०१३

सनत्कुमार उवाच
विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वयंवरः ॥१॥

अथ पर्वतराजोसौ हिमवान् ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥२॥

जानन्नपि महाशैलः समाचारक्रियेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥३ ॥

देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात् परमेशानं समक्षं येन मे सुता ॥४॥

तदेव[^२] सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥५॥

आब्रह्मकेषु[^३] लोकेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलम्[^४] देशं स्वयंवरमचीकरत्[^५] ॥६॥

त्वया - घ. । ६६ तपो - घ । ६७… वमक्षयं - क., वद - घ. ६८ प्रीतिमुदा युत -घ । ६९ व चव र च - ध. । १ भग.. - घ. । १.. बं - घ. । ३ अपेक्ष्य लोकान् - ध. । ८ कृत्वा वतरस्वयं - घ. । ५ मथाकरोत् - ध ।
?? अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः[^६] ॥७॥

प्रफुल्लपद्मासनसन्निविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः[^७] ।
विज्ञापितस्तेन महीध्रराजा[^८] पितामहस्तत्र समाजगाम ॥८॥

अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्या[^९]ङ्गहारस्रगुदात्तरूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् ॥९॥

आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात् पुरतः सुराणाम् ।
तेजः प्रतापा[^१०] ऽधिकदिव्यरूपः[^११] प्रोद्भासयन् सर्वदिशो विवस्वान् ॥8.13.१०॥

हैमं विमानं स चलत्पताक[^१२] मारुह्य[^१३] आगात् त्वरितं जवेन ।
मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने ॥११॥

समभ्यगात् कश्यपविप्रसूनुरादित्य आराद् १४ भगनामधारी ।
पीनाङ्गयष्टिः सुकृताङ्गःहारस्तेजोबलाज्ञासदृशप्रभावः ॥१२॥

दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन ।
महामहीध्रोच्छ्रय[^१५] पीनगात्रः स्वर्णादिरत्ना[^१६] चितचारुवेषः[^१७] ॥१३॥

समीरणः सर्वजगद्विभर्त्ता विमानमारुह्य समभ्यगाद्धि ।
सन्तापयन्सर्वसुरासुरेशाँस्तेजोधिक[^१८] स्तेजसि सन्निविश्य[^१९] ॥१४॥

वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन् प्रतस्थौ वरवेषधारी ।
नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् ॥१५॥

आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोभ्यगाच्च ।
आप्याययन् सर्वसुरासुरेशान् कान्त्या च वेषेण[^२०] च चारुरूपः ॥१६॥ ज्वलन्महारत्नविचित्ररूपं[^२१] विमानमारुह्य शशी समागात् ।
श्यामाङ्गयष्टिः सुविचित्रवेषः सर्व[^२२] स्रगाबद्धसुगन्धिमालः[^२३] ॥१७॥

,. शाः - ख घ. । ७… यः - घ. । ८.. .ज्ञा - क. ख. घ । ९… न्दि - क, र - क र - घ. । १० प्रभावा - घ. । ११… पं - घ. । १२ सपताकदण्ड - घ. । १३ आरूढ - घ । १४… आगाद् - क. ख. । १५.?. ध्राश्र… - घ- । १६… त्नो… - घ । १७.. शः - ख । १८.. .प - घ. । १९… वेश्य - घ.,… वेशः - ख. । २०… थ रूपेण - घ । २१. (त्रि).. .ताङ्गं - ख । २२… शीतः - ध । २३… सुगन्धिमाल्यः - घ सुगन्धमाली - ख. ।
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोसौ त्वरितं समेतः ।
तथाश्विनौ देवभिषग्वरौ तौ[^२४] एकं[^२५] विमानं त्वरयाभिरुह्य ॥१८॥

मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः[^२६] सुवीरौ ।
शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत् फटानां ज्वलनार्कतेजाः ॥१९॥

सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च ।
दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिल[^२७] तुल्यभासाम् ॥8.13.२०॥

वरानुरूपं प्रविधाय वेषं[^२८] वृन्दं समागात् पुरतः सुराणाम् ।
गन्धर्वराजः स च चारुरूपी दिव्याङ्गनो दिव्यविमानचारी ॥२१ ॥

