०२५

देवान् मे गणाँ - क. । ७२ आदिदेव - घ. । ७३ ततः - घ. । ७४ शङ्खा - घ. । ७५ भिर्य– घ. । ७६ विषाणिकाम् - क., कोविषाणिकं - घ. । ७७ राय - घ । ७८ लोकः - घ. । ७९ मम सलोकताम् क., तस्य - घ. । ८० प्रलपन्ति - घ., प्रजपन्ति? । ८१ महा… - क. घ. ।
सनत्कुमार उवाच
ततस्तत्रागतान्देवो[^१] देवताधिपतिर्भवः ।
मरुतः प्राह सम्पूज्य[^२] कन्यार्थं सद[^३] सत्पतिः ॥ १ ॥

मरुतो[^४] ये महावेगा महासत्वा महौजसः ।
आमन्त्र्य नाम्ना तानीशः सशक्रः[^५] सपितामहः[^६] ॥ २ ॥

युष्माकं सुयशां कन्यां सनसाम्[^७] दिव्यरूपिणीम् ।
दातुमर्हथ सम्पूज्य[^८] स्नुषा सा नौ भविष्यति[^९] ॥ ३ ॥

मरुत[^१०] ऊचुः
त्वमस्माकं च तस्याश्च[^११] सर्वस्य जगतस्तथा ।
प्रभविष्णुस्त्रिलोकेश न[^१२] नो याचितुमर्हसि ॥४॥

त्वयैव देया[^१३] ग्राह्या च त्वन्नो गतिरनुत्तमा ।
मा नः परानिवेशान याचनेन विभावय ॥५॥

पिता नः कश्यपः श्रीमान् मरीचिश्च पितामहः ।
पितामहपिता ब्रह्मा तस्यापि त्व पिता महान्[^१४] ।
स त्वं पितामहोस्माकं न परान् कर्त्तुमर्हसि ॥ ६॥

ईश्वर उवाच
अस्माकं न परा यूयं सत्यं वः परिभाषितम् ।
किन्तु लोकहितार्थाय मुनिदेवैः प्रभाषितम् ।
अदत्ता न गृहीतव्या कन्या[^१५] धर्मः सनातनः ॥७॥

सनत्कुमार उवाच
स एवमुक्तो[^१६] देवेशो मरुद्भिर्देवसत्तमैः ।
सुयशां मरुतां कन्यामानयामास[^१७] तत्क्षणात ॥८॥

देवान् - क. । २ सङ्कल्प्य - घ. । ३ शर्व - क । ४ मा -ता - घ., इतः पूर्व देवदेव उ इति क. पु. । ५… क्रान - ध. । ६… हान? - घ । ७ ? - घ । ८ तां पुत्रीं - घ. । ९ मह्यं बलाबलाः - घ. । १० मारुता - घ. । १ । रस्यःञ्च? - घ । १२… त्वं - घ- । १३ देव - घ. । १४ पितामह - क । १५ धन्या घ. । १६ एवमुक्तोथ - घ । १७,.. मासयामास - घ. ।
स्वयं होतास्य[^१८] तत्रासीद् ब्रह्मा लोकपितामहः ।
कश्यपश्च[^१९] तथोद्गाता अत्रिः साम[^२०] स्वयं जगौ ॥ ९॥

अथर्वाङ्गिरसौ[^२१] देवौ[^२२] ब्रह्मत्वमपि चक्रतुः[^२३] ।
नारदः पर्वतश्चैव चित्रसेनश्च गायनः ॥ 8.25.१० ॥

विश्वावसु रुचि[^२४] श्चैव हाहा हूहूस्तथैव च ।
तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः ॥ ११ ॥

ईतिश्चैवेन्द्रवाहश्च[^२५] यज्ञवाहोथ दक्षिणः ।
एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः ॥ १२॥

उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि[^२६] ।
तिलोत्तमा च विश्वाची अन्याश्चाप्सरसस्तथा[^२७] ॥ १३ ॥

अनृत्यन्त[^२८] महाभागा नृत्तं सुरमनोहरम् ।

                                • ॥ १४। ॥

                              • ॥ १५॥

सनत्कुमार उवाच
स एवमभवद् व्यास विवाहस्तस्य धीमतः ।
नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः ॥ १६ ॥

ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः ।
पादौ ववन्दे देवस्य देव्या ब्रह्मण एव च ।
शिलादस्य च लोकेशः श्रिया[^२९] परममया युतः ॥ १७॥

देवदेव उवाच
वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया ।
वरान[^३०] ददामि[^३१] ते वत्स मनसा यानभीप्ससे[^३२] ॥ १८॥

