सनत्कुमार उवाच
कदाचित् स्वगृहम्[^१] प्राप्तं कश्यपं द्विपदाम्वरम्[^२] ।
अपृच्छद्धिमवान् प्रश्नं लोके ख्यातिकरं नु[^३] किम् ॥ १ ॥
केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने[^४] ।
तथैव[^५] चार्चनीयत्वं सत्सु तत्[^६] कथयस्व मे ॥ २ ॥
कश्यप उवाच
अपत्येन महाभाग[^७] सर्वमेतदवाप्यते ।
मम ख्यातिरपत्येन ब्रह्मणश्चर्षिभिः सह ॥ ३ ॥
किन्न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्त्तयिष्यामि[^८] तच्चापि यन्मे दृष्टं पुराचल[^९] ॥४ ॥
वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ॥ ५ ॥
तस्याधस्तादार्त्तनादं गर्भस्थाने[^१०] शृणोम्यहम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
- ।
तानहं ११ तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः[^१२] ॥ ६ ॥
- ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
अथागात्तत्र शैलेन्द्र[^१३] विप्रो नियमवान् शुचिः ।
तीर्थाभिषेकपूतात्मा परे तपसि संस्थित. ॥७ ॥
अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
विवेश तं तदा देशं सा गर्ता[^१४] यत्र भूधर ॥८ ॥
गर्त्ताया १५ वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
अपश्यदार्तो १६ दुःखार्त्तानपृच्छत्तांश्च स द्विजः[^१७] ॥ ९ ॥
के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः १८ ॥ 8.11.१० ॥
इच्छया - घ. । २ मुनिपुङ्गवम् - घ । ३ तु - घ । ४… त्मने - घ. । ५ सर्वथैवा - घ. । ६ ससुतं - ख, घ., सत्सुतं ( तत्) - क । ७ महाबाहो - ख घ. । ८ चात्रैव - घ । ९ तन - घ. । १० गर्त्त… - ख. घ. । - ११ तथाहं - क., तमहं - घ । १२… तास्थितान् - ख । १३ सैन्येव - घ. । १४ सगर्तो - घ । १५ गर्त्तोयं - घ. ॥१६. .. र्त्तान् - ख. । १७… जाः - ख । १८. घ - क. ग. ।
पितर ऊचुः
वयन्तेकृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश्च क्लिश्यामस्तव[^१९] दुष्टेन कर्मणा ॥।११॥
नरकोयं महाभाग गर्त्तारूपं[^२०] समास्थितः ।
त्वञ्चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥१२॥
यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥१३॥
यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान्मुच्येम वयमेकशः[^२१] ॥१४॥
नान्येन तपसा पुत्र न तीर्थानां फलेन च ।
तत् कुरुष्व महाबुद्धे तारयस्व पितॄन् भयात् ॥१५॥
स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।
पितॄन् गर्त्तात्समुद्धृत्य गणपान् प्रचकार ह ॥१६॥
स्वयञ्च[^२४] रुद्रदयितः सुकेशो नाम नामतः ।
सम्मतो बलवांश्चैव रुद्रस्य[^२३] च गणपोभवत् ॥१७॥
तस्मात् कृत्वा तपो घोरमपत्यं गुणवद् भृशम्[^२४] ।
उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ॥१८॥
सनत्कुमार उवाच
स एवमुक्त[^२५] ऋषिणा शैलेन्द्रो नियमे स्थितः ।
तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ॥१९॥
तमागत्य[^२६] ततो[^२७] ब्रह्मा वरदोस्मीत्यमाषत ।
ब्रूहि तुष्टोस्मि ते शैल[^२८] तपसानेन सुव्रत ॥8.11.२०॥
त… - ख. । २० गर्त्तारूपा - ख. गर्तरूपो घ. । २१.. -मंहसः - घ. । २२ अयञ्च… - घ. । २३ वरस्य - घ. । २.. .त्तरम् - घ. । २५ एवमुक्तो हि - घ.,.. .क्तो - क. ख. घ.,.. क्ते - ग. । २६ ततो गत्वा - घ. । २७ तद - कः. घ. । २८ शैलेन्द्र - घ. ।
हिमवानुवाच
भगवन् पुत्रमिच्छामि गुणैः सर्वैरलङ्कृतम् ।
एतद्वरं[^२९] प्रयच्छस्व यदि तुष्टोसि नः प्रभो ॥२१॥
ब्रह्मो[^३०]वाच
कन्या भवित्री[^३१] शैलेन्द्र सुता ते वरवर्णिनी ।
यस्याः प्रभावात् सर्वत्र कीर्त्तिमाप्स्यसि पुष्कलाम् ॥२२ ॥
अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः[^३२] ।
