००५

सनत्कुमार उवाच[^१]
तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः ।
दिव्यं सत्रं समासन्त महद्वर्षसहस्रिकम् ॥ १ ॥

एकाग्रमनसः सर्वे निर्ममा[^२] निरहङ्कृताः[^३] ।
ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥ २ ।
तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदुपाश्रयाः[^४] ।
सर्वक्रियाः[^५] प्रकुर्वाणास्तमेव मनसा गताः ॥ ३ ॥

तेषां तम्[^६] भावमालक्ष्य मातरिश्वा महातपाः ।
सर्वप्राणि[^७] चरः श्रीमान्[^८] सर्वभूतप्रवर्तकः[^९] ॥४॥

ददौ स रूपी भगवान् दर्शनं सत्रिणां शुभः[^१०] ।
तन्ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्यम् ॥५॥

आसीनमासने पुण्ये ऋषयः संश्रितव्रताः[^११] ।
पप्रच्छु[^१२]रुद्भवं कृत्स्नं[^१३] जगतः प्रलयन्तथा ॥६॥

स्थितिञ्च कृत्स्नां[^१४] वंशांश्च युगमन्वन्तराणि च ।
वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥७ ॥

अष्टानां देवयोनीनामुत्पत्तिं प्रलयन्तथा ।
पितृसर्गं तथा शेषं ब्रह्मणो मानमेव च ॥८॥

चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः ॥९॥

वर्णाश्रमव्यवस्थानं[^१५] यज्ञानां च प्रवर्तनम् ।
एतत्सर्वमशेषेण कथयामास स प्रभुः[^१६] ॥8.5.१० ॥

सन उ - क. । २ निर्मला - घ. । ३ ह्यनहङ्कृताः - क- । ४ स्तदपा… - क., स्तत्परायणाः - घ. । ५… यां - घ. । ६ स - ध. । ७… धरो - घ. । ८ देवः घ । ९ लोक.. - घ. । १० ततः - घ. । ११ संशित… - घ. । १२ सम्भवं - घ । १३ पुण्यं - ध. । १४ कृत्स्नं - क. । १५ नां - क. । १६ सर्वशः - घ. ।
दिव्यवर्षसहस्रं च[^१७] तेषां तदभियात्तथा ।
अथ दिव्येन रूपेण सामवाग् दिङ्निरीक्षणा ॥११ ॥

यजुर्घ्राणाथर्वशिरा शब्दजिह्वा शुभा सतो ।
न्यायश्रोत्रा निरुक्तत्वगृक्पादपद[^१८] गामिनी ॥१२ ॥

कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी ।
कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ॥ १३ ॥

कल्पेन चोरसा[^१९] दिव्या शिक्षाविद्योन्नतस्तनी[^२०] ।
छन्दोविजितमध्या च मीमांसानाभिरेव च ॥ १४॥

पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा[^२१] ।
आश्रमोरुर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः[^२२] ॥ १५॥

लोकवेदशरीरा च रोमभिश्छान्दसैः[^२३] शुभैः ।
श्रद्धा[^२४] शुभाचारवस्त्रा[^२५] योगधर्माभिभाषिणी ॥१६ ॥

वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ।
तस्यान्ते[^२६] वभृथे प्लुत्य वायुना सह सङ्गताः ॥ १७॥

तामपृच्छन्त कान्वेषा वायुं देवं महाधियम्[^२७] ।
उवाच स महातेजा ऋषीन्धर्मानुभावितान्[^२८] ॥ १८ ॥

शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च बः कृतः ।
यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ॥१९॥

इयं[^२९] सरस्वती नाम ब्रह्मलोकविभूषणा ।
प्रथमं मर्त्त्यलोकेस्मिन् युष्मत्सिद्ध्यर्थमागता ।
नास्याः पुण्यतमा लोके त्रिषु लोकेषु विद्यते ॥8.5.२० ॥

ऋषय ऊचुः
कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा[^३०] ।
कारणं किञ्च तत्रासीदेतदिच्छाम वेदितुम् ॥२१ ॥

