०२६

सनत्कुमार उवाच
एवं नन्दीश्वरो व्यास उत्पन्नोनुचरश्च ह ।
अभवद् देवदेवस्य सेनापत्येभिषेचितः ॥ १ ॥

व्यास उवाच
देव्या सहाथ भगवानासीनस्तत्र कामदः ।
अकरोत् किं महादेव एतदिच्छामि वेदितुम् ॥२ ॥

सनत्कुमार उवाच
भगवान् हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया ।
गणेशैर्विविधाकारैर्हासं सञ्जनयन्मुहुः ॥३ ॥

देवीं बालेन्दुतिलको रामयञ्च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥४॥

अथ देव्याससादैका१ मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्रे स्वाद२सने परमार्चिते ॥५॥

साथ३ दृष्टवा सतीं देवीमागताम्४ शुभरूपिणीम्५ ।
आसनेन महार्हेण सम्भावय६ दनिन्दिताम् ॥६ ॥

आसीनां तां च७ सोवाच मेना हिमवतः प्रिया ।
चिरस्यागमनं ह्यद्य८ तव९ पुत्रि शुभेक्षणे ॥७॥

दरिद्रक्रीडनैस्तेद्य१० भर्ता११ क्रीडति१२ सङ्गतः१३ ।
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥८॥

भं - क. ख. घ. । १०८ मम स्यात् - क. ख. घ. ।
देवी गता तत्र - घ. । २ वा - घ. । ३ अथ - क । ४ ततो दे वीमा? तता - घ. । ५ तु सुरूपिणीम् -ख., तत्र - घ. । ६ सम्पायय - क. ख., सङ्घाद - घ. । ७ तु - घ. । ८ कृत्यं - घ. । ९ कृतं (?) । १० स्त्वं हि - ख. घ. । ११ भर्त्रा - क. (घ) । १२.. सि - क. ख. घ. । १३. . ता - क. ख. घ. ।
सनत्कुमार उवाच
सैवमुक्ता तु मात्राथ नातिहृष्टमना१४ भवत् ।
महत्या क्षमया युक्ता१५ न किञ्चित्तामुवाच ह ॥९॥

विसृष्टा सा तदा१६ मात्रा गत्वा देवमुवाच ह ।
भगवन्देवदेवेश नेह१७ वत्स्यामि भूधरे१८ ।
अन्यं वृणु ममावासं भुवनेश महाद्युते ॥8.26.१० ॥

देवदेव उवाच
सदा त्वमुच्यमाना वै मया वासार्थ१९ मीश्वरि२० ।
अन्यत्र२१ रोचितवती नावासं देवि२२ कर्हिचित् ॥११ ॥

इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।
कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥१२॥

देव्युवाच
गृहं गताहं देवेश पितुरद्य महात्मनः ।
दृष्टा२३ च मे तत्र माता विजने लोकभावनी२४ ॥१३॥

आसनादिभिरभ्यर्च्य सा मामेवमभाषत ।
उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे२५ ॥ १४॥

क्रीडते न हि२६ देवानां क्रीडा भवति तादृशी ।
यत्किल त्वं महादेव गणैस्तै२७र्विविधैः शुभैः ।
रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ १५॥

सनत्कुमार उवाच
ततो देवः प्रहस्याह देवीं हासयितुं२८ प्रभुः ।
एवमेतन्न सन्देहः कस्मान्मन्युरभूत्तव॥११॥

कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह ।
अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च ॥१७॥

नैव द्रष्टुमना - घ. । १५ मुक्ता - क. । १६ तथा - ख । १७ नहि - क । १८ भूतले - ख. । १९ वासार्ध- क. । २०… री - क. । २१ … न्न - घ. । २२ वासदेवीति - घ. । २३. ष्ट्या - क ख घ । २४… विनी - क., वन - घ. । २५ शुभैः - क. ख. घ. । २६ ननु - घ. । २७ गणेशै - क. । २८ हाय यितु? - क. ।
विचरामि गणैर्नग्नैर्वृतोम्भोजविलोचने ।
मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव ।
नहि मातृसमो बन्धुर्जन्तूनामस्ति शोभने ॥ १८॥

देव्युवाच
न मेस्ति बन्धुभिः किञ्चित्२९ कृत्यं३० सुरवरेश्वर ।
तथा कुरु महादेव यथान्यत्र वसामहे३१ ॥ १९॥

सनत्कुमार उवाच
स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः ।
पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् ॥8.26.२० ॥

गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् ।
शून्या३२ कुरु महाबाहो उपायेनैव मा बलात् ॥२१ ॥

तत्र राजा निवसति३३ दिवोदासः प्रतापवान् ।
धार्मिको मम भक्तश्च महायोगी महाबलः ॥ २२ ॥

सर्वं३४ तथा गतः कुर्या यथा३५ स्मै नापराध्यसे३६ ।
तस्यैव चापराधेन शून्यां३७ वाराणसीं३८ कुरु३९ ॥ २३ ॥

सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तम४० ।
उवाच देवं४१ प्रणतः प्राञ्जलिर्हषिताननः४२ ॥ २४॥

