२७

सनत्कुमार उवाच
अथ तस्मिन् सुखासीनौ शैलजावृषभध्वजौ१ ।
आसने काञ्चने दिव्ये नानारत्नोपशोभिते ॥ १ ॥

अथाचलसुता देवी सुखासीना विभावरी ।
सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् ॥२॥

भगवन् देवतारिघ्न चन्द्रावयवभूषण ।
कथयैतन्मम विभो यत्त्वां पृच्छामि मानद ॥ ३ ॥

किं फलं तव देवेश लभन्ते भक्तवत्सल२ ।
भक्ता ये फलमुद्दिश्य३ कुर्वते४ तन्न? किञ्चन ॥४॥

सनत्कुमार उवाच
स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः ।
अवोचत् सर्वमव्यग्रो देवदेवः शुभाशुभम् ॥५॥

व्यास उवाच
किन्तत् स भगवान् देवः प्रीयमाणो महातपाः ।
प्रणयात् स तथा५ देव्या पृष्टो कथयदव्ययः ॥६॥

सनत्कुमार उवाच
मयाप्येतत् पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः ।
यथोक्तवान् मयि ब्रह्मन् तथा तत्कथयामि ते ॥७ ॥

शैलात्मजावृषध्वजौ - क., शैलजासवृष - ख । २ भक्तिवत्सल - ख,.. वत्सला - घ.,… लाः - क. ख. । ३ फलमद्दिश्य - घ. । ४ कुर्वीत - घ । ५ तदा - ख. ।
गणेशान६ पतिं शूरं सूर्यायुतसमप्रभम्७ ।
अपृच्छमहमव्यग्रो८ नन्दीश्वरमतिद्युतिम्९ ॥८॥

ईशेन यत् पुरा देव्याः कथितं गणसत्तम१० ।
तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे ॥९॥

नन्द्युवाच११
श्रूयतामभिधास्यामि पृच्छतस्ते महामुने ।
देवदेवेन पार्वत्या यत् पुराभिहितं१२ हि तत् ॥ 8.27.१० ॥

देवदेव१३ उवाच
श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते ।
हिताय देवि भक्तानां पृष्टस्तत्१४ कथयामि ते१५ ॥ ११ ॥

प्रसादं यस्तु मे देवि शुभ्रं१६ कुर्यादनिन्दिते ।
विदधाम्यर्जुनं१७ तस्य गृहं शिवपुरेक्षयम् ॥ १२ ॥

विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च१८ यः ।
मया सहासौ चरति१९ नित्यमष्टगुणान्वितः ॥१३ ॥

काञ्चनं त्रुटिमात्रं वा यो दद्याद् बहु वा मम२० ।
तस्य हैमवते२१ शृङ्गे ददामि२२ गृहमुत्तमम् ॥ १४॥

यो मे गां वा२३ हिरण्यं वा दद्यादविमनाः प्रिये ।
लोकान् ददाम्यहं२४ तस्मै सर्वकामसमन्वितान् ॥ १५॥

वृषभं यः प्रयच्छेन्मे श्वेतं२५ नीलमथापि वा ।
स कुलानामुभयत२६स्तारयेदेकविंशतिम् ॥ १६॥

गोचर्मद्वयसां वापि यो२७ मे दद्याद्वसुन्धराम् ।
स मे पुरं२८ समासाद्य गणेशैः सह मोदते ॥ १७॥

महाभाग - ख. । ७… प्रभः - ख । ८ महदव्यग्रो - क. । ९ महाद्युतिम् - ख । १० पुण्य नि… च - ख. । ११ नन्दीश्वर उ - खे. । १२ विहितं - घ., कथितं - ख. । १३ देव उ - ख. । १४… स्ते - क. घ. । १५.. म्यहं - घ. । १६ दिव्यं - घ. । १७ न्यक्षयं लोकं - क. । १८… त्तु - घ. । १९ चरते च मया सार्धं - ख । २०… दपि वा बहु - ख., बहुधा - घ । २१.. तः - क. । २२. .दानि- क. ख. । २३ तु - घ, गास्तु - क. ख., वास्तु? । २४.. न्यहं - क. ख., दास्याम्यहं - घ. । २५… त - ख. ध., प्रयच्छेत - ख. । २६ मङ्ङ्गलानामुभयत - घ. । २७ द्वयमात्रं यं कश्चिद्यो - ख. । २८ सोमे - क., सोमेश्वरं - घ. ।
यो मे पुण्यफलं२९ दद्यादात्मना पूर्वमर्जितम्३० ।
सोनन्त३१ फलमाप्नोति मोदते३२ च त्रिविष्टपे ॥ १८ ॥