तु - घ. । १८ ऋग्वेदपाद -धा. । १९ कल्पसाधारणा - क. । २० विद्योदित… - (?) ।… ना - क. । २१… रमा - ध. । २२. .लः? - क । २३?. .शी - घ. । २४ शुद्धा - घ. । २५?.. वर्ण्णा - ध. । २६ न्तु (न्त्व?) - घ । २७ मनोगमम् - घ । २८ तानृषीन्धर्म… घ. । २९ एषा - घ. । ३० लोकपा शुभा - ष. ।
वायुरुवाच
अत्र वो वर्त्तयिष्यामि इतिहासं पुरातनम् ।
ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव हि[^३१] ॥२२॥

यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
असृजत्सर्वभूतानि स्थावराणि चराणि च ॥२३॥

स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
अवेक्षमाणस्ताल्ँलोकाँश्चतुर्भिर्मुखपङ्कजैः ॥२४॥

देवादीन् मानुषादीं ३२ श्च दृष्ट्वा दृष्ट्वा महामनाः ।
अमन्यत न मेन्योस्ति समो लोके न चाधिकः ॥२५॥

योहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः ।
देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ॥२६॥

अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते ।
नियन्ता लोककर्ता च न ममास्ति समः[^३३] क्वचित् ॥२७॥

तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
उवाच चैनं दीप्तात्मा मैवं[^३४] मंस्था महामते ॥२८॥

अयं हि तव सम्मोहो विनाशाय भविष्यति ।
न युक्तमीदृशन्तेद्य सत्वस्थस्यात्मयोनिनः[^३५] ॥२९॥

स्रष्टा त्वञ्चैव नान्योस्ति तथापि न यशस्करम् ।
अहं धर्त्ता[^३६] हि भूतानां भुवनस्य तथैब च ॥8.5.३० ॥

करोमि न च सम्मोहं यथा त्वं देव कत्थसे[^३७] ।
तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ॥३१ ॥

अहमेव हि भूतानां धर्त्ता[^३८] हर्ता[^३९] तथैव च ।
मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ॥३२॥

ह - क. । ३२ मनुष्या - क । ३३ समोस्ति न सम. - घ. । ३४ मैव - क. ग. घ. । ’ ३५ जा (या) जिनः - घ. । ३६ कर्ता - क ग घ. । ३७ कथ्यसे - घ. ३८ कर्ता - घ. । ३९ भर्ता - ख. ।
अथागत्तत्र संविग्नो वेदः[^४०] परमदीप्तिमान् ।
उवाच चैव तौ वेदो[^४१] नैत[^४२] देवमिति प्रभुः ॥३३ ॥

अहं श्रेष्ठो यत्कृतोस्मि[^४३] न वदाम्यनृतं क्वचित्[^४४]।
शृणुध्वं मम यः कर्त्ता भूतानां युवयोश्च ह ॥३४॥

परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
येनाहं तव दत्तश्च कृतस्त्वञ्च प्रजापतिः ॥३५॥

यज्ञोयं यत्प्रसूतिश्च[^४५] अहं[^४६] यत्रास्मि[^४७] संस्थितः[^४८] ।
सर्वं तस्मात्प्रसूतं वै नान्यः[^४९] कर्त्तास्ति नः[^५०] क्वचित् ॥३६॥

तमेवंवादिनं देवो ब्रह्मा वेदन[^५१]मभाषत ।
अहं श्रुतीनां[^५२] सर्वासां नेता[^५३] स्रष्टा तथैव च ॥३७॥

मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
मूढौ[^५४] युवामधर्मो वा भवद्भ्यामन्यथा कृतः ॥३८॥

प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ।
एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह ॥३९॥

आदित्यमण्डलाकारमदृश्यत च मण्डलम् ।
महच्छब्देन[^५५] महता उपरिष्टाद्[^५६] वियत्स्थितम् ॥8.5.४०॥

स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः[^५७] ।
हिमवत्कुञ्जमासाद्य नानाविहगनादितम् ॥४१॥

व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ।
ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः ॥४२॥

चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ।
स मुखं पञ्चमं दीप्त[^५८]मसृजन् मूर्घ्नि[^५९] संस्थितम् ॥४३॥

