व्यास उवाच
उमाहरौ तु देवेशो चक्रतुर्यत्तु सङ्गतौ ।
तन्मे सर्वमशेषेण कथयस्व महामुने ॥१ ॥
सनत्कुमार उवाच
उमाहरौ तु सङ्गम्य परस्परमनिन्दितौ ।
-
-
-
-
- -, - - - - - - - - - - ॥२ ॥
-
-
-
शिलादस्यात्मजं विप्रम्१ - - - शक्तिवारणम्२ ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥३ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
त्या - घ ।
यं रण - घ. । २ शशाङ्कस्यानुजोर्विप्रं यं रणशक्तिवारणं - घ. ।
स चाप्ययोनिजः पुत्र आराध्य च महेश्वरम् ।
रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ ॥४॥
व्यास उवाच
कथं नन्दी समुत्पन्नः कथं चाराध्य शङ्करम् ।
समत्वमन्वगाच्छम्भोः प्रतीहारत्वमेव च ॥५॥
सनत्कुमार उवाच
अभूदृषिः सुधर्मात्मा शिलादो नाम वीर्यवान् ।
तस्याभूत् शीलवृत्तित्वं शिलादस्तेन सोभवत् ॥६ ॥
अपश्यन्लम्बमानास्तान् गतीर्यान् स पितॄन् द्विजः ।
विच्छिन्नसन्ततिर्घोरं निरयं वै प्रपेदुषः४ ॥७॥
तैरुक्तोपत्यकामो वै तं देवं लोक(? )मव्ययम् ।
आराधय महादेवं सुतार्थं द्विजसत्तम ॥८ ॥
योयमुत्तारणे शक्तः स ते५ पुत्रं प्रदास्यति ।
तेषां वाक्यं ततः श्रुत्वा जगाम शरणम्६ शिवम् ॥९॥
तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।
शर्वः सोमो गणवृतो वरदोस्मीत्यभाषत ॥8.20.१० ॥
सोमं स दृष्ट्वा७ देवेशं प्रणतः पादयोर्विभोः९ ।
हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम् ॥११ ॥
शिलाद उवाच
नमः परमदेवाय महेशाय महात्मने ।
स्रष्ट्रे१० सर्वसुरेशानां ब्रह्मणः पतये नमः ॥ १२॥
नमः कामाङ्गनाशाय योगसम्भवहेतवे ।
नमः पर्वतवासाय ध्यानगम्याय ते नमः ॥१३ ॥
ऋषीणां पतये नित्यं देवानां पतये नमः ।
लोकानां पतये चैव योगिनां पतये नमः ॥ १४॥
स्ता - घ. । ४… तसः (तुष?) - घ. । ५ शत्रो (सत?) - घ. । ६ सवलं - घ. । ७ स दृष्ट्वा सोम… - घ. । ८… य - ध. । ९ र्बभौ - घ । १० श्रेष्ठे - घ. ।
प्रधानाय नमो नित्यं११ - - - - - सर्गिणे ।
वरदाय च भक्तानां नमः सर्वगताय च ॥१५॥
तन्मात्रेन्द्रियभूतानां विकाराय१२ गुणैः सह ।
-
-
- पतये चैव नमस्ते प्रभविष्णवे ॥१६॥
-
जगतः पतये चैव जगत्स्रष्टे नमः सदा ।
प्रकृतेः पतये नित्यं पुरुषात्परगामिने ॥ १७॥
ईश्वराय नमो नित्यं योगगम्याय - - - १४ ।
संसारोत्पत्तिनाशाय सर्वकामप्रदाय च ॥ १८॥
शरण्याय नमो नित्यं नमो भस्माङ्गरूपिणे ।
नमस्ते योग्रहस्ताय (?) तेजसां पतये नमः ॥१९॥
सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च ।
स्थिताय सर्वदा नित्यं नमस्त्रैलोक्यवेधसे ॥ 8.20.२० ॥
स्तोतस्यान्याङ्गतो देव विश्रामस्तव हङ्क्ष्यते । (?)