च घ । १९ काश्यपश्च - क. । २० सूक्तं - घ । २१.. मो - क. । २२ देवो - क । २३ मभिचक्रतुः - घ । २४ तद्गुरुः सुरुचि - घ । २५ चैवेन्द्रचापश्च - घ । २६ वपुरित्यपि - घ. । २७. सः शुभा - ख. । २८… त्तन्त - क. । २९ प्रिया - ख., प्रीत्या - घ. । ३० वरं - क. ख. । ३१… नि - क, । ३२ अनया सह (म) मीप्सित - ख., मीप्सितं - घ. ।
नन्द्युवाच
भगवन् यदि तुष्टोसि त्वयि भक्तिर्दृढास्तु मे ।
सदा च तुष्टो भव मे साम्बः सहगणेश्वरः[^३३] ॥ १९॥

पितरञ्चैव मे देव उत्पादकमिमं प्रभो ।
अनुग्रहेण युक्तेन योक्तुमर्हसि कामद ॥8.25.२० ॥

देवदेव उवाच[^३४]
सदाहं तव नन्दीश सुतुष्टः[^३५] सगणेश्वरः ।
पार्वत्या सहितो धीमन्निदञ्च शृणु मे वचः ॥ २१ ॥

सदेष्टश्च वरिष्टश्च परमैश्वर्यसंयुतः[^३६] ।
महायोगी महेष्वासो महाबलपराक्रमः ॥ २२॥

अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव ।
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥२३ ॥

यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।
अयञ्च ते पिता पुत्र[^३७] परमैश्वर्यसंयुतः ॥२४॥

भविष्यति गणाध्यक्षो महागणपतिर्मम ।
विमानं[^३८] चास्य[^३९] वैभ्राजं कामगं सर्वकाञ्चनम् ॥२५॥

उपेतं भवनैर्दिव्यैः[^४०] प्रयच्छामि जनावृतम्[^४१] ।
तेनायं[^४२] सर्वलोकेषु चरिष्यति यथेप्सितम् ॥२६ ॥

स्थानं श्रीपर्वते[^४३] चास्य भविष्यति सुपूजितम्[^४४] ।
भृगौ तस्मिँश्च यः प्राणाँस्त्यक्ष्यते वै सुधार्मिकः ।
स कामचारी वैभ्राजे गणपोस्य भविष्यति ॥२७॥

सनत्कुमार उवाच
ततो देवी महाभागा शैलादेर्वरयद्[^४५] वरम् ।
सोब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥२८ ॥

रः - ख. ध. । ३४ ईश्वर उ - क । ३५ सन्तुष्टः - घ. । ३६ संयतः - घ । ३७ विप्रः - घ. । ३८ पर्वतं - क. ख. ध. । ३९ चापि - घ. । ४० दिव्यं - ख. । ४१ जलावृतम् - ध. । ४२ ततश्च - क. । ४३ श्रीपर्वतं - घ. । ४४ प्रपूजितम् - घ. । ४५ वरदा - क., रददा - ख., रदद - घ ।
ततो मरुत्सुता चैव उभाभ्यामभि[^४६] चोदिता ।
वरान्[^४७] वृणु यथेष्टं वै ताविदं प्रत्युवाच ह ॥२९॥

युवयो[^४८]रस्तु भक्तिर्मे तथा भर्त्तरि चैव हि ।
नित्यं चानपगा स्यान्मे धर्मे च मति[^४९]रुत्तमा ।
एतमिच्छामि[^५०] देवेशौ वरं वरसहस्रदौ ॥ 8.25.३० ॥

सनत्कुमार उवाच
ततस्ता एव[^५१] मेतत्ते भवितेति शुचिस्मिते ।
ऊचतुर्मुदितौ देवौ स्नुषान्तां वरवर्णिनीम् ॥ ३१ ॥

नारायणं समालोक्य ब्रह्माणं च तथा हरः ।
अद्यप्रभृति नन्दीशो युवाभ्यामादृतः सदा ॥३२ ॥

प्रभुत्वेन हि देवानां प्रतीहारत्वमेष्यति ।
युवयोर्मयि या भक्तिस्तथा स्नेहोथ नन्दिनि ॥ ३३ ॥

                                  • (?) ।
    • – - - - - - - - - – ॥ ३४। ॥

एवं भवतु देवेश नात्र कार्या विचारणा ।
गणाश्चास्य ततोभ्येत्य सर्वे देवप्रियेप्सया[^५२] ॥ ३५॥

वरं ददुर्महासत्वाः स वव्रे काञ्चनप्रभः ।
युष्मासु मम भक्तिश्च ऐश्वर्यञ्चापि सम्मतम् ।
वन्द्याश्च[^५३] यूयं सर्वे मे प्रियो युष्माकमेव च ॥३६॥

