०१२

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।
देवि येनैव सृष्टासि न विना यस्त्वया शुभे[^१] ॥१ ॥

स भर्ता तव देवेशो[^२] भविता मा तपः कृथा[^३]।
ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ॥२॥

उमोवाच - घ । ६० तत्त्बमेतन्मे - ख । ६१ पितामह उ[^०] - घ. ॥ ६२ भाविनि - क., भाविनी घ. । ६३ त्वा - ख. । ६४.. त्य - ख । ६५… ति - क. । ६६ वा (मा , निनः- ख, वाणि व.- घ. । ६७.. रः स्वयं - ख । ६८ हरो - घ । ६१ तवैयं मा.. - ख. । ७० ता - क । ७१ तिरूपः… - क, मिरूपः - घ । ७२ नहि यस्य - क.,. णि. - घ । ७३ कश्चित् - ? । ७४… मा - क. । ७५ ही… - क., ती. - ध । ७६.. ग्रं - क.,… ग्रत स्थित - ख । ७७ उमातपसि ब्रहावचनो - घ. ।
मनसा यस्त्वया व्रत- - ख । २ .शि - ख. । ३ स्तथा - ख ।
जगामादर्शनं तस्याः सा चापि विरराम ह ।
सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह ॥३॥

द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ।
अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ॥४॥

विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ।
विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ॥५॥

उवाच विकृतास्यश्च देवि त्वाम्[^४] वरयाम्यहम् ।
अथोमा योगसंसिद्धा[^५] ज्ञात्वा शङ्करमागतम् ॥६॥

अन्तर्भावविशुद्धात्मा क्रियानुष्ठानलिप्सया ।
तमुवाचार्घपाद्याभ्याम्[^६] मधुपर्केण चैव हि ।
सम्पूज्य सुमनोनेत्रा[^७] ब्राह्मणं ब्राह्मणप्रिया ॥७॥

देव्युवाच
भगवन्न स्वतन्त्रास्मि पिता मेस्त्यरणो तथा ।
तौ प्रभू मम दाने वै कन्याहं द्विजपुङ्गव ॥८॥

गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ॥९।
सनत्कुमार उवाच
ततः स भगवान् देवस्तथैव विकृतः प्रभुः ।
उवाच शैलराजं तमुमा[^८] मे यच्छ शैलप[^९] ॥8.12.१० ॥

स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
भीतः शापाच्च विमना इदं वचनब्रवीत् ॥११ ॥

भगवन्नावमन्यामि ब्राह्मणान् भूमि[^१०] दैवतान्[^११] ।
मनीषितं तु यत् पूर्वं तच्छृणुष्व महातपः[^१२] ॥१२॥

त्वा - ख. । ५… द्ध्या - क. । ६… र्ध्यमानाय्य - ख. । ७ सुमना नत्वा - घ. । ८ न्तामुमां - क. टि. । ९ .. राट् - ख. । १० भुवि - घ. । ११ देवतान् - क. - तां - ख. । १२… प - ख. ।
स्वयंवरो मे दुहितुर्भविता विप्र पूजितः ।
वरयेद्यं स्वयं तत्र स भर्त्तास्या भवेदिति ॥१३॥

सनत्कुमार उवाच
तच्छ्रुत्वा शैलवचनं भगवान् गोवृषध्वजः ।
देव्याः समीपमागत्य इदमाह महामनाः ॥१४॥

देवि पित्रा तवाज्ञप्तः[^१३] स्वयंवर इति श्रुतम् ।
तत्र त्वं वरयित्री यं स ते भर्त्ता किलानघे ॥१५॥

तदापृच्छे गमिष्यामि दुर्ल्लभा त्वं वरानने ।
रूपवन्तं समुत्सृज्य वृणाथा मादृशं[^१४] कथम् ॥१६॥

सनत्कुमार उवाच
तेनोक्ता सा तदा तत्र भावतो यत्तदीरितम्[^१५] ।
भावञ्च रुद्रनिहितं प्रसादं[^१६] मनसस्तथा ॥१७॥

सम्प्राप्योवाच देवेशं मा तेभूद् बुद्धिरन्यथा ।
अहं त्वां वरयिष्यामि नान्यद्भूतं कथञ्चन ॥१८॥

अथवा तेस्ति सन्देहो मयि विप्र कथञ्चन ।
इहैव त्वां महाभाग वरयामि मनोरथे[^१७] ॥१९॥

सनत्कुमार उवाच
गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम्[^१८] ।
स्कन्धे शम्भोः समाधाय[^१९] देवी प्राह वृतोसि मे ॥8.12.२० ॥

