सनत्कुमार उवाच
ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया ।
वनं विवेश तत्राभूत् पुरुषादो महाबलः ॥१ ॥
सोभक्षयत तत्राग्रे शक्तिमेव महामुनिम् ।
ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः ॥२ ॥
र्थं - घ. । ३४… सीनं - घ. ।
ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः ।
नोत्ससर्ज ततः क्रोधं वसिष्ठः कौशिकं प्रति ॥३ ॥
पुत्रशोकेन महता भृशमेवान्वतप्यत१ ।
स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः ॥४॥
नद्यामात्मानमसृजच्छतरात्रं वसत्तया(?) ।
-
-
- इति तां प्राहुर्मुनयः शंसितव्रताः२ ॥५॥
-
पुनः पाशैर्दृढं बद्ध्वा अन्यस्यामसृजद् वशी ।
तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः ॥६ ॥
ततो वापीं समामाद्य निराहारो जितेन्द्रियः ।
वायुभक्षस्तदा तस्थौ स्वदेहं परितापयन् ॥७॥
अथ शुश्राव गच्छन्तं ध्वनिमेकस्य सुस्वरम् ।
अधीयानस्य तत्रासौ३ ध्यानमेवान्वपद्यत ॥८॥
अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा ।
उपतस्थेग्रतः पत्नी शक्तेर्दीनानने४क्षणा ॥९ ॥
तामुवाच कुतस्त्वं वै कस्यैवं श्रूयते ध्वनिः ।
सोवाच५ दीनया वाचा वदतां शुश्रुवं(?) तदा ॥ 8.18.१० ॥
अदृश्यन्त्युवाच
यदैव सुतदुःखेन६ निर्गतोस्या७श्रमाद् गुरो८ ।
तदाप्रभृत्येव चाहं भगवन्तमनुव्रता ॥ ११ ॥
अधीयानस्य चैवायम्९ ध्वनिः पौत्रस्य ते विभो ।
उदरस्थस्य श्रुतो मे१० मा दुःखं११ दुःसहं१२ कृथाः ॥ १२॥
नु कीर्त्यते - घ. । २ संशि.. - घ. । ३,.. सु (शु?) - घ. । ४ नल ( ‘?) - घ. । प्र नोवाच - घ. । ६ सुखदुःखेन - घ. । ७ तस्या - घ. । ८… रोः - घ. । ९… हं - घ. । १० मे मृतो - घ. । ११ न्सुदुःखे? ( खेदं?) - घ. । १२ द्रूसमः - घ. ।
सनत्कुमार उवाच
—— – - - - - - - - – – — — — – - – – ।
इदानीमस्ति मे वत्से१३ जीविताशेति सो१४ ब्रवीत्१५ ॥ १३ ॥ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ १४॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- – – - - – - - – – - - – -।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ॥ १५ ॥
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ।
उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम् ॥ १६ ॥
- ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- – - - - - - - – - - - - - – - — - -।
दग्धेन च१६ त्वया किं मे गच्छ मुक्तोसि दुर्मते ॥ १७॥
- – - - - - - - – - - - - - – - — - -।
-
सनत्कुमार उवाच
ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।
प्रणम्य सहसा भीतो जगाम कौशिकान्तिकम्१७ ॥ १८॥
निशाचरे गते राजा प्रणम्य शिरसा मुनिम् ।
प्रसादयामास तदा स चोवाचेदमर्थवत् ॥१९॥
न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै ।
कृतास्तेन कृताः (?) पुत्रा निमित्तं तत्र राक्षसः ॥8.18.२० ॥
प्रशाधि राज्यं राजेन्द्र पितृपैतामहं१८ प्रियम् ।
ब्रूहि किं वा प्रियं तेद्य करोमि नरपुङ्गव ॥२१ ॥
