सनत्कुमार उवाच
प्रविष्टे भवनं देवे सूपविष्टे वरासने
सवह्निर्मन्मथः क्रूरो देवं वेद्धुमना[^१] भवत् ॥१॥
तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान् सर्वान् तापयानम्[^२] सर्वेष्वकरुणात्मकम् ॥२॥
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह[^३] ।
चक्राह्वयस्य रूपेण रत्या सह समा[^४]गतम् ॥ ३ ॥
च - क. घ. । २३ वरदो - घ. । २४ तदैव भगवन् शम्भो - घ. । २५ श्र - ध. । २६ भगवास्ता - घ- । २७ तद् -क. । २८ ह्येतत् - घ., ह्येतं (?) ’ । २९ सर्वलोकगो - घ. । ३० चामराधिपैः - घ. ।
सन्धिरार्षः । ह्यभूदिति वा पाठः कल्प्यः । २ तापमान - घ. । ३ तथैव च - घ, । ४ तया - घ.
अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् ।
नयनेन तृतीयेन सावज्ञं तमवैक्षत ॥४॥
ततोस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
संवृत्य[^५] रतिभर्तारमदहत् सपरिच्छदम् ॥ ५॥
स दह्यमानः करुणमार्त्तोक्रोशत विस्वरम् ।
प्रसादयँश्च तं देवं पपात स महीतले ॥ ६॥
आशु सोग्निपरीताङ्गो मन्मथो लोकतापनः[^६] ।
पपात भस्मसाच्चैव क्षणेन समपद्यत ॥७॥
पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवं देवीञ्च[^७] रुदती[^८] अयाचत् करुणायती ॥८॥
तस्यास्तत्[^९] क्रन्दनं[^१०] श्रुत्वा[^११] देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च[^१२] दुःखिताम् ॥९॥
दग्ध एष ध्रुवं भद्रे[^१३] नास्योत्प[^१४]त्तिरिहेष्यते ।
अशरीरोपि ते काले कार्यं सर्वं[^१५] करिष्यति ॥8.15.१० ॥
यदा तु विष्णुर्भविता वसुदेवसुतः शुभे ।
तदा तस्य सुतो ह्येष[^१६] पतिस्ते भविता रते[^१७] ॥ ११ ॥
सनत्कुमार उवाच
ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं[^१८] तदा देशं प्रीतियुक्ता गतक्लमा[^१९] ॥ १२॥
सनत्कुमार उवाच
एवं दग्ध्वा स कामं तु शङ्करो मूढचेतसम् ।
प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह ॥ १३ ॥
सम्भूत्तं - घ. । ६ पातनः - क. । ७ देवी देव च - घ । ८ दुःखार्ता - क । ९ श्र - घ । १० करणं - घ. । ११ ज्ञात्वा - घ. । १२ सु - घ. । १३ तत्र - घ. । १४ नान्यो. - घ. । १५ सर्वकायं - घ. । १६ प्येष - घ., यः स्यात् - क । १७ स भविष्यति - क. । १८. ष्टतमं - घ । १९ शम्भोराधनकाम्यया - घ. ।
वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते ।
तस्याहं वरदानाय प्रयास्यामि महाव्रते ॥ १४॥
एवमुक्त्वा स देवीं तु भक्त[^६०] प्रीत्या तदा विभुः ।
जगाम तपतो[^२१] भ्यासं वसिष्ठस्य मुनेर्विभुः ॥१५॥
ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् ।
वसिष्ठमृषिशार्दूलं तप्यमानं परन्तपः ॥१६॥
पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् ।
उवाच भगवान् गत्वा ब्रूहि किन्ते[^२२] ददान्यहम्[^२३] ॥१७॥
ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज ।
दृष्टवा तु स तमीशानं[^२४] प्रणम्य शिरसा प्रभुम्[^२५] ।
शिरस्यञ्जलिमाधाय[^२६] तुष्टाव हृषिताननः ॥ १८ ॥
वसिष्ठ उवाच
नमः कनकलिङ्गाय[^२७] वेदलिङ्गाय[^२८] वै नमः ।
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ॥१९॥
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमः परमलिङ्गाय[^२९] ब्रह्मलिङ्गाय वै नमः ॥8.15.२० ॥
नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः ।
नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः ॥२१ ॥
नमो रहस्यलिङ्गाय सप्तद्वीपाध्वलिङ्गिने[^३०] ।
नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने[^३१] ॥२२ ॥
नमोस्त्वव्यक्त[^३२] लिङ्गाय बुद्धिलिङ्गाय वै नमः ।
नमोहङ्कारलिङ्गाय भूतलिङ्गाय वै नमः ॥२३ ॥
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ।
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ॥२४॥
भक्ति -क, भक्त्या घ। २१ तप्यतो - क. । २२ किन्न - घ. । २३ वदा - क., ददानि ते - घ. । २४ ततस्तमीशानं - क. । २५ विभुः - घ. । २६ मादा… - घ- । २७… पिङ्गाय - घ. । २८ स्थिति… - घ. । २९ पवन.. - क. । ३० सर्वनोकाङ्गः.. - घ. । ३१ सत्वलिङ्गाय वै नमः - ध. । ३२ नमः प्रकृतिः.. - घ. ।
नमः सत्वोर्ध्वलिङ्गाय[^३३] तमोलिङ्गाय वै नमः ।
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः ॥२५॥
नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः ।
नमो वामूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः ॥२६॥
नम ऋक्स्नुतलिङ्गाय यजुर्लिङ्गाय वै नमः ।
नमस्तेथर्वलिङ्गाय सामलिङ्गाय वै नमः ॥ २७॥
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्तेनन्तलिङ्गाय वेदानुगतलिङ्गिने[^३४] ॥२८॥
दिश नः[^३५] परमं योगमपत्यं मत्समं तथा[^३६] ।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् ॥२९॥
सनत्कुमार उवाच
एवं स भगवान् व्यास वसिष्ठेनामितात्मना ।
स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥8.15.३० ॥
भगवानुवाच
तुष्टस्तेहं ददाम्येतत्[^३७] तव सर्वं मनोगतम् ।
योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् ॥३१ ॥ ३८
पुत्रञ्च[^३९] त्वत्समं दिव्यं तपोयोगबलान्वितम् ।
ज्ञानानि[^४०] च[^४१] ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते[^४२] ॥३२॥
दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च ।
नित्यं तव भविष्यन्ति अमरत्वं च[^४३] सर्वशः ॥३३ ॥
अवश्यत्व[^४४] मसह्यत्वमक्षयत्वञ्च सर्वदा ।
वंशस्य चाक्षतिर्विप्र धर्मे च मति[^४५]रव्यया ।
ब्रूहि चान्यानपि वरान् ददामि[^४६] ऋषिसत्तम ॥३४॥
सर्वार्थ.. - घ- । ३४ देवानुगत … - क. । ३५ मे - घ. । ३६ यथा - घ. । ३७ ददान्ये… - क. घ. । ३८ सार्वकामिदं - घ. । ३९ पौत्रञ्च - क. । ४० ददानि - क. । ४१ ते - क. घ. । ४२ ह - घ. । ४३ हि - घ. । ४४… ध्यत्व - क. । ४५ रति - घ. । ४६ ददानि - क. घ. ।
वसिष्ठ उवाच
भगवन् विदितं[^४७] सर्वं भूतं यद्वर्तनं विभो ।
भविष्यं[^४८] येन जानीयां तन्मे देव विधीयताम् ॥३५॥
देव उवाच
भविष्यं स्वेच्छया कुर्यामिति ज्ञातुं न शक्यते ।
तदपि मत्प्रसादेन ज्ञास्यसि निर्वृतो भव ॥३६॥
वसिष्ठ उवाच
भगवन् विदितं सर्व भविष्यं देवसत्तम ।
तस्यापि तत्तथा देव यथा वा मन्यसे प्रभो ॥३७॥
देवदेव उवाच
भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः ।
-
-
-
-
-
-
-
- कथं कुर्यात्तदन्यथा ॥३८॥
-
-
-
-
-
-
तथा तन्नात्र सन्देहो विहितं यद्यथा मया ।
तस्मात्तेनुग्रहं कर्ता भूयः पुत्रस्तवाव्यय ॥३९॥
सनत्कुमार उवाच
एवमुक्त्वा ततो देवः कपर्दी नीललोहितः[^४८] ।
पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत[^५०] ॥8.15.४० ॥
इति स्कन्दपुराणे वसिष्ठवरप्रदानं नाम पञ्चदशोध्यायः