०२१

सनत्कुमार उवाच
निर्गतोथ ततो नन्दी जगाम सरितां वराम् १ ।
भुवनामिति विख्यातां सर्वलोकहितावहाम् ॥ १॥

तां प्रविश्य ततो धीमानेकाग्रो द्युतिमाँस्थितः ।
स जजाप ततो रुद्रं मृत्योर्भीतः समाहितः ॥ २॥

जपता तेन तत्रैव तत्परेण तदाशिषा ।
कोटिरेका यदा जप्ता तदा देवस्तुतोष ह ॥३ ॥

सनत्कुमार उवाच
सोवतीर्य ततो भूयः प्रयतात्मा तथैव च ।
जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ॥४॥

अद्यस्य - घ । ५२ जगत - घ. । ५३ भावयित - घ. । ५४ तदेवं - घ. । ५५ क्रिया - घ. । ५६ कृत्वा - घ., । धृत्वा? । ५७.. .नन्द्य - घ । ५८ स प्रभस्ते - घ. । ५९ समदृक्षु - घ ।
वरम् - ष. ।
द्वितीयायां ततः कोट्यां संवृतायाम्[^२] वृषध्वजः ।
अभ्याजगाम तं चैव वरदोस्मीत्यभाषत ॥५॥

स प्राह भगवन् कोटिं तृतीयामधिकामहम् ।
जप्तुमिच्छामि देवेश त्वत्प्रसादात्त्वहं विभो ॥६॥

एवमस्त्विति भूयोपि भगवान् प्रत्युवाच ह ।

    • जगाम स्वं वेश्म देव्या सह महामतिः ॥७॥

ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह ।
युगान्तादित्यसङ्काशः ततः समभवद् द्विजः ॥८ ॥

तस्य कोटित्रये व्यास समाप्ते ज्वलनत्विषः ।
सोमः सह गणैर्देवस्तम्[^३] देशमुपचक्रमे ॥९॥

स तं करेण सङ्गृह्य तद्वृत्तसलिलाच्च ह ।
संसृज[^४]न्नग्रहस्तेन नन्दिनं कालहाब्रवीत् ॥8.21.१०॥

देवदेव उवाच
शैलादे वरदोहं ते तपसानेन तोषितः ।
साधु जप्तं त्वया धीमन् ब्रूहि यत्ते[^५] मनोगतम् ॥११॥

शैलादिरुवाच
जपेयं कोटिमन्यां वै भूयोपि तव तेजसा ।
वरमेतं वृणे देव यदि तुष्टोसि मे विभो ॥१२॥

भगवानुवाच
शैलादे - - - - ६- तव तुष्टोस्मि साम्बिकः ।
यं त्वद्य वृणुषे कामं सर्वं तं प्रददामि ते ॥१३ ॥

ब्रह्मत्वमथ[^७] विष्णुत्वमिन्द्रत्वमथवान्यताम्[^८] ।
आदित्यो भव रुद्रौ वा ब्रूहि किं करवाणि ते ॥१४॥

सनत्कुमार उवाच
स एवमुक्तो देवेन शिरसा पादयोर्नतः ।
तुष्टाव पुरकामाङ्गक्रतुपर्वतनाशनम ॥१५॥

संस्मृता - घ, समाप्ता? । ३ र्व्यासं देवस्तं वस - घ., स्तमुप? । ४ सम्मृज? । ५ या (जा?) तु - घ. । ६ कर्मणानेन?, कर्मणनेन शैलादे? । ७ मघ ( अ. ) - घ. । ८ नृतां - घ. ।
नमो देवाधिदेवाय[^९] महादेवाय वै नमः ।
नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः ॥१६॥

नमस्तुषितनाशाय त्रैलोक्यदमनाय च ।
नमः कालाग्रदण्डाय उग्रदण्डाय वै नमः ॥ १७॥

सर्वतः पाणिपादाय सर्वतोक्षिमुखाय[^१०] च ।
सर्वतः प्रभवे चैव[^११] सर्वमावृत्य तिष्ठते[^१२] ॥ १८॥

नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च ।
नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः ॥ १९॥

नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च ।
पिनाकपाणये चैव शूलमुद्गरपाणये ॥8.21.२० ॥

निषङ्गिणे[^१३] खड्गिने च[^१४] परश्वधधराय च ।
रथिने चर्मिणे चैव महेशाय च वै नमः ॥ २१ ॥

नमस्त्रिशूलहस्ताय उग्रदण्डधराय च ।
नमो गणाधिपतये रुद्राणां पतये नमः ॥ २२॥

नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
आदित्यानां १५ पतये वसूनां पतये नमः ॥२३ ॥

नमः पृथिव्याः पतये आकाशपतये नमः ।
नमः स्वर्लोकपतये उमायाः पतये नमः ॥२४॥

नमो योगाधिगम्याय सर्वयोगप्रदाय च ।
ध्यानिनां ध्यायमानाय (?) ध्यानिभिः संस्तुताय च ॥ २५॥

मृत्यवे कालदण्डाय यमाय च महात्मने ।
देवाधिपतये चैव दिव्यसंहननाय च ॥२६॥

यज्ञाय वसुदानाय स्वर्गदाय जयाय च ।
सवित्रे सर्वदेवानां धर्मायानेकरूपिणे ॥२७॥

अमृताय वरेण्याय सर्वदेवस्तुताय च ।
ब्रह्मणश्च शिरोहर्त्रे[^१६] यज्ञस्य च महात्मनः ॥८॥

