सनत्कुमार उवाच
ततस्तु देवदेवेशो भक्त्या परमया युतम् ।
अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ॥ १ ॥
कराभ्यां सुसुखाभ्यां तम्[^१] सङ्गृह्य[^२] परमात्तिहा ।
उत्थाप्य नयने सोम अश्रुपूर्णे[^३] ममार्ज ह[^४] ॥२ ॥
उवाच[^५] चैनम्[^६] तुष्टात्मा वचसाप्याययन्निव ।
निरीक्ष्य गणपान् सर्वान् देव्या सह तदा[^७] प्रभुः ॥३ ॥
देवदेव उवाच
जाने भक्तिं तव मयि जाने चार्त्तिं तवा[^८]नघ ।
तस्य सर्वस्य शैलादे उदर्क सन्निशामय ॥४॥
अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः ।
अक्षयश्चाव्ययश्चैव[^९] सपिता ससुहृज्जनः[^१०] ॥५ ॥
ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः ।
इष्टो मम सदा चैव मम पार्श्वगतस्सदा ॥ ६॥
शिवस्य दयितं - घ. । ३३ पठतो मानसे - घ. । ३४ दग्यं… - क । ३५ .. शति (त) मो - क. (घ) । १ तु - क. । २ सम्पूज्य - घ. । ३… र्णो - क. । ४ सः (तम्?) - क., ह्यमार्जत । ५ उत्थाय - क. । ६ चेदं - घ. । ७ तया - घ. । ८ तथा - क । ९ श्चैव मद्वीर्यो - घ. । १०. मत्तुल्यो मत्पराक्रमः - घ. ।
मद्रूपश्चैव भविता महायोगबलान्वितः ।
ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् ॥७॥
संवासं च[^११] प्रयच्छामि तत्र रंस्यसि[^१२] सर्वदा ।
कुशेशयमयीं मालामवमुच्यात्मनस्ततः ॥८॥
आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ।
स तया मालया नन्दी बभौ कण्ठावसक्तया ॥ ९॥
त्र्यक्षो दशभुजः श्रीमान् द्वितीय इव शङ्करः ।
ततो हस्ते[^१३] समादाय हस्तेन भगवान् हरः ॥ 8.22.१० ॥
उवाच ब्रूहि किं[^१४] तेद्य ददानि[^१५] वरमुत्तमम् ।
आश्रमश्चायमत्यर्थ तपसा तव भावितः ॥ ११ ॥
जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ।
समन्ताद् योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् ॥ १२ ॥
सिद्धचारणसङ्कीर्णमप्सरोगणसेवितम् ।
सिद्धिक्षेत्रं[^१६] परं गुह्यं भविष्यति न संशयः ॥ १३ ॥
कर्मणा मनसा वाचा यत्किञ्चित् कुरुते नरः ।
शुभं वाप्यशुभं वात्र[^१७] सर्वं भवितृ[^१८] तच्छुभम् ॥ १४॥
जप्यमानः स[^१९] तुल्यो[^२०] वै रुद्राणां तु[^२१] भविष्यति ।
यत्र तत्र मृता मर्त्या यास्यन्ति त्वत्[^२२] सलोकताम् ॥१५॥
ततो जटाप्लुतं वारि[^२३] गृहीत्वा हारनिर्मलम् ।
उक्त्वा[^२४] नदी भवस्वेति विससर्ज महातपाः ॥१६॥
सा ततो दिव्यतोया च[^२५] पुण्या मणिजला शुभा ।
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ॥१७॥
पद्मोत्पलवनोपेता[^२६] प्रार्वतत महानदी ।
स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसानता ॥१८॥
सं - घ. । १२ वत्स्यसि - घ. । १३ तत एनं - ध. । १४ कं.? । १५.. .मि - ध. । १६ सिद्धक्षेत्रं - ध. । १७ वापि - घ. । १८ भवति - घ. । १९ तप्यमानस्य - घ. । २० तुल्यं - क. घ. । २१ तद् - क., च - घ. । २२ तव - क, देव - घ. । २३ जटाम्बू स्वकरे? । २४ शुद्धा - घ. । २५ तु - घ, । २६ दलोपेता - घ ।