गन्धर्वसङ्घैः सहितोप्सरोभिः शक्राज्ञया तत्र समाजगाम ।
अन्ये च देवास्त्रिदिवौकसेशाः पृथक् पृथक् चारुगृहीतवेषाः ॥२२॥

आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिन्नराश्च[^२९] ।
शचीपतिस्तत्र सुरेन्द्रसङ्घे[^३०] राजाधिकाराधिकलक्ष्यमूर्त्तिः ॥२३॥

राज्ञां बलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार[^३१] ।
हेतुस्त्रिलोकस्य जगत्प्रसूति[^३२] र्माता च तेषां ससुरासुराणाम् ॥२४॥

पत्नी च शम्भोः पुरुषस्य धाम्नो[^३३] गीता पुराणैः[^३४] प्रकृतिः परार्था ।
दक्षस्य कोपाद् हिमवद्गृहं सा कार्यार्थमागात् परमेशपत्नी ॥२५॥

एवं यत[^३५]स्तान्न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश ।
वरार्थमाजग्मु[^३६] रतो विमूढा ईशेन यस्माद् वृडिताः[^३७] कृतास्ते ॥२६॥

ततः प्रनृत्ताभि[^३८] रथाप्सरोभिर्गन्धर्वसङ्घैश्च सुगीतशब्दैः ।
स्थितैश्च नानाविधरूपवेषै[^३९] देवासुरादित्रिदिवोकसङ्घैः[^४०]॥२७॥

विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरबीजिताङ्गी ।
सर्वर्तुपुष्पां[^४१] सुसुगन्धमालां[^४२] प्रगृह्य देवी[^४३] प्रसभं प्रतस्थे[^४४]॥२८॥

तु. - क. घ. । २५… वं - क. । २६. सभा - घ । २७… शनि… - घ. । २० देहं - घ । २९.. क्षोरग - क । ३०… मध्ये - ख । ३१ चचार - ख. । ३२… ते - ख. । ३३ चाग्र्या - ध. । ३४… णे - क. घ. । ३५ स्वत - ख. । ३६ तत समाजग्मु - क । ३७ कुपिताः - घ. । ३८ प्रवृ… - क. । ३१ रो (गी)तैश्च नाना विदधे (विध) शरागै - घ । ४० त्रिदिवेश - घ. । ४१… ष्यं - घ. । ४२.. .ल्य - घ. । ४३ मा (बा ?) ला - ख. । ४४… स्थौ - क. ।
सनत्कुमार उवाच
मालां प्रगृह्य देव्यान्तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवर उपागतैः[^४५] ॥२९॥

देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥8.13.३०॥

अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता ॥३१॥

अथ सा शुद्धसङ्कल्पा काङ्क्षितप्राप्तसत्फला ।
निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु ॥३२ ॥

ततो दृष्टवा शिशुं देवा देव्या उत्सङ्गवर्त्तिनम् ।
कोयमत्रेति सम्मन्त्र्य चुक्रुधु[^४६] र्भृशमर्दिताः ॥३३॥

वज्रमाका[^४७] रयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थित[^४८]स्तस्य तथैव समतिष्ठन ॥३४॥

स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं नो[^४९] शशाक बाहुञ्चालयितुं न च ॥३५॥

भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः ॥३६॥

तस्यापि भगवान् बाहुं तथैवास्तम्भयत्तदा ।
शिरः प्रकम्पयन् विष्णुः सकोपस्तमवैक्षत ॥३७॥

तस्यापि शिरसो देवः खालित्यं प्रचकार ह ।
पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः ॥३८॥

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना ।
यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः[^५०] प्रभा ॥३९॥

मु… - घ. । ४६ चुक्षुभु - घ. । ८७ धा… - घ. । ४८ रुन्न… - घ. । ४९ न - क. घ । ५० शशिन इति वक्तव्ये शशेरिति छन्दोभङ्गभयकृतप्रयोग आर्पत्वेन कथञ्चित्समाधेयः ।
बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् ।
बलन्तेजश्च योगञ्च तथैवास्तम्भयद्विभुः ॥8.13.४० ॥

अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु ।
ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् ॥४१॥

बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम् ।
स बुद्ध्वा[^५१] परमेशानं शीघ्रमुत्थाय सादरम् ॥४२॥

ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः।
पौराणैः[^५२] सामसङ्गीतैः पुण्याख्यैर्गुह्यनामभिः ॥४३॥

अजस्त्वममरो देवः स्रष्टा हर्ता विभुः परः ।
प्रधान[^५३] पुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षरम्[^५४] ॥४४॥

अमृतं परमात्मा च ईश्वरः कारणं महत् ।
ब्रह्मकृत् प्रकृतेः स्रष्टा सर्वसृक् परमेश्वरः ॥४५॥

न त्वं वै देवदेवेश शक्यो ज्ञातुं दिवौकसैः ।
मुनिभिर्वापि योगज्ञैर्ज्ञातुं देव न शक्यते ॥४६॥

अप्रमेयो महादेव वर्तसे त्वं स्वलीलया ।
महासर्गे महाकल्पे त्वमेकस्तिष्ठसि प्रभो ॥४७॥

अहमेव न जानामि चेष्टां तव महेश्वर ।
कथं विदन्ति त्रिदशा गम्भीरं गहनात्मकम् ॥४८
इयञ्च प्रकृतिर्देव[^५५] सदा ते सृष्टिकारणम् ।
पत्नीरूपं समास्थाय जगत्कारणमागता ॥४९॥

नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ॥8.13.५० ॥

देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे ॥५१॥

तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् ।
स्तम्भितान्सर्वदेवाँस्तानिदमाह महाद्युतिः ॥५२॥

ज्ञात्वा - घ। ५२ कीर्तनैः क। ५३. . तं - क। ५४… यम् - क ५५. . .वी - घ
मूढाः स्थ देवताः सर्वे[^५६] नैनं बुद्ध्यथ[^५७] शङ्करम् ।
देवदेवमिहायातं ममैवोत्पत्तिकारणम् ॥५२॥

अयं रुद्रो महादेवः शर्वो भीमः कपर्द्दवान्[^५८] ।
उग्र ईशान आत्मा च अजः शङ्कर एव च ॥५३ ॥

देवदेवः परं धाम ईशः पशुपतिः पतिः ।
जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम् ५९ ॥५४॥

गच्छध्वं शरणं शीघ्रमेत[^६०] मेवामरेश्वराः ।
सार्ध मयैव देवेशं परमात्मान[^६१] मव्ययम् ॥५५॥

ब्रह्मणो वचनं श्रुत्वा देवो नारायणः प्रभुः ।
प्रहस्य विबुधान् सर्वान् बोधयामास लोकपाः ॥५६॥

एवमेव न सन्देहो यथाह पद्मसम्भवः ।
पूर्वसर्गे नु विबुधा मया सार्धं महेश्वरः ॥५७॥

बहुरूपेण रूपेण जगद् व्याप्य व्यवस्थितः ।
तस्मात् सर्वात्मना भूत्वा गच्छध्वं शरणं हरम् ॥५८॥

ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा ॥५९॥

अथ तेषां प्रसन्नोभूद् देवदेवो महेश्वरः ।
यथापूर्वं चकाराशु देवतानां तनूस्तदा[^६२] ॥8.13.६०॥

तत एवं प्रवृत्ते तु सर्वदेवनिवारणे[^६३] ।
वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ॥६१॥

तेजसा यस्य[^६४] देवास्ते चक्षुरभ्यर्थयन्[^६५] विभुम् ।
तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत्[^६६] ॥६२॥

प्रादात् परमदेवेशः अपश्यंस्ते तदा प्रभुम् ।
ते दृष्टवा परमेशानं तृतीयेक्षणधारिणम् ॥६३ ॥

सर्वाः - घ. । ५७.. .त - क. घ. । ५८.. र्द्दिमान् - क. । ५९… ण. - क- । ६०… व - क., त - घ. । ६१ … नन्द - घ. । ६२.. .था - घ. । ६३ .. णम् - घ । ६४ त… - घ. । ६५ रप्रा… - क. घ. । ६६.. .मान् - क. ।
ब्रह्माद्या नेमिरे तूर्ण्णं सर्व एव सुरेश्वराः ।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥६४॥

पादयोः स्थापयामास स्रग्मालाममितद्युतेः ।
साधु साध्विति सम्प्रोच्य[^६७] देवतास्ते पुनर्विभुम् ॥६५॥

