०१६

निगदितं - घ. । ४८.. ष्यन् (?) - घ. । ४९ वृषभध्बज इति च - घ. । ५० क्षणेना… - घ. ।
वरान् स[^१] लब्ध्वा भगवान् वसिष्ठोस्मत्पितामहः[^२] ।
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ॥१ ॥

सनत्कुमार उवाच
तेनासौ वरदानेन देवदेवस्य शूलिनः ।
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ॥२ ॥

ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ।
तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ॥३॥

रभसोपगता[^४] भक्तिरभवद् गोवृषध्वजे ।
स कदाचिदपत्यार्थमाराधयदुमापतिम् ॥४॥

तस्य तुष्टो महादेवो वरदोस्मीत्यभाषत ।
अथ दृष्टवा तमीशानमिदमाहानताननः[^५] ॥५॥

केन स्तोष्यामि[^६] ते[^७] देव यस्त्वम्[^८] सर्वजगत्पतिः ।
सर्वान् धारयसे लोकानात्मना समयाद्विभो ॥६॥

त्वमेव भोक्ता भोज्यञ्च कर्ता कार्यं तथा क्रिया ।
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ॥७॥

आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।
इच्छामि दत्तन्देवेश एष मे दीयतां वरः ॥८॥

सनत्कुमार उवाच
तमेवंवादिनं देवः प्रहस्य वदतां वरः ।
उवाच वचसा व्यास दिशः सर्वा विनादयन्[^९] ॥९॥

लब्ध्वा तु - घ. । २ ने पि-… - घ. । ३ वसिष्ठस्य - घ. । ४ मनसा तपसा - क. । ५… माहर… - घ- । ६ तो… - क. । ७ त्वां - घ । ८ यत्त्वं - घ. । ९ व्यपादयन्(?) - क, ।
त्वयाहं याचितः शक्ते स च ते सम्भविष्यति ।
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुङ्गव१० ॥8.16.१०॥

बीजात्मा च तथोद्भूतः स्वयमेवान्तरात्मना ।
बीजात्मना न भवति परिणामान्तरङ्गतः ॥११॥

एवं स आत्मनात्मा नः सम्भूतोपत्यसञ्ज्ञितः ।
स्वेनात्मना न भविता परिणामान्तरं गतः ॥१२॥

सनत्कुमार उवाच
एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्षतः११ ।
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ॥१३ ॥

तस्मिन् गते महादेवे शक्तिस्तव पितामहः ।
वचस्तत् परिनिश्चित्य एवमेवेत्यमन्यत१२ ॥१४॥

अथ कालेतिमहति समतीते शुभप्रदे१३ ।
तपसा भावितश्चापि महताग्निसमप्रभः ॥१५॥

अदृश्यन्त्यां महाप्रज्ञ आदधे१४ गर्भमुत्तमम् ।
तस्यामापन्नसत्वायां राजा कल्माषपादृषिम् ।
भक्षयामास संरब्धो रक्षसा हृतचेतनः ॥१६॥

इति स्कन्दपुराणे षोडशोध्यायः