सनत्कुमार उवाच
सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः ।
निराहारा कदाचिच्च एकपर्ण्णाशना पुनः ॥१ ॥
वाय्वाहारा पुनश्चापि अब्भक्षा[^१] भूय एव हि[^२] ।
तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् ॥२॥
उवाच ब्रूहि तुष्टोस्मि देवि किं करवाणि ते ।
साब्रवीत् त्र्यम्बकं देवम्[^३] पतिं प्राप्येन्दुवर्च्चसम् ।
विचरेयं सुखं देव सर्वांल्लोकान्नमस्तव ॥३॥
ब्रह्मोवाच
नहि येन शरीरेण क्रियते परमं तपः[^४]।
तेनैव परमेशोसौ पतिः शम्भुरवाप्यते ॥४॥
हन्ता घ. । ६८… ना - ख घ । ६९… वपाती - ख ग,.. वचारी - घ । ७० प्रचेताः - ख घ । ७१ सुवर्णाक्षोत्पत्ति .. - घ. ।
भक्ष - घ. । २ च - घ । ३,. व - ख । ४ च परन्तपे - ख. ।
तस्माद्धि योगाद्भवती[^५] दक्षस्येह प्रजापतेः ।
जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ॥५॥
ततः सा तद्वचः[^६] श्रुत्वा योगाद्देवी मनस्विनी ।
दक्षस्य दुहिता जज्ञे सतीनामा[^७]तियोगिनी ॥६॥
तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् ।
ब्रह्मणो वचनाद्यस्यां मानसा[^८]नसृजत्सुतान् ॥७॥
आत्मतुल्यबलान्दीप्तान् जरामरणवर्जितान् ।
अनेकानि सहस्राणि रुद्राणाममितौजसाम् ॥८॥
तान्दृष्टा मृज्यमानाँश्च ब्रह्मा तं प्रत्यषेधयत् ।
मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ॥९॥
अन्याः[^१०] सृजस्व भद्रन्ते प्रजा[^११] मृत्युसमन्विताः[^१२] ।
तेन चोक्तं स्थितोस्मीति[^१३] स्थाणुस्तेन ततः स्मृतः ॥8.10.१० ॥
देवदेव उवाच
न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन् कथञ्चन ।
स्थितोस्मि वचनात्तेद्य वक्तव्यो नास्मि ते पुनः ॥११॥
ये त्विमे मानसाः[^१५] सृष्टा महात्मानो महाबलाः ।
चरिष्यन्ति मया सार्ध सर्व एते हि याज्ञिकाः ॥१२ ॥
सनत्कुमार उवाच
अथ काले गते व्यास स दक्षः शापकारणात् ।
अन्यानाहूय जामातॄन्सदारानर्च्चयद् गृहे[^१६] ॥१३॥
सतीं सह त्र्यम्बकेण[^१७] नाजुहाव रुषान्वितः ।
सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥१४॥
ति - घ । ६ तत्त्वत - ख. । ७ नामे - घ. । ८ म… - ख । ९ षेधत - घ. । १० - न्या - ख. । ११… जा - ख. । १२… ताम् - ख. । १३ स्मृतो… - ख. । १४ एतत्स्थाने अथ काले गते व्यास देवदेवोभ्यभाषत । इति घ पुस्तके । १५ मनसा - ख. । १६ महे - घ । १७ ता सती त्र्यम्बकेनाथ - घ. ।
अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत[^१८]।
मां हित्वा नार्हसि[^१९] ह्येताः सह भर्तृभिरर्चितुम् ॥१५॥
क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः[^२०] ।
निरीक्ष्य प्राब्रवीद्२१ दक्षश्चक्षुषा निर्दहन्निव ॥१६॥
मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः ।
न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ॥१७॥
गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः ।
श्रेष्ठो२२ स्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ॥१८॥
तस्माद् यां ते२३ करोम्यद्य शुभां२४ वा यदि वाशुभाम्२५ ।
पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ॥१९॥
सनत्कुमार उवाच
ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता ।
पूजामसम्मतां हीनामिदं चोवाच तं शुभा ॥8.10.२० ॥
यस्मादसम्मतामेनां पूजां त्वं कुरुषे मयि ।
श्लाघ्यां चैवाप्यदुष्टाञ्च श्रेष्ठां मां गर्हसे पितः ॥२१ ॥
तस्मादियं२६ स्वकं देहं त्यजाम्येषा२७ तवात्मजम्२८ ।
असत्कृतायाः किं मेद्य जोवितेनाशुभेन ह ॥ २२॥
सनत्कुमार उवाच
ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह ।
उपाचेदं सुसंरब्धा वचनं वचनारणिः ॥२३॥