सह देव्या[^६८] नमश्चक्रुः शिरोभिर्भूतलाश्रितैः ।
अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः ॥६६॥

हिमवन्तं महाशैलमिदमाह महाद्युतिः ।
श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमेव हि ॥६७॥

शर्वेण सह सम्बन्धो यस्य ते भूदयं महान् ।
क्रियताञ्चाशु उद्वाहः किमर्थं स्थीयते[^६९] परम् ॥६८॥

ततः प्रणम्य हिमवान् तं देवं प्रत्यभाषत ।
त्वमेव कारणं देव येन शर्वोदयन्मम[^७०] ॥६९॥

प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
उद्वाहन्तु यथायोग्यं[^७१] तद्विधत्स्व पितामह ॥8.13.७० ॥

तत एवं वचः श्रुत्वा गिरिराजः[^७२] पितामहः ।
उद्वाहः क्रियतां देव[^७३] इति देवमुवाच ह ॥७१ ॥

तमाह शङ्करो देवं यथेष्टमिति लोकपम् ।
तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्[^७४] ॥७२ ॥

उद्वाहार्थं महेशस्य नानारत्नोपशोभितम् ।
रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च ॥७३ ॥

मूर्त्तिमन्त उपागम्य[^७५] अलञ्चक्रुः पुरोत्तमम् ।
चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता ॥७४॥

भामयस्फाटिकाभित्ति[^७६] र्मुक्ताहारप्रलम्बिता ।
तस्मिन् शिवपुरे[^७७] रम्ये उद्वाहार्थं विनिर्मिते ॥७५॥

सम्पूज्य - घ. । ६८… वा - घ. । ६९ स्थितये - क. । ७०… यं - ग. क. घ. । ७१ विवाहं तव जामातृक् (तुः?) - घ. । ७२… ज्ञः - क. । ७३ क्रियतां देव उद्वाह - घ. । ७४ पुरा - घ. । ७५ मु… - क. घ. । ७६ भासस्फटिकभित्तीभि - क. । ७७ रति… - घ. ।
शुशुभे देवदेवस्य महेशस्य महात्मनः ।
सोमादित्यौ[^७८] समं तत्रा[^७९] भासयेतां[^८०] महामहीम् ॥७६ ॥

सौरभेयं मनोरम्यं गन्धमादाय[^८१] मारुतः ।
प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रदर्शयन्[^८२] ॥७७॥

समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च ॥७८॥

गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
गुह्यकाः खेचराश्चान्ये किन्नरा देवचारणाः[^८३] ॥७९॥।
तुम्बुरुर्नारदो हाहा हूहूश्चैव तु सामगाः[^८४] ॥

रत्नान्यादाय वाद्यांश्च तत्राजग्मुर्मुदा युताः[^८५] ॥8.13.८० ॥

ऋषयः कृत्स्नशस्तत्र वेदगीतान् तपोधनाः[^८६] ।
पुण्यान् वैवाहिकान् मन्त्रान् जेपुः संहृष्टमानसाः ॥८१ ॥

जगतो[^८७] मातरः सर्वा देवकन्याश्च कृत्स्नशः[^८८] ।
गायन्ति हृषिताः सर्वा[^८९] उद्वाहे परमेष्ठिनः ॥८२॥

ऋतवः षट् समं तत्र नानागन्ध[^९०] सुखावहाः ।
उद्वाहः शङ्करस्येति मूत्तिमन्त उपस्थिताः ॥८३ ॥

नीलजीमूतसन्धातमन्द्रध्वानप्रहर्षितैः ।
केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः ॥८४॥

विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता ।
कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता ॥८५॥

प्रत्यग्रसञ्जातशिलीन्ध्रकन्दला लता द्रुमाभ्युद्गतचारुपल्लवा । शुभाम्बु[^९१]धाराप्रणयप्रबोधितै[^९२] र्मदालसैर्भेकगणैश्च नादिता ॥८६॥