गणा[^५४] ऊचुः
भवान् यन्ता[^५५]नुमन्ता च गतिरागति[^५६]रेव च ।
अस्माकमीशः सर्वेषां देवानामपि चेश्वरः ॥३७॥

कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः[^५७] ।
ईतीनां द्वारपालश्च प्रमथानां तथैव च ॥३८॥

पि - क. घ. । ४७ वरं - घ. । ४८ आवयो - क. । ४९ रति - घ. । ५० दिच्छामि - क. ख. घ. । ५१ वेव - ख. । ५२… वः - क. टि. । ५३ वन्ध्या - घ., पश्या - क.,वन्द्या । ५४ गणपा - घ. । ५५ मन्ता - क. । ५६ र्वा गति - घ. । ५७ महामनाः - ख. ।
महाबलो महायोगी सेनानीस्त्वं हि नो मतः[^५८] ।
त्वं भूतो भूतनेता च नायकोथ[^५९] विनायकः ॥ ३९॥

ग्रहाणामधिपश्चैव रुद्रदण्डधरस्तथा[^६०] ।
त्वमग्रयोधी[^६१] शत्रुघ्नस्त्वं वीर[^६२]स्त्वं दिवस्पतिः ॥8.25.४० ॥

महानुभावस्त्वञ्चैव क्षीरोदनिलयश्च ह ।
जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ॥४१ ॥

भावनः[^६३] सर्वभूतानां वरदो वरदाचितः[^६४] ।
अस्माकं वरदश्चैव भव भूतेश्वर प्रभो ॥४२॥

सनत्कुमार उवाच
स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरः प्रभुः[^६५] ।
उवाच प्रणतः सर्वान् ब्रूत[^६६] किं करवाणि वः[^६७] ॥४३ ॥

त एवमुक्ता गणपाः सर्व एव महाबलाः ।
ऊचुस्तं दिव्यभावज्ञा देवदेवस्य सन्निधौ ॥४४॥

त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना ।
अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः[^६८] ॥४५॥

स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि ।
क्षमा[^६९] शौचदमोपेतो भव नः प्रियकृत् सदा ॥४६॥

सनत्कुमार उवाच
एवमुक्तस्तदा सर्वान् प्रणम्य बहुमानतः ।
शिरस्यञ्जलिमाधाय[^७०] गणपानस्तुवत्तदा ॥४७॥

नन्द्युबाच
नमो वः सर्वभूतेभ्यो नमो योगिभ्य[^७१] एव च ।
नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमो नमः[^७२] ॥४८॥

नो ह्यनुत्तमः - ख. । ५९ स्वात्मा नोथ - क । ६० उग्रदण्डधरस्तथा - ख. । ६१ योगी - क. । ६२ धीर - क. । ६३ भवनः - क । ६४ वरदान्वितः - ख., वरदर्पितः - घ । ६५ रो विभुः - ख. । ६६ भूत - ख. । ६७ ते - क. घ. । ६८ धर्मनायकः - घ. । ६९ शम - घ. । ७० मादाय - घ. । ७१ योगेम्य कः - घ. । ७२ नमस्तथा- क ।
नमः कामचरेभ्यश्च नम उग्रेभ्य एव च ।
मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः ॥४९ ॥

नमः काञ्चनमालेभ्यः सर्वधर्मभ्य[^७३] एव च ।
नमो वो वधःकृद्भ्यश्च[^७४] अवध्येभ्यस्तथैव च ॥ 8.25.५० ॥

नमः परमयोगिभ्यो[^७५] जटिभ्यश्च नमो नमः ।
नमो वो दृश्यरूपेभ्यो विकृतेभ्यस्तथैव च ॥५१ ॥

नमो वल्कलत्रासोभ्यः[^७६] कृत्तिवासोभ्य[^७७] एव च ।
नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः ॥ ५२ ॥

धावद्भ्यश्च द्रवद्भ्यश्च संस्थितेभ्यो नमो नमः ।
नमो मुनिभ्यो[^७८] गायद्भ्यो जपद्भ्यश्च नमो नमः ॥५३ ॥

नमः शरभरूपेभ्यः शतरूपेभ्य[^७९] एव च ।
नमः पर्वतरूपेभ्यो[^८०] व्याघ्ररूपेभ्य८१ एव च ॥ ५४॥

नमो मार्जाररूपेभ्यः८२ काकोलूकेभ्य८३ एव च ।
नमो दैवतरूपेभ्यः८४ पवनेभ्यस्तथैव च ॥५५ ॥