तथा करिष्ये देवेश यथा स हि नराधिपः ।
भविष्यत्यपराधीश४३ त्वं च तुष्टो भविष्यसि ।
शून्या वाराणसी चैव भविष्यति न संशयः ॥२५॥

सनत्कुमार उवाच
एवमुक्त्वा निकुम्भोसौ प्रणम्य शिरसा हरम् ।
जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः ॥ २६॥

कार्यं - घ । ३० किञ्चित् - घ । ३१… म्यहम् - घ । ३२ शून्यं - क., ख, श्रुत्वा - घ. । ३३ ते - ख. । ३४ त्वं - घ. । ३५. .. द्यथा - क. ख. घ. । ३६. धसे - घ. । ३७ शून्या - ख. । ३८. सीं - घ. । ३९ भवेत् - ख. । ४० सप्तम - तत्र । ४१ चेदं च - घ । ४२.?? ईषित नन - क । ४३ च - क. ।
तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः ।
मण्डूकाक्षाय४४ रूपं च स्वं तस्यादर्शयत्तदा ॥२७॥

निकुम्भउवाच
मण्डूकाक्ष निकुम्भोहं गणपः शोकनाशनः४५ ।
तवानुग्रहकृत् प्राप्तो यद् ब्रवीमि कुरुष्व तत् ॥२८॥

दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् ।
स्थापयस्व च तत्रार्चा मद्रूपसदृशीं शुभाम् ॥२९॥

वित्तं च ते प्रदास्यामि पुत्रान् सौभाग्यमेव च ।
प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः ॥8.26.३०॥

सनत्कुमार उवाच
एवमुक्तो निकुम्भेन नापितो नृपतिं तदा ।
गत्वावदद् दिवोदासमिन्द्र४६ वैवस्वतोपमम् ॥३१ ॥

नापित उवाच
स्वामिन् तव गृहद्वारि करिष्ये गणपालयम् ।
स्थापयिष्ये गणेशञ्च तन्मेनुज्ञातुमर्हसि४७ ॥३२॥

तथेति सोप्यनुज्ञात४८श्चक्रे तत्र४९ तदालयम्५० ।
प्रत्यस्थापयदर्चाञ्च यादृशं५१ दृष्टवानसौ ॥३३ ॥

तस्य पूजां च महतीं प्रावर्त्तयत५२ शोभनाम्५३ ।
गणेशस्य महासत्वः स च तां प्रत्यगृह्णत ॥३४॥

सनत्कुमार उवाच
स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् ।
पशूँश्चैव हि पुत्रांश्च सौभाग्यं चाददत् प्रभुः५४ ॥३५॥

तस्य तां वृद्धि५५ मतुलां नापितस्याभिवीक्ष्य तु ।
आरिराधयिषुर्लोकस्तस्य पूजां५६ चकार ह ॥३६॥

रप्याय - क ख घ. । ४५ शकनाशनः - क. । ४६. मिन्द्रं ( दम्) - क. । ४७ तन्मे ज्ञातुमिहार्हसि - घ. । ४८ त ( स?) मनुज्ञात - ख. । ४९ ते च - घ. । ५० तमालयम् - घ. । ५१… शी - क. घ. । ५२ प्रावर्तत - ख । ५३ सुशो… - ख. । ५४ हिरण्यञ्च पुत्रान् सौभाग्यमेव च - ख. । ५५ वृत्ति - ख. । ५६ पूजां तस्य - घ. ।
चक्रु र्यात्रास्तथा केचिदुपवासान् तथापरे ।
होमं जप्यं५७ तथैवान्ये पूजां चान्ये५८ वरार्थिनः ॥३७॥

उपहाराँस्तथैवान्ये गीतं५९ नृत्तं तथापरे ।
तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः ॥३८॥

ददौ सर्वानभिप्रायान् ये ये तेषामभीप्सिताः६० ।
एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा ॥ ३९॥

उवाच महिषीं व्यास कदाचित् पुत्रलिप्सया६१ ।
देवि सर्वानभिप्रायान् जनेभ्योयं प्रयच्छति ॥8.26.४० ॥

गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय ।
सैव६२मुक्ता६३ तदा गत्वा गणेशं प्राप्य शोभना ॥४१ ॥

उवाच भगवन् देव अनपत्याहमीश्वर ।
उपवासं करिष्यामि तव देवाभिराधने६४ ॥४२॥

तावन्न भोक्ष्ये यावन्मे वरो दत्तस्त्वया प्रभो ।
जाते च पुत्रे दास्यामि शतानां दशतीर्दश ॥४३ ॥

त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर ।
तथा६५ घटसहस्स्रेण दध्नश्चैव घृतस्य च ।
क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते ॥४४॥

ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् ।
पुरस्ताद् भोजयिष्ये ते पुत्रे जाते न संशयः ॥४५॥

बहून् दास्यति राजा च६६ ग्रामान् दासी६७स्तथैव च ।
सदा सत्रञ्च पूजां च करिष्यति तव प्रभो ॥४६॥

सनत्कुमार उवाच
सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता ।
सोपवासा तदा६८ पूजां महतीं तस्य कुर्वती ॥४७॥