यत्राहमुपपद्येयं पुनर्देहे२९ स्वयेच्छया३० ।
देव तत्राप्यसं३१मूढा३२ सम्भूता धार्मिका सती ॥२४॥
जामातरि शुभव्रता - घ । १९… से - ख. । २० अज्ञानो… घ. । २१ विषवी - ख, तां पुनर् - । २२ ज्येष्ठाँ - घ । २३ यत्ते - घ । २४, भम् । २५… भम् - घ. । २६… दं - घ. । २७.. ष - घ । २८… जा - घ. । २९ देहं - घ । ३० सुखेच्छपा - घ. । ३१ प्येष - घ । ३२ सम्मूढा - घ ।
गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ।
ततः सा धारणां कृत्वा देव्याग्नेयीं समाधिना ॥२५॥
ददाह वै स्वकं देहं स्वसमुत्थेन३३ वह्निना ।
तां ज्ञात्वा३४ त्र्यम्बको देवीं तथाभूतां महायशाः ॥२६॥
उवाच दक्षं सङ्गम्य३५ इदं वचनकोविदः ।
यस्मात्ते निन्दित३६श्चाहं प्रशस्ताश्चेतरे पृथक् ॥२७॥
जामातरः सपत्नीकास्तस्माद्वैवस्वतेन्तरे ।
उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ॥२८॥
त्वं चैव मम शापेन क्षत्रियो भविता नृप३७ ।
प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः ।
धर्मविघ्नञ्च ते तत्र करिष्ये क्रूरकर्मणः३८ ॥२९॥
सनत्कुमार उवाच
तमुवाच तदा दक्षो दूयता हृदयेन वै ।
मया यदि सुता३९ स्वा४० वै प्रोक्ता त्यक्तापि वा पुनः ॥8.10.३०॥
किं तवात्र४१ कृतं देव अहं तस्याः प्रभुः सदा ।
यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शङ्कर ।
भुव्येव वत्स्यसे नित्यं नान्तरिक्षे कदाचन ॥३१ ॥
भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः ।
अपस्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ॥३२॥
सनत्कुमार उवाच
ततः स देवः प्रहसन् तमुवाच त्रिलोचनः ।
सर्वेषामेव लोकानां मूलं भूर्लोक४२ उच्यते ॥३३ ॥
स (स्व) कीयेनैव - घ. । ३४ ज्ञात्वा तु - घ. । ३५ सम्यक् - घ. । ३६ नार्थित - घ. ३७ नृपः - - घ. । ३८ … णा - घ. । ३९ मया चैव - घ. । मयेयं दुहिता - ग । ४० सा घ. । ४१… द्य - घ. । ४२ भूरिति - घ. ।
तमहं धारयाम्येको लोकानां हितकाम्यया ।
एतस्मिन् हि धृते४३ लोकाः सर्वे तिष्ठन्ति शाश्वताः ॥३४॥
तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवेच्छया ।
भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः ॥३५॥
अपः स्पृशन्ति शुद्ध्यर्थं भागं४४ यच्छन्ति मे ततः ।
शी यश्च धर्मस्यैवाभिवृद्धये ॥।३६॥।
दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्ध्ये॥३६॥
यथा४५ हि देवनिर्माल्यं शुचयो धारयन्त्युत ।
अशुचिं४६ स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ॥३७॥
यथा ममैव४७ मन्येषां दित्सवो ब्राह्मणर्षभाः ।
भागानपः स्पृशन्ति स्म तत्र का परिदेवना ॥३८॥
त्वन्तु मच्छापनिर्दग्धो विपरीतो नराधमः ।
स्वस्यां सुतायां४८ मूढात्मा पुत्रमुत्पादयिष्यसि ॥३९॥
सनत्कुमार उवाच
एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः ।
विरराम महातेजा जगाम च यथागतम्४९ ॥8.10.४०॥
सोमदिवाकरवह्निसमाक्षं ५० चन्द्रनिभाननपद्मदलाक्षम् ।
गोवृषवाहममेय५१ गुणौघं शाश्वतमिन्दुवह५२ प्रणताः स्मः ॥४१ ॥
य इमं दक्षशापाङ्क५४ देव्याश्चैवाशरीरताम् ।
शृणुयाद् वाथ विप्रान्५५ वा श्रावयीत५६ यतव्रतः ।
स सर्वपापनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥४२॥
इति स्कन्दपुराणे दक्षशापो नाम दशमोध्यायः
निर्वृत्ते - घ. । ४४. .गान् - ग । ४५ त… - घ । ४६… चि - घ । ४७ देवानामेव - घ., देवतामेव - ख ग । ४८ अस्याः स्वभार्या - घ. । ४९.. .मतम् - घ. । ५० मेरु - कम्, मेरु भास्कार - ख., मेरुर्हिमाचलमन्दकरक्षं - घ. ।… समक्षं - घ । ५१ मशेष - घ. । ५२ सततमिहेन्दु.. - ? । ५३ इदं - घ. ५४… ङ्गः - घ. । ५५ विप्रेभ्यः - घ. । ५६… येत - क. ।