यस्मात् सुवर्णान्निः सृत्य - क-, तकुण्डलादेको - घ. । ४३ यतः साक्षात्प्रवर्तित॥ - घ । ४४ जाम्बूनदमयाद् घ? । ४५ न्मु.. - क, त त् मू.?.. - घ. । ४६ भा ( त्) - क । ४७ ऊचुः - क. । ४८ जम्बू… - क. । ४९ नदीं च ताम् - घ. । ५० मेतेषां - घ, मेतस्य? । ५१ जटोदयान् - क ., ?जटावन - घ. । ५२ तञ्च - घ. । ५३ भ्यर्चय - क. । ५४ जनुः - घ. । ५५ प्राणान् - घ । ५६… था - घ । ५७ तिष्ठते मत्पुरेदार पुरद्वारि?) यावदाभूतसम्प्लवम् - घ. । ५८ त्वष्टा… - क । ५९ कान्ति.. - क. । ६० यो मां नरः स्नापयति पञ्चनद्यां जहाति देहं विधिवच्च तासु । इत्युत्तरार्धत्वेन दत्तः पाठो घपुस्तके । ६१.. .शतिमो - क. ।
सनत्कुमार उवाच
भगवान् देवदेवेशः सर्वभूतपतिर्हरः ।
देवीमुवाच वागीश उमां गिरिवरात्मजाम् ॥ १ ॥
देवि[^१] नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम् ।
गणाना[^२]वाहयिष्यामि किं वा त्वम्[^३] मन्यसेव्यये[^४] ॥२॥
देव्युवाच
सप्तलोकाधिपत्यं च गणेशानां तथैव च ।
सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः[^५] ॥३ ॥
सनत्कुमार उवाच
ततः स भगवान् देवः सुरशत्रुनिषूदनः ।
प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा[^६] ॥४॥
ततस्सहस्रशस्तत्र गणाध्यक्षा मुदा युताः ।
सम्प्राप्ताः सर्वलोकेशास्तत्क्षणाच्च[^७] महामुने[^८] ॥५॥
सम्प्राप्ताः सर्वलोकेशा ये रुद्राः स्वर्गवासिनः ।
अन्ये रुद्रवरा व्यास येषां सङ्ख्या न विद्यते ॥६॥
ब्रह्माण्डावरणा ये च अहिर्बुध्न्यादयो[^९] मुने ।
कपालांशिविशोकाश्च शतनेत्राः शताननाः[^१०] ॥७॥
अनन्तरुद्रा ये चान्ये शतवक्त्राः शतोदराः ।
सर्वतः पाणिपादाश्च सर्वदिक्षु समाश्रिताः ॥८ ॥
अणिमादिगुणैर्युक्ता ब्रह्मसम्भूतिहेतवः ।
सम्प्राप्ताः सर्वलोकेशास्ताञ्छृणुष्व[^११] महामुने ॥९॥
ततः करालवदनो[^१२] भृकुटीभूषिताननः[^१३] ।
शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्वी त्रिलोचनः ॥ 8.23.१० ॥
देवी - क । २ नां - क । ३ त्र घ । ४ उमे - घ । ५ महा.. - क. । ६ त्ततः - घ. । ७ तच्छृणुष्व - क । ८ महात्मने - क. । ९ अजब्रध्न - घ. । १० सनातनाः - घ. । ११ ये शृ… - घ. । १२ दशनो - घ. । १३ भ्रुकुटीभीषणाननः - घ. ।
जटासहस्रोर्ध्व[^१४] शिखो[^१५] ज्वालाकेशो महाहनुः[^१६] ।
अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः ॥ ११ ॥
विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः ।
सर्पयज्ञोपवीती च परश्वधधरस्तथा ॥ १२॥
भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः ।
निनादान् संसृजानश्च[^१७] अशनीपातसन्निभान् ॥ १३ ॥
डिण्डि[^१८] रित्येव विख्यातो गणपः समदृश्यत ।
आत्मनः सदृशानाञ्च कोटिभिर्दशभिर्वृतः ॥१४॥
गणपानां सुरेशानां योगिनां दीप्ततेजसाम् ।
