०१७

व्यास उवाच
कस्मात् स राजा तमृषिं चखाद तपसान्वितम् ।
रक्षसा स किमर्थ च हृतचेता१ भवन्नृपः ॥१ ॥

पुङ्गवः - - क. । ११ क्ष्यतः (त?) - क. । १२ वर एवं ह्यभाषत - घ. । १३… व्रते - क. । १४ ञ्चादधे - घ. । १ कृतचेता - घ. ।
वसिष्ठयाज्यो२ राजासीन्नाम्ना मित्रसहः३ प्रभुः ।
सौदासस्तस्य पुत्रोभू४दिन्द्रचन्द्रसमद्युतिः ॥२॥

समागम्याब्रवी५च्छक्तिश्चरिष्ये दीक्षितो व्रतम् ।
ततो मे निशि राजेन्द्र सदैव६ पिशिताशनम् ॥३ ॥

इहागतस्य यच्छ त्वं शुचि७ सर्वगुणान्वितम् ।
सुप्रभाहार८ संयुक्तमेकस्यैकान्त९ एव च ॥४॥

एवमस्त्विति तेनोक्ते जगाम स महामनाः ।
अथास्यान्तर्हितं रक्षो१० नृपतेरभवत्तदा ॥५॥

सूदान्ना११ ज्ञापयत् तेन१२ तस्यार्थे मुनिसत्तम१३ ।
गते च दिवसे तात संस्मृत्याथ यतात्मवान् ।
सूदमाहूय१४ प्रोवाच आर्तवत्१५ स नराधिपः ॥६॥

सौदास उवाच
मया मृतवसो प्रातर्गुरुपुत्रस्य धीमतः ।
पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् ॥७॥

तत्कुरुष्व यथाक्षिप्रं कालो नोपरमेद्यथा ।
स एवमुक्तः प्रोवाच सूदो१६ मृतवसुस्तदा ॥८॥

राजंस्त्वया त्वनाख्यातं प्रागेव नरपुङ्गव ।
साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम् ॥९ ॥

पिशितस्यैव१७ चाल्पस्य बहूनां चैव भूभुजाम् ।
अमृतस्य(?) प्रदानाच्च न किञ्चिदवशिष्यते ॥8.17.१०॥

राजोवाच
जाने सर्वोपयोगं च जाने चा१८ दुष्कृतं तव ।
जाने स्तोकं च पिशितं कार्यं चेदं१९ तथाविधम् ।
मृग्यतां२० पिशितं क्षिप्रं लुब्धकं यत्र मन्यसे ॥ ११ ॥

राज्ये - घ. । ३… सख - घ । ४ तस्य पुत्रश्च सौदासो - घ. । ५ वदत् - घ. । ६ सदे.,. - घ. । ७.. चिः - घ. । ८.. .कार - घ. । ९ स्ये… - घ. । १० वश्यो - घ. । ११ मुद्वाना.. - ध. । १२ त्तत्र - घ. । १३ मक्षः - घ. । १४ इदमाहूय - घ. । १५ मार्त.. - घ. । १६ सृतो - घ. । १७… स्येव - ध. । १८ वा - घ. १९ यथाविधम् - घ. । २० भु (यु? यो?) ज्यतां - घ. ।
सनत्कुमार उवाच
पिशितं मृगयन् यत्नान्नाप्यविन्दत कर्हिचित् ।
यदा न लब्धवान् मांसं तदोवाच२१ नराधिपम्२२ ।
मृगयन् सार (?)खि२३ न्नोस्मि शाधि२४ किं करवाणि ते ॥ १२॥

सनत्कुमार उवाच
स एवमुक्तः सूदेन तस्मिन् काले नराधिपः ।
नोवाच किञ्चित्तं सूदं विमनाः२५ स बभूव ह ॥१३ ॥

इदमन्तरमासाद्य विश्वामित्रसमीरितः ।
राक्षसो रुधिरो नाम संविवेश नराधिपम् ॥ १४॥

राक्षसेन तदाविष्टो रुधिरेण दुरात्मना ।
उवाच सूदं२६ शनकैः कर्णमूले महाद्युतिः ॥१५॥

गच्छ यत्किञ्चिदानीय मांसं मानुष्यकं ततः ।
गार्दभं वाप्यथौष्ट्रं वा शीघ्रं२७ संस्कर्तुमर्हसि ॥ १६॥

किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् ।
रसवद् गन्धवच्चैव२८ क्षिप्रमेव समानय ॥ १७॥

सनत्कुमार उवाच
एवमुक्तस्तु तेनाथ मानुषं मांसमाददे ।
राजापकारिणो व्यास सूदो२९ शिष्टस्य कस्यचित् ॥१८॥

अथार्धरात्रसमये भास्कराकारवर्चसम् ।
राजानल३० समप्रख्यमपश्यन्मुनिसत्तमम् ॥ १९॥

स तमर्घ्येण पाद्येन आसनाग्रवरेण च ।
अर्नयित्वा३१ तु विधिवदन्नमस्योपपादयत्३२ ॥8.17.२० ॥

तत्रौ घ । २२ प घ २३ थि घ २४ सा घ। २५ विमूढः ? । २६ शृङ्ग घ २७ सर्वं घ २६७। ग - घ. । २७- सर्वं - घ. । २८ वशबन्धयुव - घ. । ( रसगन्धयुतं चैव?) । २९ मृतो - ध. । ३० शतानन… - घ. । ३१ सोर्चवित्वा - घ । हे २ त्त्वन्नभस्यो… - घ. ।
स तदन्नं३३ समानीतं३४ समालभ्य महातपाः ।
चुकोप क्षोभितं चापि पार्थिवं प्रहसन्निव ॥२१ ॥

शक्तिरुवाच
पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् ।
न दीयते विधिज्ञेन त्वं तु मामवमन्यसे ॥२२ ॥

यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् ।
तस्मात्त्वं कर्मणानेन पुरुषादो भविष्यसि ॥२३॥

सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी राजा सञ्चिन्त्य तत्तदा ।
उवाच क्रोधरक्ताक्षो राक्षसाविष्ठचेतनः ॥२४॥

पुरुषादो भवेत्येवं मामवोचद् भवान् यतः ।
अतस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज ॥ २५॥

भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् ।
चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंयुतम् (?) ।
पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम् ॥२६ ॥

इति स्कन्दपुराणे एकाशीतिसाहस्र्यां संहितायामम्बिकाखण्डे कल्माषपादशापः सप्तदशोऽध्यायः