त्प्रीति - घ. । २९ सहसा… - घ. । ३० र्थौ - घ. । ३१… रेत् - घ. । ३२ ब्राह्मणान्न - घ. । ३३ प्राह - घ. । ३४ रियु - घ. ।
सनत्कुमार उवाच
एवं तव पिता व्यास रक्षःसत्रं समाहरत् ।
समापयित्वा च पुनस्तपस्तपति सत्वरम्१ ॥१ ॥
तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् ।
उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः२ ॥२ ॥
वसिष्ठ उवाच
पितरः पुत्रकामा वै तपस्तप्त्वातिदुश्चरम् ।
पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम् ॥३ ॥
यत्नतः सन्ततिश्चैव ज्ञानवाँस्तपसान्वितः ।
करिष्यति गतिं दैवीमिति वेदविदो विदुः ॥४॥
सद्यस्तपोन्वितश्चैव ज्ञानवान् यशसान्वितः ।
पुत्रः पुत्रवतां श्रेष्ठो विहीनः (?) प्रजया विभो ॥५॥
तस्मात् पितॄणामानृण्यं गच्छ व्रतवतां वर ।
सुतमुत्पादय क्षिप्रं सममेव च भावन ॥६॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी वसिष्ठेन महात्मना ।
मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुस्तरम् ॥७॥
तस्य कालेन महता तपसा तारितस्य तु ।
उमापतिर्वरं प्रादात् स च वव्रे वरं सुतम्३ ॥८॥
स लब्ध्वा वरमागत्यान्वेषयत् पुत्रकारणात् ।
क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥९॥
स भ्रमन् दाशराजस्य४ दुहितृत्वमुपागताम् ।
पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम ॥ 8.19.१० ॥
सस्वरम् - घ. । २… मदव्यय - घ. । ३ शुभम् - घ. । ४ दासराजस्य - घ.
मत्स्यगर्भसमुत्पन्नां मत्स्यबीजोद्भवां पुरा ।
अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम् ॥११ ॥
तस्यां स जनयामास वरं दत्त्वा महातपाः ।
भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम् ॥१२॥
तव पुत्रोभवच्चापि शुको वेदविदां वरः ।
तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा ॥ १३॥
व्यास उवाच
तादृग् वैरं परं ब्रह्मन् विश्वामित्रवसिष्ठयोः ।
कथं चापि गतं भूय एतदिच्छामि वेदितुम् ॥१४॥
सनत्कुमार उवाच
पराशरे तु गर्भस्थे रिपुत्वम्६ गाधिजे गते ।
सरस्वत्यां कुरुक्षेत्रे वसतोः स्वाश्रमे तयोः७ ॥१५॥
तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता ।
नियतस्य वसिष्ठस्य हतं पुत्रशतं रुषा ॥ १६॥
।
मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् ॥१७॥
सरस्वतीमथैकान्ते वसिष्ठं - - - - - ’ ।
स्रोतसा महता क्षिप्रं स्नायमानमिहानय ॥ १८ ॥
सैवमुक्ता९ तु तं गत्वा वसिष्ठं प्राह दुःखिता ।
यदुक्तवाँस्तु गाधेयः१० स चोवाच महानदीम् ॥ १९॥
एवं कुरु महाभागे मां ११ नयस्व यथेप्सितम् ।
मा ते क्रूरः स गाधेयः शापं दद्यात् सुदुस्तरम् ॥8.19.२० ॥
सनत्कुमार उवाच
गाधेयस्य ततः सा तु जुह्वतोथ दिवाकरे ।
मध्यं प्राप्तेनयच्चैव१२ वसिष्ठं स्रोतसा शुभा ॥२१ ॥
यस्यां - घ । ६.. त्र - ध. । ७ द्वयो र्वस्थाप्रमे (.. रप्याश्रमे?) - घ. । ८ मे महारगे - घ. । ९.. क्त्वा - घ. । १०… यं - घ. । ११ मा - घ. [ १२ त्वेव - घ. ।
स तं दृष्ट्व्रा हृतं व्यास स्रोतसा मुनिसत्तमम् ।
उवाच छद्मना सोस्मद्वेगेनापहृत१४ स्त्वया ॥२२॥
तस्मात्त्वं कर्मणानेन सातृक्तोया भविष्यसि ।
विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा ॥ २३ ॥
अवहद्रुधिरं घोरं१५ मासं मेदस्तथैव च ।
त्रिश्वामित्रस्ततो गत्वा देवानामधिपं तदा१६ ॥२४॥
उवाच वज्र मे देही शरीरं चैव कौशिकः१७ ।
दुर्वृत्तं हि हनिष्यामि वसिष्ठं ब्राह्मणाधमम् ॥२५॥