यस्माद्धेतुस्त्व१५मेवास्य जगतः स्थितिनाशयोः ॥२१ ॥
अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः ।
प्रसादं परमालक्ष्य वरदो भव विश्वधृक् ॥२२॥
सनत्कुमार उवाच
यः स्तोत्रमेतदमलं पठति द्विजन्मा प्रातः शुचिर्नियमवान् पुरतो द्विजानाम् ।
तं ब्रह्मराक्षसपिशाचसभूतयक्षा हिंसन्ति नो द्विपदपन्नग - - पूताः ॥२३ ॥
ततः स भगवान् देवः स्तूयमानः सहोमया ।
उवाच वरदोस्मीति ब्रूहि यत्ते मनोगतम् ॥२४॥
तमेवंवादिनं देवं शिलादोभ्यर्चयत् तदा१६ ।
उवाच चेदं देवेशं स वाचा सज्जमानया ॥२५॥
भगवन् यदि तुष्टोसि यदि देयो वरश्च मे ।
इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम् ॥२६ ॥
तत्त्वमेसं - घ. । १२ विक… - घ. । १३ स्वाष्ट्र च - घ. । १४ वाहसे - घ. । १५ द्वि्त्तत्व - घ. । १६ सदा - घ. ।
एवमुक्त्वा ततो देवः प्रीयमाणस्त्रिलोचनः ।
एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत ॥२७॥
गते तस्मिन्महेष्वासे ऋषिः परमपूजितः ।
स्वमाश्रममुपागम्य ऋषिभ्योकथयत्ततः ॥२८॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥२९ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
सर्वकामानलप्रख्यः कुमारः प्रत्यभाषत ।
स तं दृष्टवा तथोद्भूतं कुमारं दीप्ततेजसम् ॥ 8.20.३० ॥
राक्षसोयमिति ज्ञात्वा भया१७ न्नोपससार तम् ।
कुमारोपि तथोद्भूतः पितरं दीप्ततेजसम् ॥३१ ॥
उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ।
स तातेत्युच्यमानोपि यदा तन्नाभ्यनन्दत ।
अथ वायुस्तदाकाशे निनादं प्राह सुस्वरम् ॥३२ ॥
वायुरुवाच
सालङ्कायन पुत्रस्ते योसौ देवेन शम्भुना ।
अयोनिजः१८ पुरा दत्तः१९ स एष२० प्रतिनन्दय ॥ ३३ ॥
यस्मान्नन्दिकरस्तेयं सदैव द्विजसत्तम ।
तस्मान्नन्दीति नाम्ना२१ यं भविष्यति सुतस्तव ॥३४॥
सनत्कुमार उवाच
ततः स वायुवचनान्नन्दिनं परिसष्वजे ।
गृहीत्वा स्वा२२ श्रमं तेन चानयद् दृष्टिवर्द्धनम् (?) ॥३५॥
चूडानामव्रतादीनि कर्माण्यस्य चकार सः ।
कृत्वा चाध्यापयामास वेदान् साङ्गा२३ नशेषतः ॥ ३६॥
आयुर्वेदं च गान्धर्वं धर्म२४ शास्त्रं सलक्षणम्२५ ।
हस्तिनां चरितं चैव नवनिध्योश्च२६ लम्भनम्२७ ॥३७॥
भवा - घ । १८… ज - घ. । १९… त्तं - घ । २० एव - घ. । २१ नामा - घ. । २२ चा - घ. । २३ साध्या - घ । २४ काम?, अश्व? । २५ आयुर्वेदं (धनुर्वेदम्) गान्धर्वं शास्त्रलक्षणम्? । २६ नरनार्योश्च लक्षणम्?, नवनाध्यो - घ. । २७ लम्बनम्… - घ. ।
शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च ।
भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ॥३८॥
भुजगानां च सर्वेषां यच्च किञ्चिद् विचेष्टितम् ।
यच्च शास्त्रसमूहाना२८मष्टौ व्याकरणानि च ॥३९॥
तथा चैव पुराणानि इतिहासमशेषतः ।
पञ्चस्थानानि यानि स्युर्ज्योतिर्गणविचारणे२९ ॥8.20.४० ॥
मातृभूतग्रहं३० तन्त्रं योगिनां३१ मतमुत्तमम् ।
अब्दैरधीतवान् सर्वं व्यास षट्पञ्चभिस्ततः ॥४१ ॥
दक्षः शुचिरदीनात्मा प्रियवागनसूयकः ।
सर्वलोकप्रियो नित्यं नानानयननन्दनः ॥४२॥
तस्याथ३२ सप्तमे वर्षे ऋषिदेवौ तपोधनौ ।
आश्रमं समनुप्राप्तौ शिलादस्याहतौजसौ ॥४३ ॥
तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः ।
सुखासीनौ समानम्य३३ आसने परमार्चितौ ॥४४॥
मित्रावरुणनामानौ तपोयोगबलान्वितौ ।
अभिज्ञौ सर्वभूतानां त्रिलोके सचराचरे ॥४५॥
ताभ्यां समर्थितः सोपि निससाद वरासने ।
-
-
-
-
- ॥४६॥
-
-
-
उवाच गुणवान् सम्यक् कुलवंशविवर्धनः ।
तमाहूय च सन्तुष्टः पुत्रं नन्दिनमच्युतः ॥४७॥
तयोः पादेषु शिरसा पातयत्तमनिन्दितम् ।
तौ तु तस्याशिषं दिव्यौ प्रयुक्तावथ नित्यताम् ।
गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान् ॥४८॥
सनत्कुमार उवाच
शिलादस्तावथालम्ब्य आशिषं देवयोस्तदा ।
विसृज्य नन्दिनं भीतः सोपृच्छदृषिसत्तमौ ॥४९॥
हेन - घ. । २९ चारयन् - घ. । ३० गृहं - घ. । ३१ न - घ., नी? । ३२ यस्यार्थं - घ. । ३३.नश्च - घ. ।
शिलाद उवाच
किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि ।
प्रयुक्तवन्तौ धन्यस्य(?)३४ नाशिषं मुनिसत्तमौ ॥8.20.५० ॥
मित्रावरुणावूचतुः
तवैष तनयस्तात स्वल्पायुः सर्वसम्मतः ।
इतोन्यद् वर्षमेकं वै जीवितं धारयिष्यति ॥५१ ॥
सनत्कुमार उवाच
ततः स शोकसन्तप्तोपत्यव्यसनदुःखितः३५ ।
विसृज्य ऋषिशार्दूलावेकाकी विललाप च ॥५२॥
तस्य शोकाद् विलपतः स्वरं श्रुत्वा सुतः३५ शुभम् ।
नन्द्या३७गात्तं तथापश्यत्पितरं दुःखितं भृशम् ॥
नन्द्युवाच
केन त्वं तात दुःखेन दूयमानः३८ प्ररोदिषि ।
दुःखं ते कुत उत्पन्नं ज्ञातुमिच्छाम्यहं पितः ॥५४॥
शिलाद उवाच
पुत्र त्वं किमु वर्षेण जीवितं सम्प्रहास्यसि ।
ऊचतुस्तावृषीत्येवं ततो मां - - -३९ विशत् ॥५५॥
नन्द्युवाच
सत्यं देवऋषी तात न तावनृतमूचतुः ।
तथापि तन्न४० मृत्युर्मे प्रभविष्यति मा शुचः ॥५६॥
शिलाद उवाच
किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते ।
येन त्वं दारुणं मृत्युं वञ्चयिष्यसि४१ पुत्रक ॥५७॥
धन्यस्य - घ., दीनस्य? । ३५ व्यथदुः… - घ. । ३६ सुभ - घ. । ३७ नद्या - ध. । ३८ भू (अभिभू?) - घ. । ३९ कृव्रणा? - च. । ४० पितर्न - घ । ४१ मुञ्चयिष्यसि - घ. ।
नन्द्युवाच
न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया ।
महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा ॥५८॥
द्रक्ष्यामि शङ्करं देवं ततो मृत्युर्न मे भवेत् ।
नष्टे मृत्यौ त्वया४२ सार्धं चिरं वत्स्यामि निर्वृतः ॥५९॥
शिलाद उवाच
मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् ।
महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः ।
कथं द्रष्टा४३ महादेवमेतदिच्छामि वेदितुम् ॥8.20.६० ॥
नन्द्युवाच
न चापि तपसा देवो दृश्यते नापि विद्यया ।
-
-
- मनसा देवो दृश्यते परमेश्वरः ॥ ६१ ॥
-
अहमेतद्विजानामि येन४५ द्रक्ष्यामि शङ्करम् ।
त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् ॥६२॥
द्रष्टा तात न सन्देहो विसृजाशु ततस्तु माम् ।
अचिरेणैव कालेन मृत्युदुःखविवर्जितम्४५ ॥६३ ॥
द्रक्ष्यसे मां कृतार्थं च तस्मान्मां त्वं विसर्जय ।
तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा ॥६४॥
न प्रतीक्षेत४७ मां४८ मृत्युरिति बुद्ध्वा शमं व्रज ।
यदि मृत्युसहस्राणि यमकोटिशतानि च ॥ ६५॥
अभिद्रवन्ति सन्तप्ता दण्डपाशोद्यतायुधाः ।
व्यथां (?) तथापि ते कर्तुं४९ न समर्थाः कदाचन ॥६६ ॥
न ममैते करिष्यन्ति व्यथां लोम्ना तथैव हि ।
अवतीर्य जलं दिव्यं भावं५० शुद्धं समाश्रितः ॥६७॥
तया - घ. । ४३ दृष्ट्वा - घ. । ४४ गृहिनः? - घ । ४५ यस्मात् - घ. । ४६.. तः - घ. । ४७ ति घ. । ४८ वै - घ. । ४९ तात - घ. । ५० द्वारं - घ
अभ्यस्य५१ रौद्रमध्यायं ततो द्रक्ष्यामि शङ्करम् ।
जपत५२श्चाभियुक्तस्य रुद्रभावयुतस्य५ च ।
न मृत्युकालबहवः (?) करिष्यन्ति मम व्यथाम् ॥६८॥
सनत्कुमार उवाच
तमेवं५४ वादिनं मत्वा ब्रुवाणं शुद्धया धिया५५ ।
व्यसर्जयन्नदीनात्मा धृत्या५६ पुत्रं महातपाः ॥६९ ॥
अभिवन्द्य५७ पितुः पादौ शिरसा स महायशाः ।
प्रदक्षिणं समावृत्य सम्प्रतस्थे५८ विनिश्चितः ॥8.20.७० ॥
अभिवन्द्य ऋषीन् सर्वान् स दिदृक्षु५९ रुदारधीः ।
मुनिर्देवमनाश्चैव प्रणतार्तिहरं शिवम् ॥७१ ॥
इति स्कन्दपुराणे नन्दितपःप्रवेशो नाम विंशतितमोध्यायः ६