राजोवाच
इच्छामि भगवन् पुत्रं त्वयो१९ त्पादितमच्युत ।
देव्यामस्यां महासत्वं तत्कुरुष्व मम प्रियम् ॥२२ ॥
त्स - घ. । १४ वा ( ताम्) - घ. । १५ इतः परमपि मूले कियानंशः खण्डित इव प्रतिभाति । १६ न - घ. । १७ न्ताकं - घ. । १८ ह… - घ. । १९ म… - घ,, ममो? ।
सनत्कुमार उवाच
एवमस्त्वित्यथोक्त्वासौ तस्य२० पत्न्यां महाव्रत२१ ।
पुत्रं च लोष्टकं२२ नाम जनयामास विश्रुतम् ॥२३ ॥
तं लोष्टकं ततो राज्ये स्व२३ पुत्रमभिषिच्य सः ।
जगाम वनमेवाथ सभार्यस्तपसि२४ स्थितः ॥२४॥
वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् ।
अदृश्यन्त्यां भवत्पुत्रो नाम्ना स हि पराशरः ॥२५॥
वसिष्ठं तु तदा धीमान् तातमेवाभ्यमन्यत ।
तात तातेति च मुहुर्व्याजहार पिता गुरुः ॥२६ ॥
ततः कदाचिद् विज्ञाय भक्षितं रक्षसाशुचिम् ।
पितरं तपसा मन्त्रै रजरक्षकृतौ (?) तदा ॥२७,।
ततः कोट्यः सपञ्चाशद्रक्षसां क्रूरकर्मणाम् ।
जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद् द्रुतम् ॥२८ ॥
सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः ।
ऋषिभिर्दैवतैश्चैव इदमाह पराशरम् ॥२९॥
ब्रह्मोवाच
देवतास्तर्पयन्ति स्म यज्ञैर्मन्त्रपुरःसरैः ।
अष्टमं स्थानमेतद्धि देवानां मा२५ त्व२६मीदृशम् ॥8.18.३० ॥
पराशर उवाच
सह देवैरहं सर्वान् लोकान् धक्ष्यामि पावकैः ।
दग्ध्वान्यान् प्रथयिष्यामि तत्रालोकान्न संशयः ॥३१ ॥
सनत्कुमार उवाच
तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः ।
उवाच श्लक्ष्णया वाचा सान्त्वयन्२७ तमिदं वचः ॥३२ ॥
स्यां - घ. । २१… त - घ. । २२ नोष्टकं… - घ. । २३… ज्यम… - घ.,.. .ज्ये स - पुत्रमभिषिच्य च (?) । २४… से - घ. । २५.., ना - घ । २६ त्य - घ । २७ शान्तरं त्व - घ., सान्तरं त(?) ।
पितामह उवाच
कृतमेतन्न सन्देहो यथा ब्रूषे महामुने ।
क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रिय२८ चिकीर्षया ॥३३ ॥
यैस्ते पिता महाभाग भक्षितः सहसोदरः२९ ।
त एवाग्नौ३० तु होतव्या विश्वमित्रस्य पश्यतः ॥३४॥
अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः ।
तस्य सङ्कल्पसन्तुष्टो मन्यं द्यतमुदाहरत्३१ ॥३५॥
वसिष्ठस्य महाभाग त्वं निवारय पौत्रकम् । (?)
देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् ॥३६॥
ऋषयश्चैव स क्रुद्धस्तपोयोगबलान्वितः ।
विहिद्य (?) तपसो योगाद्धोष्ये दीप्ते विभावसौ ॥३७॥
सनत्कुमार उवाच
ततो देवाः सगन्धर्वाः पितामहपुरस्सराः ।
प्रभावं तस्य ते ज्ञात्वा पराशरमपूजयन् ॥३८॥
हतेषु च ततस्तेषु रक्षस्सु सुदुरात्मसु ।
सञ्जहार ततः सत्रं ब्रह्मणोनु३२ मते सदा ॥ ३९॥
सनत्कुमार उवाच
य इदं श्राद्ध३३ काले वा दैवे कर्मणि वा द्विजान् ।
श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः ॥8.18.४० ॥
पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् ।
निशम्य - - - - - - - - - रीयुः३४ कुलसिद्धिसम्भवम् ।४१ ॥
इति स्कन्दपुराणे राक्षससत्रं नामाष्टादशोऽध्यायः ।