ततोपरो महाकेशो महाकायोर्ध्वमेहनः ॥ १५॥
त्र्यक्षोनलशतप्रख्यः अशनीपातनर्दनः ।
नृत्यन् गायँश्च चित्राणि कुर्वन्नाट्या[^२०] न्यनेकशः ॥ १६ ॥
ज्वलद्दंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् ।
कोटिभिर्दशभिस्सार्धं द्विगुणाभिर्महात्मनाम् ॥ १७॥
गणानां चित्ररूपाणां युगपत् सम्प्रदृश्यत ।
सिंहास्यगजकेशास्यै[^२१] द्वीम्पिशार्दूलकाननैः[^२२] ।
सोषाढिर्नाम[^२३] गणपो व्यास तत्र समागतः ॥ १८॥
सनत्कुमार उवाच
अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः ।
शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः ॥ १९॥
अतिदीर्घोतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः ।
वृत्तास्यश्च[^२४] महाक्षश्च भृकुटीसंहताननः ॥8.23.२० ॥
पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च ।
दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः ॥२१ ॥
स्रार्?ध - घ. । १५.. .शिरा क घ । १६ मना… - घ. । १७ अट्टहासानसृजँश्च - घ. । १८ दण्डि - घ. । १९ गणानां च - घ. । २०… न्द्या - क., दान - घ. । २१… नां शरभानां च - घ. । २२ रक्षसाम् - घ. । २३ ससोभीना… - घ. । २४… क्षश्च - घ. ।
पञ्चाग्निको[^२५] र्ध्वकर्णश्च पाशहस्तो मनोजवः[^२६] ।
वृतः कोटिशतेनैव सदृशाना[^२७]मदृश्यत ॥ २२॥
भार[^२८]भूतीति विख्यातो महायोगबलान्वितः ।
गणपो देवदेवस्य समीपं सोभ्यगच्छत ॥२३ ॥
ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसन्निभम् ।
मृणालस्फटिस्काभं च भस्मकक्षा[^२९]वलम्बनम् ॥२४॥
गृहीत्वा चाशनीहासं[^३०] त्रिपादं चीरवाससम् ।
शतोदरं[^३१] त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम् ॥२५॥
ज्वालामालोग्र[^३२] केशञ्च व्याघ्रचर्माजिनाम्बरम्[^३३] ।
वायुवेगं महाहासं भुजगाबद्धमेखलम् ॥२६॥
महोरगकृतापीडं शङ्कु - ३४ र्ध्वमेहनम् ।
भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्[^३५] ॥ २७॥
महागणपतिं वीरं ज्वर इत्येव विश्रुतम् ।
कोटीशतवृतं तञ्च गणपं सोन्वपश्यत ॥२८॥
ततोपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च ।
त्रिशूलपाणिदिग्वासा महायोगबलान्वितः ॥२९॥
बहुवेषधरश्चैव ध्यानयोगपरायणः ।
सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः ॥8.23.३० ॥
तादृशानां गणाध्यक्षो देवेनाहूत आगतः ।
सहस्रज्वालभस्माङ्गो महानेत्रोर्ध्वमेहनः ॥३१ ॥
अथापरो महाकायः शूलपाणिर्महाबलः ।
युगान्तानलसङ्काशः स्थिरः स्थिरयशोबलः ॥३२ ॥
चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः ।
एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः ॥३३ ॥
पञ्चाङ्गि.. - क, पञ्चजिह्वो - घ. । २६ यः - ध. । २७ सदृशां स - च. । २८ तावद् - घ. । २९ धर्मकर्मा घ. । ३० साशनिपाशं - घ. । ३१ समोदरं - घ. । ३२ माल्यग्र - घ. । ३३ चिना. ( चिता?) - घ. । ३४ कर्णो - क., कान्तो - घ. । ३५.. ननम् - घ. ।