नमोग्निभ्यस्तथाद्भ्यश्च८५ वरुणेभ्यस्तथैव च ।
नमो धनेशरूपेभ्यः सर्वरूपेभ्य८६ एव च ॥५६ ॥

नमश्चोदरवक्त्रेभ्यः? सर्ववक्त्रेभ्य एव च ।
नमो वामनरूपेभ्य कामरूपेभ्य८७ एव च ॥ ५७॥

देवासुरमनुष्याणामाप्यायिभ्यो८८ नमो नमः ।
नमो वः सर्वदेवानां८९ नमो वः सर्वतः शुभाः ॥५८ ॥

ग्रहेभ्यश्च नमो वोस्तु मोक्षेभ्यश्च नमस्तथा ।
शुभेभ्यश्च नमो वोस्तु अशुभेभ्यस्तथैव च ।
मम सौम्या शिवाश्चैव भवन्तु गणनायकाः ॥५९॥

धमिभ्य - ख. । ७४ वधकेभ्य– - ख । ७५ योगेभ्यो - क. । ७६.. सेभ्यः - क. ख. । ७७ कृत्तिवासेभ्य - क ख. । ७८ यक्षेभ्यो - ख । ७९ सर्वरूपेभ्य - घ. । ८०… वासेभ्यो - घ. । ८१.. सिंहेभ्य - क-,.. सघेभ्य - घ. । ८२.. रूपिभ्य - घ । ८३ काककोकेभ्य - ख., बकरूपिभ्य - घ. । ८४ देवतरूपेभ्यः - क. । ८५.. पेभ्यो - ख.,… दिग्भ्य - घ । ८६.?. रूपिभ्य - ख. । ८७ वामरूपेभ्य - ख. । ८८.? मुपायिभ्यो - घ. । ८६… भूतानां - ख. ।
इति स्तुता गणपतयो महाबलाः
शुभैर्वचोभिः सुरशत्रुनाशनाः ।
दिशन्तु मे सुखमतुलं सुखप्रदा
बलञ्च वीर्यं स्थिरताञ्च संयुगे ॥ 8.25.६० ॥

तपो९० क्षयं स्थानमथातुलां गतिं
यशस्तथा बहु धर्मनित्यताम्९१ ।
दिशन्तु सर्वं मनसेप्सितञ्च मे
सुरेश्वराः पुष्टिमनुत्तमां तथा ॥६१ ॥

सनत्कुमार उवाच
इमौ९२ नन्दिगणेन्द्राणां स्तवौ योध्येति नित्यशः ।
सोश्वमेधावभृथवान्९३ सर्वपापैः प्रमुच्यते ॥६२॥

सन्ध्यायामपरस्यान्तु९४ जपन् पापं दिवाकृतम् ।
पूर्वस्याँ९५ च जपँश्चापि९६ सर्वं रात्रिकृतं क्षिपेत्९७ ॥ ६३ ॥

सनत्कुमार उवाच
ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता ।
विसृष्टाश्च९८ तदा९९ जग्मुः प्रणिपत्य वृषध्वजम्१०० ॥६४॥

देवाश्च सर्वलोकाश्च ततो देवः१०१ स्वयं भवः१०२।
सृष्ट्वा१०३ नन्दीश्वरगृहं१०४ प्रदाय च महामनाः१०५ ॥६५॥

ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ।
य इदं१०६ नन्दिनो जन्म वरदानं तथैव च ॥६६॥

अभिषेकं विवाहश्च पठेद् वा श्रावयीत वा ।
ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् ॥६७ ॥

मम ( ।)..? - ध. । ९१ वित्तसञ्चये - घ. । ९२ नमो - ख । ९३… वत् - क. ख.,… भृथं च - ध. । ९४ रात्र्यां तु - क । ९५ पूर्वसध्यां - क. । ९६ सन्त्यजेद्वापि - ख घ. । ९७ जपन्. ख, घ. । ९८ निसृष्टाश्च - क. । ९९ तथा - ख । १०० च सन्धितम् - घ. । १०१ देवाः - घ. । १०२ भुवः - घ., प्रभुः - ख. । १०३ स्तुत्वा - घ. । १०४ नन्दीश्वरं गृह्य - ख. । १०५… त्मना - क. ख. । १०६ इमं - क. ख. ।
यो नियतस्तु पठेत् प्रयतात्मा सर्वमिदं१०७ प्रणतो भवभक्त्या ।
सोपि गतः परलोकविचारी नन्दिसमोनुचरो हि - - -१०८ ॥६८ ॥

इति स्कन्दपुराणे नन्दिकेश्वरमहाभाग्यं नाम पञ्चविंशतितमोध्यायः