०१४

सनत्कुमार उवाच
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः सह पितामहाः[^१] ॥ १ ॥

तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम् ।
नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ॥२ ॥

नमः पवनवेगाय विरूपायाजिताय च ।
नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ॥ ३ ॥

वै देवदेवस्य - घ । १६४ श्च - क. । १६५ कृत्वा - क. । १६६ मुप… - क. । १६७… त - क. । १६८ हविः - घ. । १६९ त्रिषु - घ. । १७० स्तुत्वा - घ. । १७१ हसित घ. । १७२ सर्वदैवतैः- घ. । १०३ सिद्धैः - घ । १७४… ले - क. घन् ।
देवताः सपितामहाः - घ. ।
नमो नीलशिखण्डाय अम्बिकापतये नमः ।
नमः पवनरूपाय शतरूपाय वै नमः ॥४॥

नमो भैरवरूपाय विरूपनयनाय[^२] च ।
नमः सहस्रनेत्राय सहस्रचरणाय च ॥५ ॥

नमो वेदरहस्याय वेदाङ्गाय[^३] नमो नमः ।
विष्टम्भनाय[^४] शक्रस्य[^५] बाहो[^६]र्वेदाङकुराय च ॥६ ॥

चराचराधिपतये शमनाय नमो नमः ।
सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने[^७] ॥७॥

नमः कपालमालाय कपालस्रग्विणे नमः ।
नमः कपालहस्ताय दंष्ट्रिणे गदिने[^८] नमः ॥८॥

नमस्त्रैलोक्यनाथाय[^९] सप्तलोकनताय[^१०] च ।
नमः खट्वाङ्गहस्ताय प्रमथार्त्तिहराय च ॥९॥

नमो यज्ञशिरोहर्त्रे कृष्णकेशा[^११]पहारिणे ।
भगनेत्रनिपाताय पूष्णो दन्तहराय च ॥ 8.14.१० ॥

नमः पिनाकशूलासिखड्गमुद्गरधारिणे ।
नमोस्तु कालकालाय तृतीयनयनाय[^१२] च ॥ ११ ॥

अन्तकान्तकृते चैव नमः पर्वतवासिने ।
सुवर्णरेतसे चैव शङ्खकुण्डलधारिणे ॥ १२॥

वाड्वले(?) र्योगनाशाय योगिनां गुरवे नमः ।
शशाङ्कादित्यनेत्राय ललाटनयनाय च ॥ १३ ॥

नमः श्मशानरतये श्मशानवरदाय च ।
नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ॥१४॥

पाय हराय - घ. । ३ देवाज्ञा (देवज्ञा?) य - घ. । ४ विश्वम्भराय - घ. । ५ शक्राय - घ. । ६ राहो - घ. । ७ युगान्तस्तोभ… - घ. । ८ ङ्ग.. - १) । ९ वाहाय - क. । १० रथाय - क. । ११.. स्य केशः… - घ. । १२ नयनत्रितयाय (?) ।
अशनीशतहासाय ब्रह्मण्यायाजिताय च ।
गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे ॥ १५॥

नमो मुण्डार्धगण्डाय[^१३] पशूनां पतये नमः ।
सलिले तप्यमानाय योगैश्वर्यप्रदाय च ॥ १६॥

नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे ।
नमोनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ॥ १७॥

नमो रुद्राय वसवे आदित्याया[^१४]श्विने नमः ।
नमः पित्रेथ साध्याय[^१५] विश्वेदेवाय वै नमः ॥ १८ ॥

नमः शिवाय[^१६] शर्वाय[^१७] उग्राय वरदाय च ।
नमो भीमाय सेनान्ये पशूनां पतये नमः ॥ १९॥

शुचये रेरिहाणाय सद्योजाताय वै नमः ।
महादेवाय चित्राय नमश्चित्ररथाय च ॥8.14.२० ॥

प्रधानाया[^१८]प्रमेयाय कार्याय करणाय च ।
पुरुषाय नमस्तेस्तु पुरुषेच्छाकराय च ॥२१ ॥

नमः पुरुषसंयोगप्रधानगुणधारिणे ।
प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ॥२२॥

कृता[^१९]कृतस्य सं(?)वेत्रे फलसंयोगदाय च ।
कालज्ञाय च सर्वत्र नमो नियमचारिणे[^२०] ॥२३ ॥

नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च ।
नमस्ते[^२१] देवदेवेश नमस्ते भूतभावन ।
शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो ॥२४॥

सनत्कुमार उवाच
एवं स भगवान्देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत् ॥२५॥

मुक्तार्धमुण्डाय - घ । १४ य नमो नमः - घ । १५ सवित्रे च सावित्राय - घ। १६ सर्वाय क। १७ -… य - क. । १८… य - क. । १९ कृते - घ. । २० का… - घ. । २१ नमोस्तु - घ. ।
द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः ।
परं ब्रूत यथेष्टं वो[^२२] दातास्मि वदता[^२३]नघाः ॥२६॥

ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः ।
तथैव भगवन्नस्तु[^२४] वर एषोवतिष्ठताम् ॥२७॥

यदा कार्यं तदा नस्त्वं[^२५] दास्यसे वरमीप्सितम् ।
एवमस्त्विति तानुक्त्वा विसृज्य च सुरान् हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः[^२६] ॥२८॥

यस्तु हरोत्सवमद्भुतमेतं[^२७] गायति दैवतविप्रसमक्षम् ।
सोप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात् ॥२९॥

सनत्कुमार उवाच
पाराशर्य स्तवं हीमं[^२८] शृणुयाद्यः पठेत वा ।
स स्वर्गलोकगगो[^२९] भूत्वा पूज्यतेमरराडिव[^३०] ॥8.14.३०॥

इति स्कन्दपुराणे उमाविवाहस्तवो नाम चतुर्दशोध्यायः