वृतः कोटीशतेनैव स्थाणुस्तत्राभ्थवर्तत ।
स महापार्षदो रुद्रः[^३६] सर्वासुरनिबर्हणः ॥३४॥
ततोपरः पट्टसेनो[^३७] ह्रस्वपादोदरः शुचिः ।
सहस्रबाहुचरणः सहस्राक्षः प्रतापवान् ॥३५॥
करालदशनश्चैव कृष्णसर्पाम्बरच्छदः ।
त्र्यक्ष[^३८] श्चन्द्रकृतापीडः कण्ठमालाविभूषितः ॥३६ ॥
उग्रसेन इति ख्यातः कोटीशतवृतः स च[^३९] ।
आगात्समीपं देवस्य आहूतः स्वयमीश्वरः ॥३७॥
ततोपरः समावेदे देवं चन्द्रार्धधारिणम् ।
चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः ॥ ३८॥
सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहन ।
करालदशन[^४०] श्चैव शङ्कुकर्णो[^४१] महानखः ॥३९॥
असिपाणिर्महातेजाः शतपादश्शतोदरः ।
विद्युत्केशोतिहासश्च तथैवोभयतो गतिः ॥8.23.४० ॥
अजैकपादिति ख्यातो वृतः कोटिशतेन सः ।
काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः ॥४१ ॥
सनत्कुमार उवाच
आगात्ततोपरो व्यास गणपः सुमहाबलः ।
सर्वतो वदनः[^४२] धीमान् सर्वतः पाणिपादभृत्[^४३] ॥४२ ॥
ह्रस्वबाहूरु[^४४] पादश्च अशनिं धारयञ्छुभम्[^४५] ।
शतैर्वृत[^४६]श्च कोटीनामष्टाभिश्चात्मनः समैः ॥४३ ॥
निकुम्भ इति विख्यातः शतपादोदराननः ।
आगात्ततोपरश्चापि विद्युत्केशो महाबलः ॥४४॥
चन्दमालाधरो घोरः प्रहसन्[^४७] प्रविचालयन्[^४८] ।
दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः ॥४५॥
रौद्रः - घ. । ३७ पट्टिशेनो - घ. । ३८ स्त्र्यक्ष - क. । ३९ प्रभुः - घ । ४० वदन - घ. । ४१ कान्ताकर्णो - घ. । ४२ वरदः - घ । ४३. धृक् - क. । ४४ बाहुक - घ. । ४५… भाम् - घ. । ४६ वृत्त्यै - क. । ४७ सहस्रं - घ. । ४८ प्रतिचारयन् - घ. ।
गणकोटीशतवृतः परमम्परतापनः ।
ततोपरः सहस्रेण कोटीनां गणपो वृतः ॥४६॥
सूर्यमालास्रजं बिभ्रदाजगाम महातपाः ।
स सूर्याप्यायनो नाम देवस्य परमप्रियः ॥४७॥
धनुष्पाणिर्महातेजा विश्रुतः स[^४९] महाद्युतिः ।
तथान्यः[^५०] सर्पमालश्च[^५१] चक्राभरण एव च ॥४८॥
चक्रायुधो महातेजा ह्रस्वपाद[^५२] कटीकरः[^५३] ।
स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत ॥४९॥
गणकोटिशतैः षड्भिर्वृतस्समनुधावत ।
शङ्कुकर्णोभ्ययाच्चैव गणकोट्या महाबलः ॥8.23.५० ॥
नन्दिकश्चापि दशभिः पिङ्गाक्षोष्टाभिरेव च ।
विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः ॥५१ ॥
हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च ।
धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा ॥५२ ॥
सहस्रघण्टोष्टादशभिस्तपः पञ्चभिरेव च ।
सहस्रशीर्षः षड्भिश्च भवः कोटिसमावृतः ॥५३ ॥
वरो दशभिरभ्यागात् कुम्भकर्णस्तथाष्टभिः ।
विष्वक्सेनः सहस्रेण अनदस्तु शतेन वै ॥५४॥
