००८

वायुरुवाच
एवं ह्येषा[^१] भगवती ब्रह्मलोकानुसारिणी ।
युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद् व्यवर्त्तत ॥१ ॥

सनत्कुमार उवाच
एवं तेषां समाप्तेथ[^२] सत्रे वर्षसहस्रिके ।
प्रवृत्तायां सरस्वत्यामगात्तत्र[^३] पितामहः ॥२॥

ब्रह्मोवाच[^४]
भूयोनेनेह[^५] सत्रेण यजध्वम्[^६] देवमीश्वरम् ।
यदा? वो भविता विघ्न[^७]स्तदा निष्कल्मषं तपः ॥३ ॥

देवैः । ३९ एते च । ४०… जयत् । ४१ सुर.. । ४२ प्रहस्य… । ४३… ली । ४४… न्द्रः । ४५ सहा (द) - ग महत् - घ । ४६ दर्शतं । ४७ . .ङ्गितम् - ग । पाठोयं प्राय सर्वोपि घपुस्तकमूले प्रतिधृतो बोध्यः । -८ विद्दिष्ट - ष. ।. ल्य … - घ । ४९ रुद्रवशोभिनन्दति - घ । ५०… नो - घ-
एवमेषा - घ. । २ तु - घ. । ३ म …. घ., आ - ख. । ४ पितामह उवाच - घ. । ५ हन्येह? - घ. । ६ भजध्वं - घ । ७ विघ्नं - घ ।
विघ्नं तञ्चैव[^८] सन्तीर्य[^९] तपस्तप्त्वा च भास्वरम् ।
योगं प्राप्य महद्युक्ता[^१०] स्ततो[^११] द्रक्ष्यथ शङ्करम् ॥४॥

तथेत्युक्त्वा गते तस्मिन् सत्राण्याजह्रिरे[^१२] तदा ।
बहूनि विविधा[^१३] काराण्यभियुक्ता[^१४] महाव्रताः ॥५ ॥

निस्सोमां पृथिवीं कृत्वा कृत्स्ना[^१५]मेतां ततो द्विजाः ।
राजानं सोममानाय्य[^१६] अभिषोतु[^१७]मियेषिरे ॥६॥

अथ सोपि कृत[^१८]स्तिर्यग[^१९]दृश्येन दुरात्मना ।
स्वर्भानुना हतः सोमस्ततस्ते दुःखिता भवन् ॥७॥

ते गत्वा मुनयः सर्वे कलापग्रामवासिनम् ।
पुरूरवसमानीय राजानन्तेभ्यषेचयन् ॥८॥

ऊचुश्चैनं[^२०] महाभागा हृतः सोमो हि नः प्रभो ।
केनापि तद्भवान्[^२१] क्षिप्रमिहानयतु मा चिरम्[^२२] ॥९॥

स एवमुक्तो मृगयन् यदा नासादयत्[^२३] प्रभुः ।
उवाच स तदा विप्रान् प्रणम्य भयपीडितः ॥8.8.१० ॥

परमं यत्न[^२४]मास्थाय मया सोमोभिमार्गितः ।
न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥११॥

तमेवं[^२५]वादिनं क्रुद्धा ऋषयः शंसितव्रताः ।
ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥१२॥

भवान् राजा कृत[^२६]स्तात यतो[^२७]स्माभिर्भयार्दितैः ।
न च नस्तद्भयं मुक्तं २८ नापि शक्तोसि[^२९] वेदितुम् ॥ १३॥

विषयेष्वभि[^३०] सक्तात्मा योगात्तं[^३१] नानुपश्यसि[^३२] ।
तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि[^३३] ॥१४॥

तज्जैष? - ष. । ९ सन्तर्प्य - व. । १० तत्त्वयु.. - ध. । ११?.. त - ख । १२ जज्ञि… - घ । १३. ज्ञानि- घ । १४ अतिभु.. - घ । १५ कृत्वा कृत्स्ना - घ. । १६ मानमस्रो?- - घ । १७ प्रतिषेद - घ, अभिषेक्तु (?) ।
वि.. घ । १९ कृताति - ख., हताशल्यं - घ । २०. .वं - घ । २१ भगवान् - घ । २२ योगवित् - घ । २३. - .? - व. । २४ यज्ञ - घ. । २५ त एवं - घ. । २६ कु… - घ । २७ कृ… - घ । २८ यु.. - घ । २९. ? नो विभौ - ख । ३०.. .ति - घ. । ३१ त्मानम - घ । ३२. .. ति - घ । ३३. - ति घ ।
वयमेव हि राजानमानेष्याम[^३४] सुदुर्विदम् ।
तपसा स्वेन राजेन्द्र पश्य[^३५] नो बलमुत्तमम्[^३६] ॥१५॥

ततस्त ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।
अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥१६॥

स्तुवतां तु[^३७] ततस्तेषां गायत्री वेदभाविनी ।
रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥१७॥

तुष्टास्मि वत्साः किं वोद्य करोमि वरदास्मि वः ।
ब्रूत[^३८] तत्कृतमद्यैव[^३९] भविष्यति न संशयः ॥१८॥