देवः - घ. । ४१ वदतो देवा - घ. । ४२ नेत - घ. । ४३ मत्कृतोस्मि - ग., महाभाग - घ. । ४४ नवदाम्यहमन्यथा - घ ४५. मत्प्रसूतिश्च - क. । ४६. अण्डं - क. ग. घ. । ४७.. - स्ति - घ - ४८… तं - ग. घ. । ४९ सद्यः - घ. । ५० न - घ. । ५१ चेद - घ. । ५२ मुनीनां सर्वेषां - घ । ५३ वेत्ता - घ । ५४. ढो - ग. ध., । ५५ श.. - ध., श्व, श्च? - क. । ५६ रूप… - क. ग. । ५७ सम.. - क. । ५८ दिव्य - ध. । ५९ मूर्ति क. ।
तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् ।
आदित्यमण्डलाकारं शब्दवद् घोरदर्शनम् ॥४४॥

तत्सृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत ।
संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ॥४५॥

वर्द्धमानं तदा तत्तु वडवामुखसन्निभम् ।
दीप्तिमच्छब्दवच्चैव देवोसौ दीप्तमण्डलः ॥४६ ॥

हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि ।
चकर्त्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥४७॥

दीप्तिकृत्तशिराः सोथ दुःखेनोस्रेण[^६०] चार्दितः॥

पपात मूढचेता[^६१] वै योगधर्मविवर्जितः ॥४८॥

स विदंष्ट्रो महाहस्ती विशृङ्गो हरगोपतिः ।
विरश्मिरिव चादित्यः पतितो भूतले बभौ ॥४९॥

ततः सुप्तोत्थित इव सञ्ज्ञां लब्ध्वा महातपाः ।
मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ॥ 8.5.५० ॥

ब्रह्मोवाच
नमः सहस्रनेत्राय शतनेत्राय वै नमः[^६२] ।
नमो विवृतवक्त्राय[^६३] शतवक्त्राय वै नमः ॥५१ ॥

नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
नमः सहस्रपादाय सर्वपादाय वै नमः ॥५२॥

सहस्रपाणये चैव सर्वतःपाणये नमः ।
नमः सर्वस्य स्रष्ट्रे[^६४] च द्रष्ट्रे[^६५] सर्वस्य ते नमः ॥५३ ॥

नम आदित्यवर्णाय[^६६] शिरसश्छेदनाय च ।
सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः[^६७] ॥५४॥

ग्रेण? - घ । ६१… धर्मो - घ. । ६२ चैवहि - घ । ६३ विवृत्त… - क. ग । ६४ द्रष्ट्रम्? - क । ६५ द्रष्ट्राय - ग, । ६६ आदित्यवर्णाय नमः - क. ग. घ. । ६७… नध - घ. ।
नमः सहस्रलिङ्गाय सहस्रचरणाय च ।
संहारलिङ्गिने[^६८] चैव जललिङ्गाय वै नमः ॥५५॥

अन्तश्चराय सर्वाय प्रकृतेः पूरणाय च ।
व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ॥५६ ॥

इन्द्रियार्थविशिष्टाय[^६९] तथा नियमकारिणे ।
भूतभव्याय सर्वाय नित्यमध्यवदाय च (?) ॥ ५७॥

त्वमेव स्रष्टा लोकानां मन्त्रदाता तथा विभो ।
शरणागताय दान्ताय[^७०] प्रसादं कर्तुमर्हसि ॥५८ ॥

तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
स तस्मै देवदेवेशो दिव्यं चक्षुर्ददौ तदा ॥५९॥

चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः ।
विमाने सूर्यसङ्काशे तेजोराशिमपश्यत ॥8.5.६० ॥

तस्य मध्यात्[^७१] ततो वाचं महतीं सम[^७२] शृण्वत[^७३] ।
गम्भीरां मधुरा[^७४] युक्ता[^७५]मर्थ[^७६] सम्पन्नलक्षणाम् ॥६१ ॥

