सनत्कुमार उवाच
ते दृष्ट्वा देवदेवेशं ब्रह्मेन्द्रप्रमुखाः[^१] सुराः ।
अस्तुवन् वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ॥१ ॥
पितामह उवाच
नमः शिवाय सोमाय[^२] भक्तानां भयहारिणे ।
नमः शूलाग्रहस्ताय कमण्डलुधराय च ॥२॥
नमस्ते[^३] नीलकण्ठाय करालदशनाय[^४] च ।
त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च ॥३॥
नमः पिनाकिने चैव नमो[^५] स्त्वशनिधारिणे ।
व्यालयज्ञोपवीताय कुण्डलाभरणाय च ॥४॥
नमश्चक्रधरायैव व्याघ्रचर्मधराय च ।
कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा[^६] ॥५॥
ग्रवि… - ख. । ७१.. .तः - ख. । ७२ कथञ्चन - ध. । ७३ … सा - घ. । ७४.. .ला - ख. । ७५.. .षा - ख. । ७६… पि हर्षिताः - घ. । ७७ प्रतिवी… - घ. । ७८… न्ति ख., - घ. । ७९ यथात्मभावचित्ताः- घ । गतात्मभावचित्ताः- ख., त्तः - घ. । ८०… वस्तरन्तः - घ. ।
ब्रह्माणं… - ख., सर्वे सब्रह्मकाः - घ. । २ सौम्याय - घ. । ३ दान्ताय - घ. । ४… नयनाय - ष । ५ नम - घ । ६ नमः - घ ।
वरदात्रे च[^७] पुत्राय सरस्वतीसुवे[^८] तथा ।
सोमसूर्याक्षमालाय[^९] अक्षसूत्रकराय च ॥६॥
ज्वानामालासहस्राय[^१०] ऊर्ध्वलिङ्गाय[^११] वै नमः ।
नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ॥७॥
हालाहलविनाशाय कपालवरधारिणे ।
विमानवरवाहाय जनकाय ममैव च[^१२] ॥८॥
वरदाय वरिष्ठाय श्मशानरतये नमः ।
नमो नरस्य कर्त्रे च स्थितिकर्त्रे[^१३] नमः सदा ॥९॥
उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ।
ऋषिदैवतनाथाय सर्वभूताधिपाय च ।
शिवः सौम्यश्च देवेश भव[^१४] नो भक्त[^१५] वत्सल[^१६] ॥8.9.१०॥
सनत्कुमार उवाच
ब्रह्मण्यथैवं स्तुवति देवदेवः[^१७] स लोकपः ।
उवाच तुष्टस्तान्देवानृषींश्च तप्तैधितान् ।११ ।
उ देवान् प ॥
तुष्टोस्म्यनेन वः सत्य[^१८] न्तपसा ऋषिदेवताः ।
वरं ब्रूत प्रदास्यामि सुनिश्चित्य च[^१९] उच्यताम् ॥१२॥
सनत्कुमार उवाच
अथ सर्वानभिप्रेक्ष्य सन्तुष्टाः[^२०] तपसैधितान्[^२१] ।
दर्शनेनैव[^२२] विप्रेन्द्र[^२३] ब्रह्मा वचनमब्रवीत् ॥१३॥
ब्रह्मोवाच
यदि तुष्टोसि देवेश यदि देयो वरश्च नः ।
तस्माच्छिवश्च सौम्यश्च सन्दृश्यश्च[^२४] भवस्व नः ॥१४॥
वरदानाच्च - घ., परयाम… - ख. । ८.. .ते - घ । ९ सूर्यसोमाकं… - घ. । १०.. .ल .. - ख. घ. । ११ तत्त्व… - घ. । १२ ह - घ. । १३ ह… - ख । १४ भा… - ख. । १५ भक्ति… - घ., द्भक्ति… - ख. । १६… ल. - घ । १७ देवेभ? सर्व… - घ. । १८ सम्यक् - घ । १९ स - ख. । २०.. ष्टस्त.. - घ. । २१.. से.. ख. घ । २२. .न च? - घ । २३.. न्द्रा - घ. । २४ दृश्यश्चैव - ख. ।
सुख[^२५] संव्यवहार्यश्च नित्यं तुष्टमनास्तथा ।
सर्वकार्येषु च सदा हितः[^२६] पथ्यश्च शङ्कर ॥१५॥
सह देव्या[^२७] ससूनुश्च सह देव[^२८]गणैरपि ।
एष नो दीयतां देव वरो वरसहस्रद ॥१६॥
सनत्कुमार उवाच
एवमुक्तः स भगवान् ब्रह्मणा[^२९] देवसत्तमः ।
स्वकं[^३०] तेजो महद्[^३१] दिव्यं व्यसृजत्[^३२] सर्वयोगवित्[^३३] ॥१७॥
अर्धेन तेजसस्तस्य[^३४] मुखादुल्का ससर्ज ह ।
तामाह भव नारीति[^३५] भगवान् विश्वरूपधृक् ॥१८॥
साकाशं द्यां च भूमिञ्च महिम्ना व्याप्य धिष्ठिता[^३६] ।
उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥१९॥
तामाह प्रहसन् देवो देवीं कमललोचनाम् ।
ब्रह्माणं देवि वरद[^३७]माराधय शुचिस्मिते ॥8.9.२० ॥
सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे ।
रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे ॥२१॥
फलं फलवतां श्रेष्ठा यद् ब्रवीमि तपोधनाः ।
अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः ॥२२॥
मद्भक्तास्तपसा युक्ता इहैव[^३८] च निवत्स्यथ[^३९] ।
अयं चैवाश्रमः श्रेष्ठः[^४०] स्वर्णशृङ्गोचलोत्तमः ॥२३॥
पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ।
मैनाके पर्वते ह्यस्मिन्[^४१] स्वर्णाक्षोहं[^४२] यतः[^४३] स्थितः[^४४] ॥२४॥
? .खं - ख. । २६ भितकल्प… - घ. । २७ सभृत्य.. - ध. । २८ भृत्य (?) । २९… णो - ख. घ. । ३०… कां - ख. । ३१ मयं - घ. । ३२ मभवत् - घ. । ३३ स च घ. । ३४ स्वस्य - ख. । ३५ त्वं - ख. । ३६ संस्थिता - घ. । ३७.. .दा - ख. । ३८ इह चैव घ. । ३९ हि वत्स्य … - घ. । ४० ष्ठाः– ख., ष्ठं - घ. । ४१ श्रेष्ठे - ख. । ४२ स्वर्णेहमभवं ग., स्वर्णे महति सञ्चये - ख. । ४३ सदा - घ. । ४४ यतः - ग. ।
स्वर्णाक्षीं चासृजं देवीं[^४५] स्वर्णाक्षं तेन तत्स्मृतम्[^४६] ।
स्वर्णाक्ष[^४७] ऋषयो यूयं[^४८] षट्कुलीया[^४९] स्तपोधनाः ॥२५॥
निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं[^५०] वै ततश्च ह[^५१] ।
समन्ताद्योजनं क्षेत्रं पवित्रं[^५२] तन्न संशयः ॥२६ ॥
देवगन्धर्वचरितमप्सरोगणसेवितम्[^५३] ।
सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्[^५४] ॥ २७॥
अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्[^५५] ।
ब्रह्मचारी नियमवान् जितक्रोधो जितात्मवान्[^५६] ॥ २८॥
उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च ।
यत्र[^५७] तत्र मृतः सोपि[^५८] ब्रह्मलोके निवत्स्यति ॥ २९॥
योप्येवमेवाकामान्मां पश्ये[^५९]दत्र वृषध्वजम् ।
गोसहस्रफलं सोपि मत्प्रसादादवाप्स्यति ॥ 8.9.३० ॥
नियमेन मृतश्चात्र मया सह चरिष्यति ।
यावत् स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः ॥ ३१ ॥
तावत् सह मया देवा मत्प्रसादा[^६०]च्चरिष्यथ ।
एवं[^६१] स तानृषीनुक्त्वा दृष्टवा सौम्येन[^६२] चक्षुषा ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥३२ ॥
सनत्कुमार उवाच
य इमां[^६३] शृणुयान्मर्त्यो द्विजातीञ्छ्रावयीत[^६४] वा ।
सोपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ॥ ३३ ॥
जयति जलदवाहः सर्वभूतान्तकालः ।
शमदमनिरतानां[^६५] क्लेशहर्ता[^६६] यतीनाम् ।
स्वर्णाक्षी च मया सृष्टा - घ. । ४६ स्वर्णाक्षो यो गिरिस्ततः - घ. । ४७ अस्मिँश्च - घ. ।. क्षं - ख., क्षे.. - ग. । ४८ युक्ताः - घ. । ४९.. .ना - ग. । ५० स्वर्णाक्षे - घ. । ५१ लर्वकामदे - घ. । ५२ भविष्यति - घ. । ५३ गीतनादितम् - ध. । ५४… समा… - घ. । ५५.. .समा… - घ. । ५६ जितेन्द्रियः - घ. । ५७ त… - ख । ५८ साक्षात् - घ. । ५९ त… - ख. घ. । ६० मत्प्रभावा… - ग. । ६१ चैव स ता - घ. । ६२ दिव्येन - घ. । ६३.. .दं - घ. । ६४. येत्तथा - घ. । ६५ निय… ख. ग. घ । ६६… हन्ता - घ.
जननमरणहर्ता[^६७] चेष्टतां धार्मिकाणाम्[^६८] ।
विविधकरणयुक्तः खेचरः पादचारी ॥३४॥
मदनपुरविदारी नेत्रदन्तापहारी[^६९] ।
विगतभयविषादः सर्वभूतप्रणेता[^७०] ॥
सततमभिदधानश्चेकितानात्मचितः ।
करचरणललामः सर्वदृग् देवदेवः ॥ ३५ ॥
इति स्कन्दपुराणे[^७१] वरप्रदानिको नाम नवमोध्यायः