००७

ने - भू. । ८… तसा - मू । ९ वसे - मू । १० हा एवक्षय - मू. । हैवाक्षय (?) । ११… रामर - मू. । १२ स्वयं - मू. । १३ तथा (?) । १४ र - मू । १५ कृत्यो - मू ।
वायुरुवाच
ब्रह्मलोकं समासाद्य भगवान् सर्वलोकपः ।
भक्ष भैक्षमिति प्रोच्य द्वारे समवतिष्ठत ॥१॥

तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥२॥

तस्य तुष्टस्तदा देवो वरदोस्मीत्यभाषत ।
वृणीष्व वरमव्यग्रो यत्ते मनसि वर्तते ॥३॥

ब्रह्मोवाच
इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
येन चिह्ने न लोकोयं चिह्नितः स्याज्जगत्पते ॥४॥

तस्य तद्वचनं श्रुत्वा भगवान् वदतां वरः ।
सर्वं प्रतिमयं (?) ब्रह्मन्नोमिति व्याजहार सः ॥५॥

तस्यैवं ध्यानमात्रेण वागियं दिव्यरूपिणी ।
निःसृताः वदनाद्देवी प्रह्वा समवतिष्ठत ॥६॥

तामुवाच ततो देवी वाचा सञ्जीवयन्निव ।
यस्मात् त्वम[^४]क्षरो भूत्वा मम वाचो विनिःसृता ॥७॥

सर्वविद्याधिदेवी त्वं तस्माद्देवि[^५] भविष्यसि ।
यस्माद् ब्रह्मरसं वेदं मुखम्[^६] मम समाश्रिता ॥८॥

तस्मात् सरस्वतीत्येवम्[^७] लोके ख्यातिं गमिष्यसि ।
इमं लोकं रसाम्भोभिर्भावयित्वा च सुप्रभे ॥९॥

सर्वलोकान् तारयिता पुनस्त्वम्[^८] नात्र संशयः ।
यज्ञभागं च ते देवा दास्यन्ति सपितामहाः ॥8.7.१०॥

इत्येव ब्रह्मणश्चेदं कपालममितौजसः ।
इमं लोकमनुप्राप्य[^९] देशे प्रेष्ठेवतिष्ठत[^१०] ॥११॥

क्ष मू. । सर्वोप्ययं घ पुस्तकमूलपाठो मन्तव्यः । २ ध्यात.. । ३… त्य ।?) । ४ त्वं य । ५.. .वी । ६ सुखम्? । ७ देवी । ८ स्थ । ९.. प्यं । १०.. .ते ।
तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
स्थापयामास दीप्तार्चिः कुशानामग्रतः प्रभुः ॥ १२ ॥

स्थापितं तदथो[^११] दृष्ट्वा गणाः सर्वे महात्मनः ।
व्यनदन् सुमहानादं नादयन्तो दिशो दश ॥ १३ ॥

        • प्रख्ये[^१३] - - - - -विदीर्यते ।
          तेन शब्देन घोरेण असुरो देवकण्टकः ॥ १४॥

हालाहल इति ख्यातस्तं देशं सोभ्यगच्छत ।
अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञशासकः[^१४] ॥ १५ ॥

ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
महिषश्छन्नरूपाणा[^१५]मसुराणां शतैर्वृतः ॥१६ ॥

तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान् पिनाकिनः ॥ १७॥

यो ह्ययं गणपा दुष्टस्त्रैलोक्ये[^१६] सुरकण्टकः ।
आयाति रुषितो[^१७] युष्मान्[^१८] तस्मादेनं निहिंसत[^१९] ॥१८ ॥

ततस्ते गणपाः सर्वे समायातं सुरद्विषम् ।
भित्त्वा शूलेन सङ्क्रुद्धा विगतासुं प्रचक्रिरे ॥ १९ ॥

हते तस्मिन् तदा देवो दिशः सर्वानवैक्षत ।
ताभ्यः पिशाचवृत्तास्याः पिशाच्यश्च[^२०] महाबलाः ॥8.7.२० ॥

अभ्यगच्छत तं देवं[^२१] ताभ्यस्तं विनिवेदयन् ।
स ताभिरुपयुक्तश्च - - - - - सर्वशः ॥२१ ॥