? त्यैः - क. । ७९ तत्र - क. घ. । ८०?. .यन्तो - क.,.?. यन्तौ - घ. । ८१… माघ्राय - क. घ. । ८२ प्रसाद… - क. । ८३ चारिणः - घ., वारणाः - क. । ८४ सभागताः - - घ. । ८५ स्तदा पुरं - क. । ८६ स्तपो… - घ. । ८७ सङ्गता - घ । ८८ सर्वशः - घ. । ८९… र्वे - घ. । ९०… धाः - घ । ९१ सुधा… - घ. । ९२ प्रलयप्रबोधितैः… - घ. ।
प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री ॥८७ ॥

तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसङ्घातसमीपवर्त्तिना महेन्द्रचापेन भृशं विराजिता ॥८८॥

विचित्रपुष्पस्पर्शात् सुगन्धिभि[^९३] र्घनाम्बुसम्पृक्ततया[^९४] सुशीतलैः ।
विकम्पयन्ती[^९५] पवनैर्मनोहरैः सुरा[^९६] ङ्गनानामलकावलीः शुभाः ॥८९। गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा[^९७] ।
निरीक्षिता सादरमुत्सुकाभिर्निःश्वासधूम्रं[^९८] पथिकाङ्गनाभिः ॥ 8.13.९० ॥ हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताकाञ्ची[^९९] स्पष्टपद्मविलोचना ॥९१ ॥

असितजलदवृन्दध्वानवित्रस्तहंसा
विमलसलिलधारापातताम्रोत्पलाग्रा ।
सुरभिकुसुमरेणुक्लृप्तसर्वाङ्गशोभा
गिरिदुहितृ[^१००] विवाहे प्रावृडागाद्विभूत्यै ॥९२ ॥

मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी ।
हंसनूपुरनिर्ह्रादा[^१०१] सर्वरम्यदिगन्तरा ॥९३ ॥

विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्ले[^१०२] न्दीवराभोगविलोचनमनोहरा ॥९४॥

पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवश्यामालताश्यामरोमराजि[^१०३] परिष्कृता ॥९५॥

चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम् ॥९६ ॥

प्रमदालिकुलो[^१०४] द्गीतमधुरस्वन[^१०५] भाषिणी ।
चलत्कुमुदसङ्घातचारुकुण्डलशोभिनी[^१०६] ॥९७॥

च्छुगन्धि … - क. । ९४ सपक.ं?. - क., भयात्… - घ । ९५ विकल्प… - घ. । ९६ पुरा - घ. । ९७ प… - घ । ९८… म्रा - घ । ९९ वि ( ज?) ह्वा - घ । १००.. तु - क. । १. १… द - क. । १०२ पुष्करे - घ. । १०३… जी - क घ । १०४ समदासीगणो. - घ. । १०५… र - घ. । १०६… ता - घ ।
रक्ताशोकाग्रशाखोत्थपल्लवाङगुलिधारिणी ।
तत्पुष्पसञ्चयमयैर्वासोभिः समलङ्कृता ॥९८ ॥

रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भचारूरुः शशाङ्कवदना शुभा[^१०७] ॥९९॥

पद्मकिञ्जल्कसम्पृक्त[^१०८] पवनप्रकरैः[^१०९] सुरान्[^११०] ।
प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा ॥8.13.१०० ॥

निर्मुक्ता[^१११] सितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना
नीलाम्भोजविलोचनाब्मुकुल[^११२] प्रोद्भिन्नचारुस्तनो ।
नानापुष्परजःसुगन्धिपवना[^११३] एं ए प्रह्लादनी चेतसाम्
तत्रागात्[^११४] कलहंसनूपुररवा देव्या विवाहे शरत्[^११५] ॥ १०१ ॥

अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः ।
ऋतू हेमन्तशिशिरा[^११६] वाजग्मतुरभिद्युती[^११७] ॥ १०२ ॥

ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान् स नगोत्तमः ।
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ ॥ १०३ ॥

तेन प्रालेयवर्षेण घनेन स हिमाचलः ।
शोभनेन[^११८] तदा रेजे क्षीरोद इव सागरः ॥ १०४॥

हिमस्थानेषु हेमन्तो[^११९] र्प्य नाशयामास पादपान् ।
साधूपचारान् सहसाकृतार्थ इव दुर्जनः ॥ १०५॥

प्रालेयपटलच्छन्नैः शृङ्गैः स[^१२०] शुशुभे नगः ।
छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः ॥१०६ ॥

