सनत्कुमार उवाच
ते गणेशा[^१] महासत्वाः सर्वदेवश्वरेश्वरम्[^२] ।
प्रणम्य देवदेवञ्च[^३] इदं वचनमब्रुवन् ॥ १ ॥
भगवन् देवतारिघ्न देवदेवाम्बिकापते ।
किमर्थं वयमाहूता आज्ञापय कृतं हि तत्[^४] ॥२॥
सरैः - घ. । ८९ संवरा - घ । ९० सिहा? - घ. । ९१ भास्करा. घ ।
गणेशाश्च - घ. । २ सर्वे देवासृरेश्वराः - घ. । ३ दे तदेवं च - घ. । ४ गहत्? - घ. ।
किं सागरान् शोषयाम यमं वा राहु किङ्करैः ।
हन्म मृत्युं च कालं च[^५] न भवत्यस्य कोप्यज ॥३॥
बद्ध्वेन्द्रम्[^६] सह देवैश्च सविष्णुं सह वायुना ।
आनयाम सुसङ्क्रुद्धा दैत्यान् वा सह दानवैः ॥४॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वा[^७]द्योत्सवं देव सर्वकामसमृद्धिमत् ॥५॥
तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः ।
उवाच देवः सम्पूज्य गणान्[^९] गणपतिर्भवः ॥६॥
देवदेव उवाच
शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ।
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ॥७॥
नन्दीश्वरोयं पुत्रो नः सर्वेषामीश्वरेश्वराः[^१०] ।
प्रियो[^११]ग्रनायकश्चैव सेनानीर्वः समाहितः ॥८॥
तमिमं मम सन्देशाद्यूयं सर्वेभिसम्मताः[^१२] ।
सेनान्यमभिसिञ्चध्वं[^१३] महायोगपतिं पतिम् ॥९॥
अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः ।
प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः ॥8.24.१०॥
सनत्कुमार उवाच
एवमुक्ते भगवता गणपाः सर्व एव ते ।
एवमस्त्विति सम्मन्त्र्य सम्भारानाहरँस्ततः ॥११॥
तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् ।
आसनं मेरुसङ्काशं मनोरममथाहरन् ॥१२॥
शातकुम्भमयञ्चापि चारुचामीकरप्रभम् ।
मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥१३॥
मृत्युमुतामृत्युन्न- क. । ६ महेन्द्र - घ. । ७ चा… - घ । ८ कार्यं - क । ९ सर्वान् - घ । १०.. र - क. । ११ यं - घ. । १२ तिसम्मताः - घ. । १३ सेनापत्येमिसिञ्चध्वं - घ. ।
स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् ।
चातूरक्तकसंयुक्तं[^१४] मण्डपं विश्वतो मुखम् ॥१४॥
कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ।
तस्याग्रतः पादपीठं नीलं वज्रावभासितम् ॥ १५ ॥
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ।
सम्पूणौ[^१५] परमाम्भोभिररविन्दावृताननौ ॥१६॥
अग्रतोग्निं समाधाय[^१६] वृषभञ्चापि पार्श्वतः[^१७] ।
सवत्सां सुरभिञ्चापि तस्य पार्श्वेथ दक्षिणाम्[^१८] ॥ १७॥
छत्रं शतशलाकं च जाम्बूनदमयं[^१९] शुभम्[^२०] ।
शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥१८॥
व्यजनं चन्द्रशुभ्रञ्च हेमदण्डं सुचारुमत् (?) ।
मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥१९॥
आनिन्युस्तत्र गणपा नन्द्यावर्त्ताँश्च काञ्चनान् ।
पुनर्वसुञ्च पुष्यञ्च द्वौ मत्स्यौ वरुणालयौ ॥8.24.२० ॥
स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् ।
कीचका वेणवश्चैव कन्याश्चैवाभिपूजिताः ॥ २१ ॥
ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ ।
ध्वजञ्च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम् ॥२२ ॥
कलशानां[^२१] सहस्रञ्च काञ्चनानां सुवर्चसाम् ।
राजतानां सहस्रञ्च पार्थिवानां तथैव च ॥ २३ ॥
ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् ।
वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥२४॥
मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा ।
कुण्डले चामले दिव्ये वज्रञ्चैव वरायुधम्[^२२] ॥ २५ ॥
चानु .. - क, चातु - - क- टि, चारुदण्डैः सुसंयुक्तं - घ. । १५ सुपूणौ - घ. । १६ समादाय - क. । १७ … वः - घ । १८ .णे घ । १९ जम्बूनदमयं - क. । २० ततं - घ. । २१ शलाकानां - क. । २२ … वाकरायुधम् - क., परा - घ. ।
पट्टिशञ्च महद्दिव्यं शूलं चाशनिमेव च ।
जाम्बूनदमयं[^२३] सूत्रं केयूरद्वयमेव च ॥२६ ॥
हारञ्च मणिचित्राङ्गं रोचना रुचकं[^२४] तथा ।