आवेशनो[^५४] तथाष्टाभिः सप्तभिश्च प्रवर्तनः[^५५] ।
महारवः सहस्रेण गणानां गणपो वृतः ॥५५॥
चतुर्मुखो द्वादशभिस्तथा बाहुप्रहारकः[^५६] ।
महाकालः शतेनैव तथाग्निशिखरो गणः ॥५६॥
आदित्यमूर्धा कोट्या च तथा चैव धनावहः ।
सन्नाभ[^५७]श्च शतेनैव कुक्कुटोष्टाभिरेव च ॥५७॥
सु - घ. । ५० अथान्यः - घ. । ५१ शपमानश्च - घ. । ५२ क्रमुपाद - घ ॥ ५३ कटः - क, घ. । ५४ नः? । ५५ प्रतर्दनः? । ५६ वाहूपकारकः? - घ. । ५७. म - क. ।
कुन्दश्च पञ्चदशभिस्तथा सङ्कोटकोपरः ।
अमोघभूतिः कोट्या[^५८] च तथा चैवाघभूतिकः[^५९] ॥५८ ॥
एकपादोपरः षष्ट्या तथा सप्तभिरारणः[^६०] ।
महाबलश्च[^६१] नवभि[^६२]रपस्मारश्च विश्रुतः ॥५९॥
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।
निर्ऋति[^६३] श्चैव सप्तत्या कोटीनामभ्यगात् सह ॥8.23.६० ॥
कोटीकोटीसहस्राणां शतैर्विंशतिर्भिवृताः ।
ईतय[^६४] स्तत्र चाजग्मुर्महायोगबलान्विताः ॥६१ ॥
भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रभिः ।
वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः ॥ ६२॥
मेघः सौदामिनीमालो[^६५] नवत्या संवृतो[^६६] भ्यगात् ।
प्रभाकरश्च विंशत्या विट्पति[^६७] श्च महाबलः ॥६३ ॥
गिरिको[^६८] मेघनादश्च उदरो मणिरेव च ।
काष्ठकर्णश्च दिव्यात्मा विश्वरूप[^६९]श्च विश्रुतः ॥ ६४॥
शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान् ।
तालकेतुश्च[^७०] षण्डश्च कपाली गजनाशनः[^७१] ॥६५॥
संवर्तकस्तथा चैत्रस्त्रैलोक्यदहन[^७२] स्तथा ।
लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च ॥६६॥
मृत्युश्चैव यमश्चैव कालो विषहरस्तथा ।
शतमायो महामायः सर्वत्राशरण[^७३] स्तथा ॥६७॥
एकशृङ्गो च विख्यातस्तथा भृङ्गिरिटिश्च यः ।
एते चान्ये च गणपा गुह्या ये च महाबलाः ॥६८॥
तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः[^७४] ।
गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः ॥६९ ॥
ट्यो? - घ. । ५९ रौअघभूतिकः - घ, चानघ? । ६०.?. णाः - क. । ६१.. रश्च - घ. । ६२. ति - क. । ६३ निवृत्ति - घ. । ६४ दूतय - घ. । ६५ मनीमानो - घ., माला - क. । ६६ सम्भृतो - घ । ६७ विद्युति - घ । ६८ विवेको - घ. । ६९ विल्वरूपं - क. । ७० अलकेतुश्च - घ. । ७१ कपालजगदासनः - घ. । ७२ सहन - घ. । ७३ पूर्वनाभरण? - घ. । ७४ दिव्यास्त्रयोधिनः - घ. .।
मुखाडम्बरवाद्यानि वादयन्तस्तथैव च ।
रथैर्नागैर्हयैश्चैव[^७५] ययुर्मर्कटवाहनाः[^७६] ॥8.23.७० ॥
व्याघ्रसिंहविडालैश्च सर्पैः पक्षिभिरेव च ।
श्वापदैश्च तथानेकै[^७७] रल्पैश्च विविधैः शुभैः ॥७१ ॥
विमानेषु तथारूढा मानुषेषु[^७८] तथापरे ।
पुष्पकेन विमानेन तथा मत्तद्विपेन च ॥७२ ॥
छन्दं कृत्वा तथा शं - किन्नरोरगचारणैः[^७९] । (?)