पाण्डराणि विशालानि श्रीमन्ति सुभगानि च ।
अद्रिशृङ्गाणि तुङ्गानि[^१२१] सौधानीव चकाशिरे ॥ १०७॥

तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्[^१२२] कुत्नाकुलासु ।
प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव सन्निपेतुः ॥१०८ ॥

तथा - क. । १०८ सयुक्ता - घ. । १०९ पद्मव्यग्रकरा- - घ । ११० शुभा - घ. । १११.. निमुक्तोज्कि? त - घ. । ११२ कुमुद - घ. । ११३… न - क. घ. । ११४ तद्योगात् - घ । ११५ स्वयम् - घ. । ११६ शिशिरहेमन्ता - क. घ । ११७ रति… - क घ. । ११८ अगाधने ( धेन?) - घ. । ११९ हिमवान् - ग क. घ. । १२० सं - घ. । १२१ तुङ्गानि चाद्रिशृङ्गाणि - घ. । १२२ शार्दूल - घ. ।
बहुकुसुमरजोभिरुत्कराङ्गा[^१२३] हिमकणसङ्गसु[^१२४] शीतलाः समीराः । ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः ॥ १०९ ॥

विधूतरू[^१२५] क्षानीलवीतदोषः[^१२६] प्रोद्भिन्नचूताङ्कुरकर्णपूरः ।
वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु[^१२७] ॥ 8.13.११० ॥

तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते ।
प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः ॥१११ ॥

ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्र[^१२८] रजोत्कराङ्गाः ।
मनोभवोद्रेककराः[^१२९] सुराणां सुरङ्गनानाञ्च मुहुः समीराः ॥११२॥

स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां कुसुमैरुपेताः १३० ।
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः ॥११३ ॥

ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः ।
श्रोत्राभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चाविकलं[^१३१] विनेदुः ॥११४॥

नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि १३२ ।
चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः ॥ ११५ ॥

प्रियङ्गुसंवृतवरः वृताँश्चापि प्रियतरः । (?)
तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे[^१३३] ॥११६॥

हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः[^१३४] ।
शुशु - -१३५ कार्यमुद्दिश्य वृद्धा इव समागताः ॥ ११७॥

फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः १३६ ।
कामिन्य इव कान्तानां कण्ठालम्बितमूर्त्तयः १३७ ॥ ११८ ॥

समदालिकुलोद्गीतलताकुसुमसञ्चयाः ।
परस्परं हि मालत्यो भाषन्त्य इव रेजिरे ॥ ११९ ॥

रावृताङ्गा - घ. । १२४. म - घ. । १२५ वृ.. - घ. । १२६ शीतदोषः - घ. । १२७… शु - क. । १२८ पुष्पौग्र - घ. । १२९ न्मेष.?. - घ. । १३० स्वकुलं… - घ. । १३१ ति.. - क. घ. । १३२ कलुषी… - घ. । १३३ र्बभाषिरे - घ- । १३४ कुमुदोत्कराः - क. । १३५ शिशुभिः - घ. । १३६ साल - क. । १३७ बाहवः - घ. ।
नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च मृणालदण्डैः ।
तथैव चित्राणि[^१३८] भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः[^१३९] ॥ 8.13.१२० ॥

हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।
वैदूर्यनालानि सरस्सु केषुचित् प्रजज्ञिरे पद्मवनानि सर्वतः ॥ १२१ ॥

वाप्यस्तत्राभवन् रम्याः कमलोत्पलभूषिताः ।
नानाविहङ्गसङ्घुष्टा[^१४०] हेमसोपानपङ्क्तयः ॥१२२ ॥

शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्यविरलै[^१४१]र्हैमानीव बभुर्मुने ॥१२३ ॥

ईषदुद्भिन्नकुसुमैः पाटलै[^१४२]श्चापि पाटला[^१४३] ।
सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्त्तिभिः[^१४४] ॥१२४॥

कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयेव १४५ परस्परम् ॥१२५ ॥

चञ्चरीकविघुष्टानि[^१४६] किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे[^१४७] ॥ १२६ ॥

तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।
नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥ १२७॥

निकामपुष्पैः[^१४८] सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च ।
प्रमत्तपुंस्कोकिलसम्प्रलापै[^१४९] र्हिमाचलोतीव तदा रराज ॥ १२८ ॥