ततः स भगवान् देवस्तथा देव्या[^२०] वृतस्तदा[^२१] ।
उवाच तमशोकं[^२२] वै वाचा सञ्जीवयन्निव[^२३] ॥२१ ॥

समा .. - घ. । १४.. .षे - ख. । १५ भव पन्त्या उदीरितम् - घ. । १६… दान् - घ । १७… थ १८… ता- क १९.. .दाय - क. घ. । २० वो देव्या तत्र- घ । २१ न्त… - घ. । २२ ता - घ. । २३ सञ्चार… घ. ।
यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।
तस्मात्त्वं जरया त्यक्तः[^२४] अमरः सम्भविष्यसि ॥२२॥

कामरूपः कामपुष्पः कामगो दयितो मम ।
सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ॥२३॥

सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।
सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ॥२४॥

निर्भयः सर्वलोकेषु[^२५] चरिष्यसि सुनिर्वृतः ।
आश्रमं चैन[^२६]मत्यर्थं[^२७] चित्रकूटेति विश्रुतम् ॥२५ ॥

योभियास्यति पुण्यार्थी सोश्वमेधमवाप्स्यति ।
यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ॥२६॥

यश्चात्र नियमैर्युक्तः प्राणान् सम्यक् परित्यजेत् ।
स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥२७॥

सनत्कुमार उवाच
एवमुक्त्वा ततो[^२८] देव आपृच्छ्य हिमवत्सुताम् ।
अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः[^२९] ॥२२॥

सापि देवी गते तस्मिन् भगवत्यमितात्मनि ।
तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ॥२९॥

उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ ।
निशेव चन्द्ररहिता बभूव[^३०] विमनास्तदा[^३१] ॥8.12.३०॥

अथ शुश्राव सा शब्दं बालस्यार्त्तस्य शैलजा ।
सरस्युदकसम्पूर्णे समीपे स्वाः[^३२]श्रमस्य ह ॥३१॥

स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोभवत्तदा ॥३२॥

मुक्तो- घ. । २५ भूतेषु -घ. । २६ चैव-क, चम-घ. । २७ मा.. - घ. । २८ तदा– घ। २९… तीश्वरः घ. । ३० सा बभौ - क. घ. । ३१. तः -क । ३२ चा- क ।
योगमायामथास्थाथ प्रपञ्चोद्भवकारणः ।
तद्रूपं सरसो मध्ये कृत्वेदं[^३३] समभाषत ॥३३ ॥

त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम् ।
धिक्कष्टं बाल एवाहमप्राप्तोथ मनोरथम्[^३४] ॥ ३४॥

यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः ।
शोचामि न स्वकं देहं ग्राहग्रस्तोपि दुःखितः ॥३५॥

यथा शोचामि पितरं मातरञ्च तपस्विनीम्[^३५] ।
मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ ॥३६॥

प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः ।
अहो बत महत् कष्टं योहं बालोकृतव्रतः
अतप्त्वा तप एवायं यास्यामि निधनं हतः ॥३७॥

सनत्कुमार उवाच
श्रुत्वा तु देवी तन्नादं विप्रस्यार्त्तस्य शोभना ।
उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः ॥३८ ॥

सापश्यदिन्दुवदना बालकञ्चारुरूपिणम् ।
ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम् ॥३९॥

सोपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम् ।
तं गृहीत्वा द्रुतं यातो[^३७] मध्यं सरस एव हि[^३८]॥8.12.४० ॥

स कृष्यमाणस्तेजस्वी नादमार्त्तन्तदा[^३९]करोत् ।
अथाह देवी दुःखार्त्ता बालं दृष्ट्वा महाव्रता ॥४१॥

ग्राहराज महासत्व[^४०] बालकं ह्येकपुत्रकम् ।
विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम ।४२।
ग्राह उवाच
यो देवि दिवसे षष्ठे प्रथमे समुपैति माम् ।
स आहारो मम पुरा विहितो लोककर्तृभिः ॥४३ ॥

कृत्वैव (वम्) - घ. । ३४ मप्राप्तात्म.. - घ, मप्राप्याथ? । ३५… नो - क. । ३६ श्च ज्वाली. - घ. । ३७ स्रोतो - क. । ३८ ह - फ. । ३९ प्तथा? - घ. । ८०… त्मञ्च? - क ।
सोयं मम महाभागे षष्ठेहनि गिरीन्द्रजे ।
ब्रह्मणा प्रहितो[^४१] नूनं नैनं मोक्ष्ये[^४२] कथञ्चन ॥४४॥

देव्युवाच
यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।
तेन बाल[^४३] मिमं मुञ्च ग्राहराज नमोस्तु ते ॥४५॥

ग्राह उवाच
मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने[^४४] ।
नैनं मोचयितुं शक्तो देवराजोपि यः[^४५] स्वयम् ॥४६॥

मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना ।
अमरत्वमवध्यत्वमक्षयं बलमेव च ॥४७॥

स्वयं ग्रहणमोक्षश्च ज्ञानञ्चैवाव्ययं पुनः ।
दत्तं ततो ब्रवीमि त्वां[^४६] नायं मोक्षमवाप्स्यति ॥४८॥

अथवा ते कृपा देवि भृशं बाले शुभानने[^४७] ।
ब्रवीमि यत् कुरु तथा ततो मोक्षमवाप्स्यति ॥४९
देव्युवाच
ग्राहाधिप वदस्वाशु[^४८] यत् सतामविगर्हितम् ।
तत् कृतं नात्र सन्देहो मान्या मे ब्राह्मणा[^४९] दृढम् ॥8.12.५० ॥

ग्राह उवाच
यत् कृतं वै तपः किञ्चिद्भवत्या स्वल्पमन्ततः[^५०] ।
तत् सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति ॥५१ ॥

देव्युवाच
जन्मप्रभृति यत् पुण्यं महाग्राह कृतं मया[^५१] ।
तत्ते सर्व मया दत्तं बालं मुञ्च ममाग्रतः ॥५२॥

विहितो - क- घ. । ४२ न मोक्ष्येहं - घ., . क्षे - क. । ४३ सत्त्व - घ. । ४४ चिकीर्षीर्व्यर्थमेव हि - घ. । ४५ स - क. । ४६ त्वा - क । ४७ हता… - घ । ४८ वदाम्या… - घ. । ४९ मनो मे ब्राह्मणे - घ. ॥7५०… ल्पमनन्तशः - घ. । ५१ मया कृतम् - घ. ।
सनत्कुमार उवाच
प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः ।
आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥।५३॥

उवाच चेदं हृष्टात्मा देवीं लोकस्य धारिणीम् ।
देवि किं कृतमेतत्ते अनिश्चित्य[^५२] महाव्रते ॥५४॥

तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते ।
गृहाण तप एतच्च[^५३] बालं चेमं शुचिस्मिते[^५४] ॥५५॥

तुष्टोस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते[^५५] ।
सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ॥५६॥

सुविचिन्त्य[^५६] महाग्राह कृतं बालस्य मोक्षणम् ।
न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः ॥५७॥

दत्त्वा चाहं[^५७] न गृह्णामि ग्राहेन्द्र विदितं हि ते ।
न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥५८॥

दत्तमेतन्मया तुभ्यं नाददामि[^५८] हि तत्पुनः ।
त्वय्येव रमतामेतद्[^५९] बालश्चायं विमुच्यताम् ॥५९॥

तथोक्तस्तां प्रशस्याथ[^६०] मुक्त्वा[^६१] बालं नमस्य च ।
देवीमादित्यसद्भासं[^६२] तत्रैवान्तरधीयत ॥8.12.६० ॥

बालोपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।
स्वप्नलब्ध इवार्थो यस्तत्रैवान्तरधीयत ॥६१॥

तपसोथ व्ययं मत्वा देवी हिमगिरीन्द्रजा ।
भूय एव तपः कर्तुमारेभे यत्नमास्थिता ॥६२॥

कर्तुकामां तपो भूयो ज्ञात्वा तां शङ्करः स्वयम् ।
प्रोवाच वचनं व्यास[^६३] मा कृथास्तप इत्युत[^६४] ॥६३॥

अनिवाह्य - घ.,.. .न्त्य - क । ५३ एवैनं - घ. । ५४.. .वृते घ. । ५५ विप्रभक्त्या वरं तस्माद् ददामि सुव्रते तव - घ. । ५६ सुनिश्चित्य - । ५७ हं नहि - घ. । ५८… नि - क., .. मीह - घ । ५९ त्वयैव वरमाहात्म्यं - घ. । ६० प्रसन्नो - घ. । ६१ त्यक्त्वा - घ । ६२… वज्वालं - घ । ६३ भूयो - घ. ।
इत्युमे - घ. ।
मह्यमेतत्तपो[^६५] देवि त्वया[^६६] दत्तं महाव्रते ।
तेनैतदक्षयं[^६७] तुभ्यं भविष्यति सहस्रधा ॥६४॥

इति लब्ध्वा वरं देवी तपसोक्षय्यमुत्तमम् ।
स्वयंवरमुदीक्षन्ती तस्थौ प्रीतियुता सती[^६८] ॥६५॥

इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं[^६९] हि शम्भोः ।
स देहभेदं समवाप्य पूतो भवेद् गणस्तस्य कुमारतुल्यः ॥६६॥

इति स्कन्दपुराणे द्वादशोध्यायः