पावनश्चैव पुण्यश्च[^३३] देवानामपि सर्वतः ।
ज्येष्ठा च सा[^३४] भवित्री[^३५] ते अन्ये चानु ततः[^३६] शुभे[^३७] ॥२३ ॥
सनत्कुमार उवाच
एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत ।
सोपि कालेन शैलेन्द्रो मेनायामुदपादयत्[^३८] ॥२४॥
अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ।
न्यग्रोधमेकपर्णा तु पाटलं[^३९] चैकपाटला ॥२५॥
आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोचरत् ।
शतं वर्षसहस्राणां दुश्चरं देवदानवैः ॥२६॥
आहारमेकपर्णेन सैकपर्णा समाचरत् ।
पाटलेन तथैकेन व्यदधाच्चैकपाटला[^४०] ॥२७॥
पूर्णे पूर्णे सहस्रे तु आहारं ते च चक्रतुः[^४१] ।
अपर्णा[^४२] तु निराहारा[^४३] तां माता[^४४] प्रत्यभाषत ॥२८॥
निषेधयन्तीत्युमेति मातृस्नेहेन दुःखिता ।
सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता ॥२९॥
एवं वरं - क. ग. घ. । २० पितामह - क. । ३१.. ता - घ. । ३२ समन्वितः - घ. । ३३ पूत … - घ. । ३४ सा च - घ । ३५ सवित्री - क । ३६ गते - घ. । ३७ शुभा - क., सुते - घ. । ३८ मुप… क. ख. । ३९… लां चैव - घ. । ४० विदधात्येक… क. ख. घ. । ४१.. .रश्च तया कृतः - घ. । ४२.. .र्णा - घ. । ४३.. .रां - क. । ४४ माता तां - क. ।
एतत् तत्त्रि[^४५] कुमारीकं[^४६] जगत् स्थावरजङ्गमम् ।
एतासां तपसा लोकान्[^४७] यावद् भूमिर्धरिष्यति ॥8.11.३० ॥
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्चैव महायोगाः[^४८] सर्वाश्च[^४९] स्थिरयौवनाः[^५०] ॥३१ ॥
लोकानां मातर[^५१] श्चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥३२ ॥
उमा तासां वरिष्ठा च श्रेष्ठा[^५२] च वरवर्णिनी ।
महायोगबनोपेता महादेवमुपस्थिता ॥३३ ॥
दत्तकश्चोशनास्तस्याः[^५३] पुत्रः स भृगुनन्दनः ।
असितस्यै[^५४] कवर्णा तु देवलं सुषुवे सुतम् ॥३४॥
या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ॥ ३५ ॥
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ ।
उमा तु या[^५५] मया तुभ्यं कीर्तिता वरवर्णिनी ॥३६॥
अथ तस्यास्तपो[^५६] योगात् त्रैलोक्यमखिलं तदा ।
प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥ ३७॥
ब्रह्मोवाच
देवि किं तपसा लोकान् तापयिष्यसि शोभने ।
त्वया सृष्टमिदं विश्वं मा कृत्वैतद्[^५७] विनाशय ॥३८ ॥
त्वं हि धारयसे लोकानिमान् सर्वान् स्वतेजसा ।
ब्रूहि किन्ते जगन्मातः प्रार्थितं सम्प्रसीद नः[^५८] ॥३९॥
त्वद्रि - घ. । ४६ णा - ख. । ४७ दुग्ध - क । ४८.. भागा - ख. । ४९ स्तथा च - क. । ५० तपोधनाः - ख. । ५१.. त। लोक - क. । ५२ ज्येष्ठा - घ. । ५३ दत्तश्चाशनसा तस्याः. - क घ., तस्य - ख. । ५४… ञ्चैक… - क. घ,.. ञ्चैक (?) । ५५ मा… - क, ५६ स्ताप - घ. । ५७ कृत्वा त क, कृतान्तवि.. - ख., हृता त्व.. - घ । ५८ ह्र - क; ।
देव्युवाच[^५९]
यदर्थन्तपसो ह्यस्य चरणं मे पितामह ।
जानीषे तत्त्वतस्तन्मे ततः पृच्छसि किं पुनः ॥8.11.४० ॥
ब्रह्मोवाच[^६१]
यदर्थ देवि तपसा श्राम्यसे लोकभावनि[^६२] ।
स त्वां[^६३] स्वयं समागम्य[^६४] इहैव वरयिष्यति ॥४१ ॥
सर्वदेवपतिः[^६५] श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
वयं सदेवा यस्येशे वश्याः किङ्करवादिनः[^६६] ॥४२॥
सदेवदेवः परमेश्वरे[^६७]श्वरः स्वयं[^६८] तवायास्यति[^६९] लोकपोन्तिकम् ।
उदाररूपो विकृतो[^७०] भिरूपवान्[^७१] समानरूपो हि नरस्य[^७२] कस्यचित्[^७३] ॥४३ ॥
महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो[^७४] प्रमेयः ।
विनेन्दुनापीन्दु[^७४] समानवक्त्रो विभीषणं रूपमिहास्थितोग्र्यम्[^७६] ॥४४॥
इति स्कन्दपुराणे देव्या वरप्रदानं[^७७] नाम एकादशोध्यायः