ऋषय ऊचुः
सोमो नोपहृतो देवि केनापि सुदुरात्मना ।
तमानय[^४०] नमस्तेस्तु एष नो[^४१] वर उत्तमः ॥१९॥

सनत्कुमार उवाच
सा तथोक्ता विनिश्चित्य दृष्ट्वा[^४२] दिव्येन चक्षुषा ।
श्येनीभूता जगामाशु श्वर्भानुमसुरं प्रति ॥8.8.२०॥

व्यग्राणामसुराणां सा च गृहीत्वा सोममागता ।
आगम्य तानृषीन्प्राह अयं सोमोभिषूयताम्[^४४] ॥२१॥

ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।
अमन्यन्त तपोस्माकं निष्कल्मषमिति द्विजाः ॥२२॥

ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।
आगत्य तानृषीन् प्राह[^४५] तपः[^४६] कुरुत[^४७] मा चिरम् ॥२३ ॥

ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।
सर्वैर्देवगणै[^४८]स्सार्द्धं तपश्चेरुः समाहिताः । २४॥

मानयिष्याम - ख, घ. । ३५ यथा - घ. । ३६ योग - घ. । ३७ सा व्रतान्ते (?) - ख. । ३८ ध्रुवम्- घ- । ३९… मेवैव - ध. । ४० तस्मा । ( ?) - ख । ४१ ते - घ. । ४२.. .ष्ट्या - ख. । ४३ च - ध. । ४४ स्व (सो) यं राजा नियुज्य… - घ. । ४५ सर्वा - घ. । ४६ स्त… ख., घ. । ४७ कुर्वत - घ. । ४८ सर्वे दे. - ख. ।
तेषां कालेन महता तपसा भावितात्मनाम् ।
योगप्रवृत्तिरभवत्[^४९] सूक्ष्मयुक्ता[^५०] स्ततस्तु ते[^५१] ॥२५॥

ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।
महेश्वरे[^५२] मनः स्थाप्य निश्चलोपलवत् स्थिताः ॥२६॥

अथ तेषां महादेवः पिनाकी नीललोहितः ।
अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥२७॥

तद्भावभावितान् ज्ञात्वा स[^५३] भावेन परेण ह ।
उवाच मेघनिर्हादः शतदुन्दुभिनिस्वनः ॥२८॥

भो भो सब्रह्मका देवाः सविष्णु[^५४] ऋषिचारणाः ।
दिव्यं चक्षुः प्रयच्छामि पश्यध्वं[^५५] मां यथेप्सितम्[^५६] ॥२९॥

सनत्कुमार उवाच
अपश्यन्त[^५७] ततः सर्वे सूर्यायुतसमप्रभम् ।
विमानं[^५८] मेरुसङ्काशं[^५९] नानारत्नविभूषितम्[^६०] ॥8.8.३० ॥

तस्य मध्येग्निरोचिष्कं[^६१] सुमहद्दीप्तिमा[^६२] स्थितम् ।
ज्वालामालापरिक्षिप्त[^६३]मर्चिर्भिरुपशोभितम् ॥३१ ॥

दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।
त्रेताग्नि[^६४] पिङ्गलजटं भुजगाबद्धमेखलम् ॥३२॥

मृष्टकुण्डलिनं चैव शूलाशक्तमहाकरम् ।
पिनाकिनं दण्डहस्तं मुद्गराशनिधारिणम्[^६५] ॥३३ ॥

असिपट्टिशहस्तं[^६६] च चक्रिणं चोर्ध्वमेहनम्[^६७] ।
अक्षसूत्रकरं[^६८] चैव दुष्प्रेक्ष्य[^६९]मकृतात्मभिः ॥३४॥

रागप्रवृत्तिरभवत् - घ. । ५०… मु.. - घ. । ५१ ततः स्फुटी - घ. । ५२ परमेशे - घ. । ५३ सद् - ख. । ५४ सू - घ., । ि - ख. । ५५… त्वं - घ. । ५६ यथासुखम् - घ. । ५७ तेपश्यँ स्ते - घ. । ५८… ने - ख. । ५९… शे - ख. । ६०… ते - ख. । ६१.. ग्निरोचिस्तं - घ, त्रिकूटञ्च - ख । ६२… मां - ख. ६३.. .क्लिष्ट - घ । ६४… मन्त्राग्नि… - घ. । ६५. पाणिनम् - ख. । ६६… सहर्ष - ख. । ६७.. .मेखलं - घ. । ६८… रथं - घ. । ६९… क्ष - घ. ।
चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्[^७०] ।
तमपश्यन्त[^७१] ते सर्वे देवा दिव्येन चक्षुषा ।
यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन[^७२] ॥३५॥

तपसा[^७३] विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम्[^७४] ।
वियतीश्वरदत्तचक्षुषः[^७५] सह देवैर्मुनयो मुदान्विताः[^७६] ॥३६॥

प्रसमीक्ष्य[^७७] महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।
प्रणमन्त[^७८] गतात्मभावचिन्ताः[^७९] सह देवैर्जगदुद्भवं स्तुवन्तः[^८०] । ॥३७॥

इति स्कन्दपुराणे रुद्रदर्शनो नामाष्टमोध्यायः