विशदां[^७७] पुत्रपुत्रेति पूर्वं देवेन चोदिताम् ।
अम्बरात्पुत्र उत्पन्नो[^७८] यस्तुभ्यं नीललोहितः ॥६२ ॥

यच्च पूर्वं मया प्रोक्त[^७९]स्त्वं[^८०] तदा सुतमार्गणे ।
मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति ॥६३ ॥

स प्राप्य[^८१] परमं ज्ञानं मूढ त्वा[^८२] विनयिष्यति[^८३] ।
तस्येयं[^८४] फलनिष्पतिः शिरसश्छेदनं तव[^८५] ॥६४ ॥

मयैव कारिता तेन निर्वृतश्चाधुना भव ।
ऊर्ध्वगं ज्ञानरूपं तु शिरोदिव्यं समुत्थितम् ॥ ६५॥

सङ्घार… क, सहस्र.. - घ. । ६९… विशेषाय - घ । ७०… गजाय दन्ताय - ध. । ७१ मध्यं - घ. । ७२ स तु - घ । ७३ तः - घ । ७४ महता - घ । ७५ स - ग । ७६ थो - ग. । ७७ दिशती - ध । ७८ मुत्पन्नौ - घ. । ७९ प्रोक्तं - ध. । ८० ते - ग. । ८१ सं.. - घ. । ८२ त्वां - घ. । ८३ विनसि - ग., विशसि? । ८४ पश्येहं - घ. । ८५ तथा - ध. ।
अस्य[^८६] चैवोत्पथस्थस्य[^८७] यज्ञस्य तु[^८८] महामते ।
शिरश्छेत्स्यत्यसावेव कस्मिंश्चित् कारणान्तरे[^८९] ।
स्तवेनानेन तुष्टोस्मि किं ददानि[^९०] च तेनघ ॥६६ ॥

वायुरुवाच[^९१]
ततः स भगवान् हृष्टः[^९२] प्रणम्य शुभया गिरा ।
उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ॥ ६७ ॥

भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया ॥६८ ॥

नाहं[^९३] स्मरेयमेतच्च शिरसश्छेदनं विभो ।
भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् ॥६९॥

तथा च कृत्यमुद्दिश्य पश्येयं त्वा[^९४] यथासुखम् ।
विज्ञप्ति ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः ॥8.5.७० ॥

स एव सुतसञ्ज्ञस्ते[^९५] मन्मूर्त्तिर्नीललोहितः ।
शिरश्छेत्स्यति यज्ञस्य विभर्त्स्यति शिरश्च ते ॥७१ ॥

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
गते तस्मिन्महादेवे[^९६] ब्रह्मा लोकपितामहः ।
सयज्ञः सहवेदश्च[^९७] स्वं लोकं[^९८] प्रत्यपद्यत ॥७२ ॥

वायुरुवाच
य इमं[^९९] शृणुयान्मर्त्यो गुह्यं वेदार्थसम्मितम् ।
स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥७३ ॥

यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः ।
स सर्वपापनिर्मुक्तो[^१००] रुद्रलोके महीयते ॥७४॥

तस्य - ग. । ८७. न्म.. - ग. । ८८ यज्ञास्यत्व न - घ. । ८९ द्रावणान्तरे - घ. । ९० .मि - घ. ९१ वायुरु - ग । ९२ भूयुः (नुष्टः) घ । ९३ नोघ - घ. । ९४ त्वां - घ. । ९५ मज्ञस्ते - घ । ९६ देवः स्वं लोकं प्रत्यपद्यत ग । ९७ देवश्च - घ. । ९८ स्वर्ल्लो - घ । ९९ एवं - घ १०० सर्वपापवि… - घ ।
नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् ।
आख्येयं[^१०१] चापि नाज्ञाय[^१०२] न शठाय न मानिने ॥७५ ॥

इदं महद्दिव्यमधर्मशासनं[^१०३] पठेत्[^१०४] सदा ब्राह्मणवैद्यसंसदि ।
कृतावकाशो[^१०५] भवतीह मानवः[^१०६] शरीरभेदे[^१०७] प्रविशेत् पितामहम् ॥७६॥

इति स्कन्दपुराणे पञ्चमोध्यायः