पुत्राः शक्र मया तस्य निहताः पापचेतसः ।
तान् हत्वापि न मे शान्तिर्भवित्री चैव देवप ॥२६॥
शक्र उवाच
ब्रह्मज्ञानौ वसिष्ठश्च तव चात्मनि सत्तम । ( -)
निर्वेशे सोममेतेषां नो मुक्तं भव वेदितुम् (?) ॥२७॥
ततः समभिक्रुद्धोसौ गाधेयः शक्रमोजसा ।
योगात् प्रच्यावयामास१८ शरीरात् कालिनन्दन ॥२८॥
स तच्छरीरमाविश्य वृत्रशत्रोः प्रतापवान् ।
वज्रोद्यतकरो भूत्वा छिद्रान्वेष्यवतिष्ठत ॥२९॥
ज्वलन्तं स त१९मग्निं तु (?) वज्रेण शतपर्वणा ।
चिच्छेद सप्तथा कृत्वा मुनीनामेव पश्यताम् ॥8.19.३० ॥
खण्डान्यथ समानीय क्षिप्रमेव मुनिः स्वयम् ।
सन्धाय स्वशरीरं२० वै सक्रोधो वाक्य२२ मब्रवीत् ॥३१ ॥
तिष्ठ कौशिक मेदानीं मया दृष्टो गमिष्यसि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥३२॥ ।
दिवाकराद् वै (?) कबन्धाः पेतुः शतसहस्रशः ॥३३ ॥
- ॥३२॥ ।
-
-
-
-
-
-
-
-
-
-
-
-
-
म घ । १४… कृत - घ. । १५ चौर - घ. । १६.. ?स्तथा - घ. । १७. क - ध. । १८ प्रछा… - घ. । १९ शत - घ. । २० स शरीरं - घ । २१ राज्य - घ. ।
अशून्यं२२ रुधिरं चैव गगनाच्च पपात ह ।
ववुश्चात्यशुभा२३ वाता विमानान्यरातन् दिवः२४ ॥३४॥
नेयुर्वेदाश्च विप्राणां नागाश्चाकाशगास्तथा ।
एवमादीँस्तदोत्पातान् विविधाल्ँलोकनाशनान् ॥३५॥
दृष्टवा देवाः समुनयस्तमाहुर्गाधिनन्दनम् ।
वसिष्ठश्च महातेजास्त्वं च गाधेय धार्मिक ॥ ३६॥
अमरौ जरया त्यक्तौ तपोयोगबलान्वितौ ।
युवयोर्हि क्षयं नास्ति क्षयं च न करिष्यथः ॥३७॥
देवानां सर्वलोकानां युध्यमानौ२५ परस्परम् ।
मत्तयोर्गजयोर्यद्वदरण्ये युध्यमानयोः ॥ ३८ ॥
वीरुधां भूरुहां चैव सम्मर्द्देन क्षयो महान्२६ ।
तथा वैरेण युवयोः प्रवृत्तेन महात्मनोः२७ ॥।३९॥
लोकानामनयो व्यक्तं२८ भविष्यति न संशयः ।
तस्माद्विनाशं - - - लोकानामृषिभिः सह ॥8.19.४० ॥
युवयोरस्तु सख्यं च क्षयो वैरस्य चाथ वै ।
स एवमुक्तो गाधेयो मुनिभिर्दैवतैः सह ॥४१ ॥
एवमस्त्विति तान्प्राह विस्मितस्तेजसा तदा ।
ततो वसिष्ठमप्येवमूचुः सर्वे दिवौकसः ॥४२॥
असा२९वपि तथैवेति तेन सख्यं चकार ह ।
ततःप्रभृति सर्वं वै जगत् स्थावरजङ्गमम् ॥४३ ॥
ससुखं प्रीतिसंयुक्तं मुमुदे३० विगतज्वरम्३१ ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ १४॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
न्यो - घ. । २३ प्यसुरा - घ. । २४.. द् गिर. - घ. । २५.. न. - घ. । २६ सप्तवैद्यनयोर्म… - घ, (?) व - घ. । २७ .. ना घ. । २८ र्व्र्यक्तं - घ. । २९ तासा… - घ. । ३० ययुर्देवि… - घ. । ३१ देवैर्गतज्वरम् - घ. ।
सनत्कुमार उवाच
अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः ।
अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥४५॥
महतस्तपसः शक्ताः (?) कालेन महता तदा ।
वसिष्ठस्य तु तां क्षान्तिं ज्ञात्वा स ऋषिपुङ्गवः ॥४६॥
विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।
एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ ॥४७॥
सनत्कुमार उवाच
य इदं शृणुयाद्विप्रो ब्राह्मणाञ्छ्रावयीत वा ।
सुदुस्तराणि दुर्गाणि तरत्य३२ श्रान्तपौरुषः ॥४८ ॥
त्रिपौरुषौदार्यविहारसत्वैः समुन्नतश्चोज्ज्वलचारुवेषः ।
भवेच्च सर्वामरराजतुल्यस्त्रिविष्टपे क्रीडति चेच्छया स्वयम् ॥४९॥
एवं तदभवद् व्यास विश्वामित्रवसिष्ठयोः ।
वैरं समाप्तं लोकानां हितार्थं पुनरेव च ॥8.19.५० ॥
इति स्कन्दपुराणे वैरनिवर्तनं नाम ऊनविंशोध्यायः