पद्मोत्लदलाभाक्षी[^२७] तदा देवमुपस्थिता ।
तामुवाच ततो देवो[^२८] नदीं स्वय[^२९]मुपस्थिताम् ॥ १९॥
यस्माज्जटोदकाद् देवि प्रवृत्ता त्वं शुभानने[^३०] ।
तस्माज्जटोदा नाम्ना[^३१] त्वं भविष्यसि सरिद्वरा ॥8.22.२० ॥
त्वयि स्नानं तु यः कुर्याच्छुच्चिः प्रयतमानसः ।
सोश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥ २१ ॥
सनत्कुमार उवाच
ततो देव्या - - - - नन्दीश्वरमतिप्रभम् ।
पुत्रस्तेयमिति प्रोच्य पादयोस्तं व्यनामयत् ॥ २२॥
सा तमाघ्राय[^३२] शिरसि पाणिभ्यां परिमार्जती ।
पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजै[^३३] -स्त्रिभिः ।२३॥
पयसा शङ्खगौरेण देवी देवं निरीक्षती ।
तानि स्रोतांसि[^३४] त्रीण्यस्याः स्रुतान्योधवती नदी ॥२४॥
नदीं त्रिस्रोतसीं[^३५] पुण्यां ततस्ता[^३६]मवदद्धरः ।
त्रिस्रोतसां नदीं दृष्ट्वा वृष परमहर्षितः ॥२५॥
ननर्द नादात्[^३८] तस्माच्च सरिदन्या ततोभवत् ।
यस्माद् वृषभनादेन प्रवृत्ता सा महानदी ॥२६॥
तस्माड् ढित्किरिकान्तां[^३९] वै उवाच वृषभध्वजः ।
जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् ॥२७॥
मुकुटञ्चाबबन्धास्य कुण्डले चामृतोद्भवे ।
तं तथाभ्यर्चितं व्योम्नि दृष्टवा मेघः प्रभाकरः ॥२८ ॥
देवोपवाह्यः सिषिवे सनादः सतडिद्गुणः ।
तस्याभिषिक्तस्य[^४०] तदा प्रवृत्ते स्रोतसी भृशम्[^४१] ॥२९॥
भासा?, महा - घ. । २८ देवी - क । २९ नन्दीश्वर - घ । ३० भूतले - घ । ३१ देवी तस्मा- ज्जटा नाम्ना - घ. । ३२ प्य - क. । ३३ तनुजै - घ । ३४ स्रोतांसि - क । ३५ सां - घ. । ३६ तत्रस्था - घ. । ३७ मवहद्धरः - क., मगमद्वरः - घ,.. रा - क । ३८ नादं - घ, नादा (न्) - क । ३९ दिकारिकां तां - घ. । ४० भिषक्तस्य - घ. । ४१ स्रोतसां नदीम् - घ ।
यस्माच्च कुण्डलात् स्वर्णात्[^४२] नद्येका सम्प्रवर्तत[^४३] ।
स्वर्णोदकेति नाम्ना तां महादेवोभ्यभाषत ॥ 8.22.३० ॥
जम्बूनदमया[^४४] द्यस्माद् द्वितीया मुकुटा[^४५] च्छुभात्[^४६] ।
प्रावर्तत नदी पुण्या प्राह[^४७] जाम्बूनदीति[^४८] ताम्[^४९] ॥३१ ॥
एतत्पञ्चनदं नाम् जप्येश्वरसमीपगम् ।
व्याख्यातं फलमेतासां[^५०] जटोदया[^५१] महात्मना ॥३२ ॥
तच्च[^५२] पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् ।
त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च[^५३] शूलिनम् ॥३३ ॥
ब्राह्मणाँस्तर्पयित्वा च यत्र तत्र मृतो नरः ।
नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ॥३४॥
यस्तु जप्येश्वरे प्राणान्[^५४] परित्यजति[^५५] दुस्त्यजान् ।
नियमेनान्यथा वापि स मे गणपतिर्भवेत् ॥३५॥
नन्दीश्वरसमो नित्यं शाश्वतो ह्य[^५६] क्षयोव्ययः ।
मम पार्श्वेप्यनुचरः प्रियः सन्मत एव च[^५७] ॥३६॥
जप्येश्वरं पञ्चनदं च तद्वै यो मानवोभ्येत्य जहाति देहम् ।
स मे सदा स्याद् गणपो वरिष्ठस्त्वष्ट्रा समः[^५८] कान्तवपुश्च[^५९] नित्यम्[^६०] ॥३७॥
इति स्कन्दपुराणे द्वाविंशोध्यायः[^६१]