उत्तमायुधयुक्तेन हंसयुक्तेन चापरे ॥७३ ॥
नानाविमानमारूढाः कोटिशस्तत्र चापरे ।
भेरीशृङ्ग[^८०] मृदङ्ङ्गैश्च पणवानकगोमुखैः ॥७४॥
वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः[^८१] ।
भेरीकर्कर[^८२] सन्नादैराडम्बरकडिण्डिमैः ॥७५ ’ ।
मड्डूकै[^८३] र्वेणुवीणाभिर्विवृषैस्तुणवैरपि[^८४] ।
दर्दरै[^८५] स्तलघातैश्च[^८६] कच्छपै पणवैरपि ॥७६ ॥
वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ।
हंसजालेन दिव्येन पद्मयोनिः पितामहः ॥७७ ॥
मुनिभिर्योगसंसिद्धैर्वृतः सर्वैः समन्ततः ।
ऋग्वेदो दक्षिणे भागे दिव्यकुण्डलभूषित ॥७८॥
पश्चिमे सामवेदश्च नाना (?) रूपधरः शुभः ।
अथर्वा चोत्तरे चैव वह्निनेत्रधरः प्रभुः ॥७९ ॥
यजुर्वेदस्तु पूर्वेण विद्युद्रूपधरस्तथा ।
इतिहासपुराणानि नानारूपधराणि च ॥8.23.८० ॥
अग्रतो दीपयानेन तेपि तत्र प्रजग्मिरे ।
शिवभक्तो महायोगी[^८७] गरुडस्थो जनार्दनः ॥८१ ॥
श्चैवा - क., श्चापि - घ. । ७६ वायुम.. - घ. । ७७ नथीनकै - घ । ७८ मनुष्येषु - क. । ७९… णाः - घ । ८० शङ्ख - घ. । ८१ पुष्पकैः - घ । ८२ मुरज - घ । ८३ मण्डूकैः - घ । ८४ विविधैः पटहै. - घ. । ८५ दर्श? घ. । ८६ नसन्श्चि? - क घ. । ८७ महाभोगी - घ ।
सर्वैः स्वीयैः परिवृतस्तत्रागात् पार्षदैः[^८७] सह ।
वृत आत्मसमैर्दिव्यैर्विष्णुरूपधरैः शुभैः ॥८२ ॥
दृष्ट्वा नारायणं प्राप्तं महादेवोब्रवीदिदम ।
वाचा गम्भीरया शम्भुस्तदेवं लोकभावनम् ॥८३ ॥
शृणु विष्णो वचो मह्यं तद्वक्ष्यामि जनार्दन ।
अभिषेकं प्रयच्छस्व नन्दिनि मम सुप्रिये ॥८४॥
प्रहस्य शङ्करं[^८९] देवो भूयो नारायणोब्रवीत् ।
यथा वदसि देवेश करिष्येहं वृषध्वज ॥८५॥
देवानामपि देवस्त्वं पुमान् त्वं - - न संशयः ।
शक्र ऐरावतारूढ आजगाम तदन्तिकम् ॥८६॥
वसुभिर्मातरश्चैव थमवरुणवित्तपैः ।
पृथग्विमानसंस्थैश्च छादयित्वा नभस्तलम् ॥८७॥
प्रलयान्ते च सृष्टौ तु यादवासन (?) सञ्ज्ञया ।
ब्रह्मादिरूपं यातेमा सम्प्राप्ता गणरूपिणः (?) ॥८८ ॥
ते विश्वकर्माणममित्रहासां[^९०] विश्वेशमेकाक्षरमव्ययञ्च ।
सहस्रनेत्रप्रतिमातिभास्वराः[^९१] प्रणेमुरुच्चैरपि चाभिनेदुः ॥८९॥
इति स्कन्दपुराणे गणपाह्वानो नाम त्रयोविंशोध्यायः