श्रुत्वा शब्दा[^१५०] नृतुमदकलान्[^१५१] सर्वतः कोकिलानाम्
चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः ।
तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः
सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥१२९ ॥

पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः ।
देवीविवाहसेवार्थं[^१५२] ग्रीष्म आगाद्धिमाचलम् ॥ 8.13.१३० ॥

रक्तानि रक्तैश्च - घ. । १३९ विदह्यमालैः - घ. । १४०.. मसंयुक्ता - घ., ष्ट -क १४१ समुत्सृ -घ । १४२.. .कुमुभाः पादपाः.. घ. । १४३ - धिपाटला - घ । १४४ मूर्त्तयः - घ. । १४५… या च - घ. । १४६ विपुष्टानि - घ. । १४७ तस्मिन्काले गिरीशस्य सर्वस्थानेथ.?. - घ. । १४८ निमील… - घ. । १४९ पुंस्कोकिलानां च तथा… - घ. । १५०दं श[^०] - क. घ । १५१ कल - क.घ । १५२ समये - घ ।
स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।
शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः ॥१३१॥

तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः ॥१३२॥

वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्त्तयः ।
अभवन् तटसङ्घुष्टकलहंसकदम्बकाः ॥१३३॥

तथा कुरबकाश्चापि[^१५३] कुसुमापाण्डुमूर्तयः ।
सर्वेषु जज्ञुः[^१५४] शृङ्गेषु भ्रमरावलिसेविताः ॥१३४॥

बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः ॥ १३५॥

इति कुसुमविचित्रसर्ववेषा[^१५५] विविधविहङ्गमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूत्यै षडुपययुर्ऋतवो मुनिप्रवीर ॥१३६॥

तत एवं[^१५६] प्रवृत्ते तु सर्वभूतसमागमे ।
नानावाद्यसमाकीर्णे ब्रह्मा मम पिता स्वयम् ॥१३७॥

शैलपुत्रीमलङ्कृत्य योगा[^१५७] भरणसम्पदा ।
पुरं प्रवेशयामास.. .य[^१५८] मादाय लोकवित् ॥१३८॥

ततस्तु पुनरेवेशं[^१५९] ब्रह्मा व्यज्ञापयद्विभुम् ।
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ॥१३९॥

ददासि मह्यं यद्याज्ञां कर्तव्योयं क्रियाविधिः ।
तमाह शङ्करो देवं देवदेवो जगत्पतिः ॥8.13.१४०॥

यत्त्वदिष्टं[^१६०] सुरेशान तत्कुरुष्व यथेप्सितम्[^१६१] ।
कर्तास्मि वचनं सर्वं ब्रह्मँस्तव जगद्विभोः[^१६२] ॥१४१ ॥

न्ये- घ. । १५४ जज्ञे - क., नग… - घ. । १५५… वृक्षा - घ. । १५६ तत्रोत्सवे - घ. । १५७ योग्या(?) । १५८ श्रय (?) - घ. । १५९ देवेशं - क. । १६० यद्य… - क. । १६१४.. यथोचि… - घ. । १६२… भो- घ ।
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ।
हस्तं देवस्य देव्याश्च[^१६३] योगबन्धे युयोज ह ॥ १४२॥

ज्वलनश्च[^१६४] स्वयं तत्र[^१६५] कृताञ्जलिरुप[^१६६]स्थितः[^१६७] श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः ॥ १४३ ॥

यथोक्तविधिना हुत्वा सर्पिस्तदमृत च हि[^१६८] ।
त्रिश्च[^१६९] तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥ १४४॥

मुक्त्वा[^१७०] हस्तसमायोगं सहितः[^१७१] सर्वदेवतैः[^१७२] ।
सुतैश्च मानसैः सर्वैः[^१७३] प्रहृष्टेनान्तरात्मना ॥ १४५ ॥

वृत्ते उद्वाहकार्ये[^१७४] तु प्रणनाम वृषध्वजम् ।
योगेनैव तयोर्व्यास तदोमापरमेशयोः ॥ १४६॥

उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ।
इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम् ॥ १४७॥

-इति स्कन्दपुराणे उमापरिणयनं नाम त्रयोदशोध्यायः