जाप्यं - ख. । ५८ पूजाश्चान्ये - क. । ५९… त - क. ख. । ६०.. तान् - क. । ६१.. काम्यया - घ. । ६२ सैबं बुद्धा - घ. । ६३… क्त्वा - क ख । ६४ तवाराधनसुव्रता - ख. । ६५ तदा - क. । ६६ न ( े) - ख. । ६७ दास्य - क. ख. । ६८. तथा - घ. ।
तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः ।
उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः ॥४८ ॥

एवं तेन गणेशेन निकुम्भेन महात्मना ।
असकृत् प्रोच्यमाना सा नियमाद् विरराम ह ॥४९ ॥

ततो नराधिपं देवी प्रोवाच विमना६९ तदा ।
आर्यपुत्र न मे पुत्रं गणपोसौ प्रयच्छति ।
ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः ॥8.26.५० ॥

सनत्कुमार उवाच
एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः ।
सदा सनियम७० स्तस्थौ गणेशस्याग्रतो नृपः७१ ॥५१ ॥

तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् ।
मा स्था७२ वृथेह नृपते न ते पुत्रं ददाम्यहम् ॥५२॥

एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः ।
क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् ॥ ५३ ॥

राजोवाच
गणो वा त्वं पिशाचो वा भूतो वा राक्षसोपि वा ।
कृतघ्नस्त्वं न सन्देहो न त्वं पूजामिहार्हसि ॥५४॥

मम चैव गृहद्वारि पौरैश्चैव समर्चितः७३ ।
विषये मम वासी च७४ न च७५ पुत्रं प्रयच्छसि ॥ ५५ ॥

पूजार्हो न भवाँस्तस्मान्मत्तो दण्डं त्वमर्हसि ।
नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः ॥५६॥

सनत्कुमार उवाच
ततोस्य भेदयामास निलयं गजयूथपैः ।
स्थण्डिलं च बभञ्जाशु७६ ददाहार्चां७७ च सुप्रभाम्७८ ॥५७॥

विमला - घ. । ७० नियमवान् - घ. । ७१ स्थितः - ख. । ७२ त्वं - घ, वृथा नियमं कावी ( र्षीः) - ख. । ७३ समर्थितः - ख. । ७४ त्वं - घ. । ७५ मे - ख. । ७६ चकाराशु - क, घ. (चकर्ता?) ७७ गृहमर्चा - ख., तदा शौ (सो) र्चा - घ । ७८ त्वप्रभाम् - घ., सुप्रभम् - ख. ।
निकुम्भोपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः ।
उवाच तं७९ दिवोदासं प्रदहन्निव८० तेजसा ॥५८ ॥

यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम् ।
न दत्तो यद्यसौ कोपः कस्तत्र भवतोभवत्८१ ॥५९॥

यस्मान्ममालयो भग्नस्त्वया निरपकारिणः८२ ।
तस्माद् वर्षसहस्रं८३ ते पुरी शून्या भविष्यति ॥8.26.६० ॥

सनत्कुमार उवाच
स एवमुक्त्वा राजानं निकुम्भः परमात्मवान्८४ ।
देवेशाय निवेद्यैवं८५ तस्थौ पार्श्वगतः प्रभोः ॥६१ ॥

राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि ।
व्रीडा परां समासाद्य८६ गृहानभ्यगमत्८७ तदा ॥६२ ॥

अथ सा तेन शापेन पुरी वाराणसी तदा ।
शून्या समभवत् क्षिप्रं विशुद्धा मृगसेविता ॥६३ ॥

तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् ।
सगणो नन्दिना सार्धमाजगाम८८ महाद्युतिः ॥६४॥

स तत्र८९ मानसं दिव्यं विमानं सूर्यवर्चसम् ।
अनौपम्यगुणं देवो मनसैव विनिर्ममे९० ॥६५ ॥

सनत्कुमार उवाच
न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् ॥ ६६॥

देवोद्यानानि रम्याणि९१ नन्दनाद्यानि यानि तु ।
तेभ्यः श्रेष्ठतमं९२ श्रीमदुद्यानमसृजत्९३ प्रभुः ॥६७॥

च - घ । ८० प्रहसन्निव - घ. । ८१ भवेत् - घ । ८२ निरयकारिणः घ, मेनपराधिनः ख। ८३… सहस्रां - क. । ८४… नाम् - ख. । ८५.. व - घ. । ८६ समभवत् - ख.,.. मनुभवन् ? । ८७ व्यगमत् - घ., … गमुत्तमम् - क, गमच्च तान् - क. टि. । ८८ सार्ध जगाम स - क. । ८९ तदा - घ. । ९०… वाभिनिर्ममे - क.,… निर्मिमे - क रव्र. । ९१… नि - क. । ९२ श्रेष्ठतरं - ख. । ९३ शीमानुद्यानमसृजत् - क ।
तस्मिन् विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये ।
रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचः स्वमातुः ॥ ६८ ॥

इति स्कन्दपुराणे वाराणसीशून्यकरणं नाम षड्विंशोध्यायः