००६

सनत्कुमार उवाच
ततः स भगवान्देवः कपर्दी नीललोहितः ।
आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥१ ॥

तद् गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।
योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥२॥

स देववेश्मनि तथा भिक्षार्थमगमद् द्विजाः ।
न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥३॥

अथ सञ्चक्रमे[^१] देवो वेश्म विष्णोर्महात्मनः ।
तस्या[^२] तिष्ठत स द्वारि भिक्षामुच्चारयन् शुभाम् ॥४॥

स दृष्ट्वा ततहस्तम्[^३] तं विष्णुर्वै योगचक्षुषा ।
शिवलीलाम्[^४] समाज्ञाय रक्तधारामपातयत् ॥५॥

पपात सा च विस्तीर्णा योजनार्द्ध शतं तदा ।
तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया ॥६॥

पितामहकपालस्य नार्धमप्यभिपूरिम् ।
तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥७॥

सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।
सकृद्राजानो ब्रुवते[^६] सकृद् भिक्षा प्रदीयते ॥८॥

देयं - ग । १०२ नास्तिका… - ग । १०३ ना - घ. । १०४ पठन् - घ । १०५ क्रीडावकाशो -घ १०६ भवदीय - घ । १०७… पि - घ ।
सङ्क्रमणा - मू । २ तस्य - मू । ३ तहतस्तता - मू. । ४ लीलात् - मू । ५.. मादाय (?) । ६ च इत्यधिकं मूले ।
तुष्टोस्मि तव दानेन युक्तेनानेन मानद ।
वरं वृणीष्व देवेश वरदोस्मि तवाद्य वै ॥९॥

विष्णुरुवाच
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
पश्यामि शङ्करं दीप्तं - - - - कपर्द्दिनम्[^७] ॥8.6.१० ॥

देवश्छायां ततो वीक्ष्य कपालस्थे तदा[^८] रसे[^९] ।
ससर्ज पुरुषं दिव्यं विष्णोः सदृशमूर्जितम् ॥११ ॥

तमाह[^१०] चाक्षयश्चासि अजरोमर[^११] एव च ।
युद्धेषु चाप्रतिद्वन्द्वो सखा विष्णोरनन्तरः ॥१२॥

देवकार्यकरः श्रीमान् महासेनपरं वच (? ॥

नारासु जन्म[^१२] यस्मात्ते वियुद्धे हो भवान्वच(?) ।
नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥ १३ ॥

वायुरुवाच
तं तदा[^१३] श्वास्य विक्षिप्य नरं विष्णोरनन्तरम् ।
अगमद् ब्रह्मसदनं तौ चाप्याविशतुर्गृहम् ॥१४॥

य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।
स कीर्त्या[^१५] परया युक्तो विष्णुलोके महीयते ॥ १५॥

इति स्कन्दपुराणे नरजन्मनामा षष्ठोध्यायः ॥