नलभा[^२५] पारियात्रं[^२६] च वर्णं(?)२७ कङ्कण[^२८]मेव च ॥२७ ॥
दर्भाँश्च दिव्यान् समिध आज्यं धूपमथापि च ।
समन्तान्[^२९] निन्युरव्यग्रा गणपा देवसम्मताः ॥२८ ॥
ततो दिशः समुद्रा[^३०]श्च वरुण - - - - - ३१ ।
नभोग्निर्वसवश्चैव[^३२] चन्द्रादित्यौ ग्रहैस्सह ॥२९॥
तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा[^३३] ।
रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥8.24.३० ॥
गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा ।
पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥३१ ॥
वृक्षाश्च बीरुधश्चैव ओषध्य[^३४]श्च महाबलाः ।
नद्यः सर्वाः समाजग्मुर्वसवश्चैव[^३५] सर्वशः ॥३२ ॥
लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च ।
भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥३३ ॥
तीर्थानि चैव सर्वाणि दानानि विविधानि च ।
ऋचो यजूंषि सामानि अथर्वाङ्गिरसा अपि[^३६] ॥३४॥
यज्ञाश्च क्रतवश्चैव इष्टयो नियमा[^३७]स्तथा ।
छन्दांसि चैव सर्वाणि[^३८] पिशाचा देवयोनयः ॥३५॥
ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ।
प्राचीं प्रतीचीं ये रुद्रा दक्षिणामुत्तरं तथा ॥३६॥
अधश्चोर्ध्वं च ये रुद्राः साध्याः[^३९] पितर एव च ।
तेष्वागतेषु सर्वेषु भगवान् गोवृषध्वजः ॥३७॥
पट्ट? - क. । २४ रोमानां कवचं - घ. । २५ जलतां - घ. । २६ परिहार्य - घ. । २७ कर्ष - घ. । २८ कङ्किण - क. । २९ समन्त्रा ( न) ( न्त्र्य?) - क. । ३० सपाला? । ३१ वरुणो धनदो यमः? । ३२ वृक्षाश्च वीरूधश्चैव - घ. । ३३ आदित्याः सर्वशस्तथा - घ. । ३८ वारिण्यौषध्यो घ. । ३५ परम - घ. । ३६ वपि - क. घ. । ३७ इष्टीः सनियमा क. । ३८ च यथार्हाणि - घ. । ३९ आजग्मुस्ते - घ. ।
सर्वं कार्यविधिं कर्तुमादिदेश पितामहम् ।
एकैकं कलशं तत्र सर्वौषधिसमन्वितम् ॥३८॥
कृत्वाद्भिः पूरयित्वा च कुशेशययुगावृतम्[^४०] ।
जयाञ्च विजयाञ्चैव सिंहीं व्याघ्रीं तथैव च ॥ ३९॥
सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ।
कुमारीं चन्द्रकान्ताञ्च मृतसञ्जीवनीमपि ॥8.24.४० ॥
आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ।
तथा कुमुद्वतीं चैव प्राक्षिपँस्ते तथौषधीम्[^४१] ॥४१ ॥
पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ।
सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च ॥४२॥
दानानि चैव सर्वाणि भगवान् सन्न्यवेशयत् ।
राजतेषु च कुम्भेषु मन्त्राँश्छन्दांसि चैव ह ॥।३ ॥
क्रतुमत्यश्च[^४२] विविधा इष्टीः काम्यान् तथेतरान् ।
औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा ॥४४॥
तपांसि नियमाँश्चैव भगवानभिविन्यसन्[^४३] ।
एकैकं कलशं तत्र अभिपूर्या[^४४] भिमन्त्र्य च ॥४५ ॥
वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ।
स जग्राह तदा ब्रह्मा एकं कलशमात्मना ॥४६॥
विष्णवे च ददावेकमेकमिन्द्राय धीमते ।
गणपेभ्य[^४५]स्तथा चान्यानृषिभ्यश्च पितामहः ॥४७॥
ततः श्रेष्ठासने[^४६] तस्मिन्नुपवेश्य महामनाः ।
अर्चयित्वा तु तं[^४७] ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥४८॥
ततो विष्णुस्ततः[^४८] शक्र ऋषयश्च सहामरैः ।
गणाधिपाश्च ते सर्व[^४९] अभ्यषिञ्चन्त नन्दिनम् ॥४९ ॥
मुखावृतम् - क., युतो… - घ. । ४१ वनौषधीः - घ. । ४२ क्रतुं यज्ञांश्च - घ., ऋतुमत्याश्च - क. । ४३ नभ्यविन्यसत् - क., नेत्य - घ. । ४४ अभिपूज्या - घ. । ४५ गणसेना - क., गणेशेभ्य? । ४६ श्च ष्वा (स्वा) सने - क. । ४७ ततो - क, । ४८… स्तथा - घ. । ४९ सर्वे ते - क ।
वासोयुगं च तद्दिव्यं[^५०] गन्धान्दिव्याँस्तथैव च ।
केयूरे[^५१] कुण्डले[^५२] चैव मुकुटं हारमेव च ॥8.24.५० ॥
पट्टिशं शूलवज्रं च अशनी[^५३] च ददौ स्वयम् ।
छत्रं जग्राह देवेन्द्रो[^५४] वायुर्व्यजनमेव च ।
ऋषयस्तुष्टुवुश्चैनं[^५५] पितामहपुरोगमाः ॥५१ ॥
विष्णुरुवाच (?)