तिदेवाय - घ. । १० सुखाय - घ. । ११ प्रसवित्रे च? १२ स्यानवे घ, स्थास्नवे।. १३ वङ्गिने - घ. । १४ चैव - घ. । १५ आदित्यानष्ट… घ, । आदित्यपतये चाष्ट? । १६ हन्त्रे - घ. ।
त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च ।
उमादेहार्धरूपाय ललाटनयनाय च ॥२९॥

महिषान्धकभर्त्रे च द्रष्ट्रे[^१७] च परमेष्ठिने ।
ब्रह्मणे गुरवे चैव ब्रह्मणे जनकाय च ॥8.21.३० ॥

कुमारगुरवे चैव कुमारवरदाय च ।
हलिने मुशलघ्नाय महाहासाय वै नमः ॥ ३१ ॥

मृत्युपाशाग्रहस्ताय तक्षकब्रह्मसूत्रिणे ।
सविद्युद्घनवाताय तथैव वृषयायिने ॥३२ ॥

हिमवद्विन्ध्यवासाय मेरोः पृष्ठनिवासिने ।
कैलासवासिने चैव धनेश्वरसखाय च ॥३३ ॥

विष्णुदेहार्धदत्ताय तस्यैव वरदाय च ।
सर्वभूता[^१८] धियज्ञाय सर्वभूतानुकम्पिने ॥३४॥

अन्तर्भूतादिभूताय प्राणिनां जीवदाय च ।
नमस्ते मन्यमानाय अभिमानाय चैव हि ॥३५॥

बुध्यमानाय[^१९] बोध्याय[^२०] द्रष्ट्रे[^२१] वै चक्षुषे नमः ।
नमस्ते स्पर्शयित्रे च तथैव रसनाय च ॥३६ ॥

नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि ।
हस्तिने चैव हस्ताय तथा पादाय पादिने ॥३७॥

नमोस्त्वानन्दकर्त्रे च आनन्दाय च ते नमः ।
वाचेथ वाग्मिने चैव तन्मात्राय महात्मने ॥३८॥

सूक्ष्माय चैव स्थूलाय सत्वाय रजसे नमः ।
नमश्च तपसे नित्यं क्षेत्रज्ञाया[^२२]जिताय च ॥ ३९॥

विष्णवे लोककर्त्रे च प्रजानां पतये नमः ।
नमः सप्तर्षये चैव तप्यमानाय तापिने ॥8.21.४० ॥

दृष्टे - घ. । १८ सर्वभूताय - घ. । १९ ?तृद्वमानाय - घ. । २० बुद्ध्याय - घ. । २१ दुष्टो - घ. । २२ क्षेत्रज्ञाय - घ. ।
ब्रह्मण्याय[^२३] च - - -२४ तथा दुर्वाससे नमः ।
शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ॥४१ ॥

अत्रये भृगवे चैव वसिष्ठाय नमोस्तु ते ।
भूताय भूतनाथाय - - - २५ पतये नमः ॥४२ ॥

तिष्ठते द्रवते चैव गायते नृत्यतेपि च ।
अवश्यायाप्यवध्याय अजरायामराय च ॥४३॥

अक्षयायाप्ययायैव तथाप्रतिहताय च ।
अनावेश्याय सर्वेषां दृश्यादृश्य[^२६] स्वरूपिणे ॥४४॥

सूक्ष्मेभ्यश्चातिसूक्ष्माय सर्वेशाय महात्मने ।
नमस्ते भगवन् व्यक्ष नमस्ते भगवन् शिव ॥४५॥

नमस्ते सर्वलोकेश नमस्ते लोकभावन ।
न मे देवाधिपत्येन ब्रह्मत्वेनापि वा पुनः ॥४६॥

न विष्णुत्वेन देवेश न इन्द्रत्वेन भूतप ।
इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ॥४७॥

नित्यं[^२७] त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।
द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ॥४८॥

दत्त्वा गतिं पुरा देव त्वं वैरावर्त्तनं पुनः (?) ।
शरणं त्वञ्च[^२८] मे नाथ नान्यं पश्यामि कर्हिचित् ॥४९॥

त्वया त्यक्तस्य चैवाशु विनाशो[^२९] नात्र संशयः ।
अन्यां गतिं न पश्यामि योस्यान्यं तेन्तकं[^३०] शुभम् ॥8.21.५०॥

अनुरक्तं च भक्तं च त्वत्परं त्वदुपाश्रयम् ।
प्रतीच्छ मां सदा देव एष मे दीयतां वरः ॥५१ ॥

सनत्कुमार उवाच
य इदं प्रातरुत्थाय पठेदविमना[^३१] नरः ।
स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ॥५२॥

ब्रह्मणा - घ. । २४ तक्राय (भक्ताय? तर्काय?) - घ. । २५… स्वान्त - घ. । २६ दृश्यदृश्याय - घ. । २७ तेन - घ. । २८ त्वं च - घ. । २९.. शं - घ, वि । शान्? । ३० यास्याम्यन्तिकं - घ, । ३१ लं - घ. ।
यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु ।
सोश्वमेधफलं प्राप्य रुद्रलोके महीयते ॥५३ ॥

श्रुत्वा सकृदपि[^३२] र्ह्येतं स्तवं पापप्रणाशनम् ।
यत्र तत्र मृतो[^३३] व्यास न दुर्गतिमवाप्नुयात् ॥५४॥

योधीत्य नित्यं स्तवमेतमग्र्यं[^३४] देवं सदाभ्यर्चयते यतात्मा ।
किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः ॥५५ ॥

इति स्कन्दपुराणे एकविंशो[^३५] ऽध्यायः