योनुयानं३३ चतुर्दश्यां कृष्णायां३४ कुरुते मम ।
रथेन वृषयुक्तेन मम लोके स मोदते ॥ १९॥

महिमानोपचारैश्च यो मां जप्यैश्च पूजयेत् ।
ददामि३५ ब्रह्मणो लोके३६ वासं तस्य सुपूजितम् ॥ 8.27.२० ॥

मनसा चिन्तयेद् यश्च३७ पूजयेयमहं हरम् ।
अशक्तो नास्ति च३८ द्रव्यं यस्य नित्यं सुमध्यमे ॥२१ ॥

स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः ।
मम लोकमवाप्नोति भिन्ने३९ देहे न संशय. ॥ २२ ॥

स्नातो४० यः पूर्वसन्ध्यायां सदा मामभिगच्छति४१ ।
स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् ॥२३ ॥

सम्मार्जनं पञ्चशतं सहस्रमुपलेपनम् ।
गन्धाश्च दशसाहस्रा अनन्तं४२ चार्चनं स्मृतम् ॥ २४ ॥

अभ्यङ्गोष्टशतं चैव स्नपनं त्रिशतं भवेत् ।
गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च ॥ २५ ॥

क्षीरं पञ्चगुणं देवि तस्माद् भूयश्च४३ कापिलम् ।
तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा ॥२६ ॥

क्षमामि देवि चास्याहमपराधान् बहूनपि ।
भस्माभिषेकमानन्त्यं४४ गुह्यं चैव मम प्रिये४५ ॥२७॥

अगुरुर्दशसाहस्रं षट्४६ साहस्रं तु चन्दनम् ।
चतुर्दशसहस्राणि धूपः कालागरोः स्मृतः ॥ २८॥

अक्षया४७स्तण्डुलयवाः शालयो द्विशताः स्मृताः ।
आनन्त्यो गुग्गुलुश्चैव सहाज्येन४८ सुधूपितः४९ ॥ २९॥

पुष्प - घ । ३० पुण्यमर्जितम् ख, पूर्णमा?.. - क घ. । ३१ स्त्व? - क । ख। ३२ पूज्यते ख, घ। ३३ योन्नपानं - घ । ३४ कृ रणाय? - क ख । ३५ ऽ मे? - क घ । ३६ लोकेषु - ख. । ३७ नित्यं - ख. । ३८ मे - ख. । ३९.. न्न. - क । ४० स्नात्वा - ख । ४१ नामुपगच्छति - ख. । ४२ आनन्त्यं - कृ. । ४३ दूर - घ. । ४४… स्म कुर्याद् - -क. । ४५ चैतन्ममेप्सितम् - क । ४६ स - क. ख घ । ४७ ता - घ. । ४८ सहान्येन - क. । ४९ सुपूजितः - क ।
द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् ।
देवि संवत्सरं५० पूर्णं समे नन्दिसमो भवेत् ॥8.27.३० ॥

दक्षिणायान्तु यो मूर्तौ पायसं सघृतं शुभे ।
निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् ॥३१॥

चरवो दशसाहस्रा५१ यावकश्च चतुर्गुणः५२ ।
शेषाश्च चरवः सर्वे यावकार्धेन सम्मिताः५३ ॥३२॥

घृतपात्र५४मसङ्ख्येयमिह प्रेत्य च शाश्वतम् ।
प्रीणाति च पितॄन् सर्वान विमाने चैव मोदते ॥३३॥

छत्रं पताकानिचयं शोभयित्वा५५ ददाति यः ।
सोपि सन्दीप्यते५६ भूयो रविवत्तेजसा दिवि ॥३४॥