तमेवाप्यथवावासं देवादिष्टं प्रपेदिरे ।
भक्षयन्ति स्म तं नित्यं सिद्धासिद्धा यतस्ततः ॥ २२ ॥

कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ।
कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना[^२२] ॥२३ ॥

तम… । १२ क्षु चंरते सरित्प्रख्यो । १३ निर्भियेन । १८… शाशक । १५… छ । १६ श्वर । १७ दूषिता । १८ यूयं । १९ हिष्यथ । र्ग्वोय मूलपुस्तकपाठो बोध्यः । २०… चाश्च । २१ देशं (?) । २२.. न ।
महाकपालं[^२३] तत्तस्मात् त्रिषु लोकेषु गद्यते[^२४] ।
स्थापितस्य कपालस्य यथा तदभवत्तदा[^२५] ॥२४॥

ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ।
आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः ॥२५॥

कपर्दिनमुपामन्त्र्य तं देशं सोन्व[^२६]गृह्णत ।
अर्द्धयोजनविस्तीर्णं क्षेत्रमन्यत् समन्ततः ।
भविष्यति न सन्देहः सिद्धक्षेत्रं महात्मनः ॥२६॥

श्मेति[^२७] हि प्रोच्यते पापं क्षयं शानं[^२८] विदुर्बुधाः ।
ध्यानेन नियमै[^२९]श्चैव श्मशानं तेन सञ्ज्ञितम्[^३०] ॥२७॥

गुह्य देवाधिदेवस्य[^३१] परं प्रिय[^३२]मनुत्तमम् ।
एवं तत्र नरः पापं सर्वमेव प्रहास्यति ॥२८॥

त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
राजसूयाश्वमेधाभ्यां फलं कृत्स्नमवाप्स्यति[^३३] ॥ २९॥

यश्च प्राणान् प्रियाँस्तत्र परित्यक्ष्यति मानवः ।
स गुह्यगणदेवानां समतां समवाप्स्यति ॥8.7.३० ॥

वायुरुवाच
ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं[^३४] शुभम् ।
सुरेश्वरश्चकाराशु[^३५] रुद्रस्यायतनं शुभम् ॥३१ ॥

तत्राभिगमनादेव कृत्वा पापस्य सङ्क्षयम् ।
रुद्रलोकमवाप्नोति स प्राहैवं[^३६] पितामहः ॥ ३२॥

यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।

      • सोभवन्नाम्ना देशः पुण्यतमः शुभः ॥३३ ॥

फ - पं । २४ पद्म? (ठ्य) ते । २५ तम… । २६ सोत्र । २७ श्वे ते । २८ सानं । २९ .. म । ३० सङ्गि… । ३१ देवाति… । ३२ श्रित । ३३… ति । ३४ र्च्च्या.. । ३५ .ञ्चकार… । ३६ प्राहेव । ३७ कस्मादसौ ।
ततो देवः[^३८] सह गणै रूपं विकृतमास्थितः ।
पश्यतां सर्वदेवानामन्तर्द्धानमगात् प्रभुः ॥३४॥

एतच्च[^३९] देवनाथेन कपालस्थानमव्ययम् ।
सर्वतीर्थाभिषेकस्य फलेन समयोजि यत्[^४०] ॥३५॥

तदद्यापि महद्दिव्यं सरस्तत्र[^४१] प्रदृश्यते[^४२] ।
महाकपालं[^४३] विप्रेन्द्राः[^४४] स्वर्गस्तत्राक्षयः स्मृतः ॥३६॥

इदं शुभं दिव्यमधर्मशासनं महाह्रदं सेन्द्रसुरासुरार्चितम् ।
महा[^४५] कपालप्रकृतोपवर्णनं[^४६] सुरेशलोकादिविगाहने हितम्[^४७] ॥३७॥

तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्टतुल्यं[^४८] द्विजराजमण्डलम् ।
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिविष्टपं गच्छति सोभिनन्दितः[^४९] ॥३८॥

इति स्कन्दपुराणे कपालसंस्थापनं[^५०] नाम सप्तमोध्यायः