तकृत्१२३ ॥७५॥
पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः ।
अनिन्द्रियोतीन्द्रियश्च सर्वभूतहृदि स्थितः ॥७६॥
संसारचक्री योगात्मा कापाली दिण्डिरेव च ।
महादेव१२४ महादेव महादेवेति चैव हि ॥७७॥
जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः ।
स देहभेदमासाद्य योगात्मा गणपो भवेत् ॥७८॥
सनत्कुमार उवाच
-
-
-
-
- —- - - - - - - - - ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥७९॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
बन्ध घ । ११२ भित्वाशु - घ । ११३ एकं ग, ११४ ? प्रमाण - घ । ११५ न - खे., ते. घ. । ११६ प्रिये - क. घ. । ११७ सोतमं - ख. । ११८ घृतस्य - क, घृत च - घ. । ११९ मधुनश्च. ह - क. । १२०. .स्नायी - घ. । १२१. शेत? - घ. । १२२ अप सव्यप्रिय? - ध. । १२३… न्तकोन्तकृत्- क. । १२४,. .वो - क. घ. ।
नाशुभाय१२५ न पापाय नानृतायाव्रताय च९२६ ।
श्रावयेद् भक्तिमान् पुण्यान्नापेताय१२७ कदाचन ॥8.28.८० ॥
धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् ।
पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् ।
श्रोतव्यं न च सर्वेण१२८ तथा देयं न कस्यचित् ॥८१ ॥
इति स्कन्दपुराणे ईश्वरपूजानाम१२९ अष्टाविंशतितमोध्यायः