उभौ पक्षौ त्रयोदश्या५७ मष्टम्यां चोपवासिकः५८ ।
उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते ॥३५॥

ददाम्यस्य५९ स्वकं६० लोकं तुष्टोहं देवि शाश्वतम् ।
रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि ।
पूजितोहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् ॥३६॥

एकरात्रं च यो मर्त्यो दीपं धारयति६१ स्थितः ।
सर्वयज्ञफलं तस्य ददाम६२ श्रियमेव च ॥ ३७॥

मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः६३ ।
न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः ॥३८॥

ध्यानिनो६४ योगयुक्ता६५ ये सत्यधर्मपरायणाः ।
एकाग्रमनसो दान्ता६६स्ते मां पश्यन्ति६७ नित्यदा६८ ॥३९॥

ये मे भक्ताः सदा चैव साङ्ख्ययोगविशारदाः ।
सर्वं६९ पश्यन्ति मयि च मां च सर्वत्र योगतः७० ॥8.27.४०॥

द्विवत्सरस्तु - घ । ५१.. स्रं - क.,.. स्या - घ । ५२ ण - क। ५३ सयुगा (ता) - घ. । ५४.. .पाक - घ. । ५५ शोभां कृत्वा - घ. । ५६ सन्दीपयेत् - घ. । ५७ चतुर्दश्या - घ. । ५८… नः - घ. । ५९… न्यस्य - क. ख. । ६० स्वयं - क. । ६१ कारपीत?- ख. । ६२.. नि - क ख. । ६३. पिण्डिताः - क. । ६४ छपायिनो?- क. । ६५ नित्ययुका?- क. घ. । ६६ भूत्वा - घ. । ६७ न्ति?- घ । ६८ मां बुधाः - ख । ६९ सर्वे - घ । ७० यो गतं - क ख. घ. ।
त्रींल्लोकान् समतिक्रम्य ब्रह्मलोकं तथैव च ।
गच्छन्ति मम ते लोकं७१ तमो भित्वा सुदुर्भिदम् ॥४१ ॥

न शक्योस्म्यतपोयुक्तैर्द्रष्टुं मुनिगणैरपि ।
ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः ॥४२॥

एतानि चैव सर्वाणि कृत्वा कर्माणि सुन्दरि ।
मनसा सुप्रशान्तेन मैनः? करुणचेतसा ॥४३ ॥

काञ्चनं भूमिगोदानं विप्रे च प्रतिपादयन् ।
रुद्रो मे प्रीयतु इति ह्यतुलं फलमश्नुते ॥४४॥

यानि लोकेषु तीर्थानि देवतायतनानि च ।
पादयोस्तानि सुश्रोणि सदा सन्निहितानि मे ॥४५॥

ब्राह्मणानां तथा चैव करे दक्षिणतः स्थिताः ।
यो मां सर्वगतं चैव सर्वं च७२ मयि पश्यति ॥४६॥

मय्यर्पितमना नित्यं तथा मद्भावभावितः ।
ममैव स७३ प्रभावेन सर्वपापैः प्रमुच्यते ॥४७॥

सर्वथा वर्तमानोपि देवि यो मां स्मरेत्सदा७४ ।
ऽज्ये
कल्मषेण न युज्येत नरः७५ कर्ता कदाचन ॥४८॥

सर्वावस्थोपि पापात्मा ज्ञाननिऽद्रेन७६ चेतसा७७ ।
यो ऽभ्यर्चयति भां .नित्यं स ममात्मसमो भवेत् ॥४९॥

षडङ्गेन च योगेन यो मामभ्यर्चयेत्सदा७९ ।
प्रविशेत स९० मां क्षिप्रमत्र नास्ति विचारणा ॥8.27.५०॥

योप्यसज्जन८१रतो वियोनिजः पातकैरपि समन्वितस्सदा ।
सोपि मद्गतमना मदर्पणो याति देवि८२ गतिमप्रतर्किताम् ॥५१ ॥

इति स्कन्दपुराणे ईश्वरार्चनविधि८३ सप्तविंशतितमोध्यायः