नमः कुष्माण्डराजाय[^५६] वज्रोद्यतकराय च ।
शालङ्कायनपौत्राय[^५७] हलमार्गोत्थिताय च ॥५२॥
शिलादस्य च पुत्राय रुद्रजप्यपराय[^५८] च ।
रुद्रभक्ताय देवाय नमोन्तर्जलशायिने ॥५३ ॥
गणानां पतये चैव भूतानां पतये नमः ।
उमापुत्राय देवाय शिवलब्धवराय च ॥५४॥
रुद्रस्य प्रियपुत्राय पट्टिशायुधधारिणे[^५९] ।
नमो दंष्ट्राकरालाय ललाटनयनाय च ॥५५॥
प्रमथाय[^६०] वरेण्याय[^६१] ईशानायार्पिताय[^६२] च ।
द्वाराध्यक्षाय शूराय रुद्राय वरदाय च ॥५६ ॥
नमः सर्वार्थसिद्धाय सुयशां[^६३] पतये नमः ।
नमः प्रवरमालाय[^६४] क्षीरोदनिलयाय च ॥५७॥
महागणाधिपतये महायोगेश्वराय च ।
दिण्डिमुण्डाय[^६५] चण्डाय एकाक्षररताय च ॥५८॥
अक्षयाया[^६६] व्ययायैव[^६७] अजराया[^६८] मराय[^६९] च ।
पशूनां पतये चैव जेत्रे[^७०] मृत्योस्तथैव च ॥ ५९॥
तथा दिव्यं -घ । ५१ रं -घ । ५२- ल-घ। ५३ मसनी -घ –नी -क। ५४ चैवास्य - क. । ५५.. व - क. । ५६ पतये - घ । ५७ गोत्राय - घ. । ५८ कराय - ध., तराय - क । ५९ ग्राय वै नमः - घ । ६० प्रथमाय - क. । ६१… नां (?) । ६२ मिताय - ध. । ६३ स्वयशां - घ, । ६४ मानाय - घ. । ६५ दान्तक्षताय - घ । ६६ अक्षराय - घ. । ६७ मृतायैव - क. । ६८ अजयाय - क. । ६९ व्ययाय - क. । ७० जैत्रे - क. ।
नमः पवनवेगाय सर्वज्ञायाजिताय च ।
अनेकशिरसे चैव अनेकचरणाय च ॥8.24.६० ॥
किरीटिने कुण्डलिने महापरिघबाहवे ।
सर्वान्[^७१] देवगणाँश्चैव पाहि देव[^७२] नमोस्तु ते ॥६१ ॥
सनत्कुमार उवाच
एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने ।
प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥६२॥
ततो गणा जयेत्यूचुस्ततो देवास्ततो[^७३] सुराः ।
ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥६३ ॥
ततः शङ्खाँ[^७४]श्च भेरी[^७५]श्च पटहाडम्बराँस्तथा ।
वंशाँश्च पणवाँश्चैव कृकवान् गोविषाणकान्[^७६] ॥६४॥
डिण्डिमान् वेणुकाँश्चैव मर्दलाँश्चैव सर्वशः ।
अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ ६५ ॥
सनत्कुमार उवाच
नन्दीश्वरस्य[^७७] य इमं स्तवं देवाभिनिर्मितम् ।
पठेत सततं मर्त्यः[^७८] स गच्छेत् तत्सलोकताम्[^७९] ॥ ६६॥
नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् ।
तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ ६७॥
यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः ।
न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ ६८॥
नन्दीश्वरं ये प्रणमन्ति[^८०] मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्वाः ।
ते देवदेवस्य सहाद्रिपुत्र्या[^८१] इष्टा वरिष्ठाश्च गणा भवन्ति ॥६९ ॥
इति स्कन्दपुराणे नन्दीश्वरस्तवभ्रतुर्विंशतितमोध्यायः