मूतिमत्योसृजत् - क. । ५१ स्त्र… - घ- । ५२ यस्मात् - ख. यास्तदा - घ- । ५३ विशेषा - ख. घ । ५४… तिर्युक्त क.,… तिर्भुक्तः - घ । ५५ थभूत्वे… -क. । ५६ तत्रस्था - क., अत्रे मं - घ । ५७… नं - ख । ५८… ण .. घ. । ५९ … त्मकं - घ. । ६०… भोः - ख.,.. भुः - घ. । ६१… गैश्वर्यपरयोग - क. घ. । ६२ ब्रह्मणः परमं - ख. । ६३ योगमार्गं - घ. । ६४ तत्त्वा - ख. घ. । ६५ देवानाम्य… - खः । ६६.. .मप्रसादम् - ख. । ६७… नो - ख. । ६८ लोकानां - क., जानानः - ख. । ६९ प्रमथपतिं.. - ख. । ७०… ति - क. ख.,… णि - घ. ७१… षेकोनाम - ख. । ७२ चतुर्थोध्याय इति घ. ।
सनत्कुमार[^१] उवाच
प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।
प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति[^२] तस्य ह ॥ १ ॥
स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।
सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥२ ॥
सृष्टिहेतोस्तप[^३] स्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
तेजसा जगदाविश्य आजगाम तदन्तिकम्[^४] ॥३ ॥
स्रष्टा तस्य जगन्नाथो दर्शयत्स्वतनौ जगत् ।
महायोगबलैश्वर्यो[^५] ज्ञानसिद्धगणावृतः ॥४॥
स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
व्याप्येव[^६] हि जगत् कृत्स्नं परमेण स्वतेजसा ॥ ५॥
शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ।
तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रत्वे[^७] मनसा वरीत्[^८] ॥६ ॥
स ज्ञात्वा तस्य सङ्कल्पं ब्रह्मणः परमेश्वरः ।
मूढोयमिति सञ्चिन्त्य प्रोवाच वरदः स्वयम् ॥७ ॥
आगतं पितरं मा त्वं यस्मात् पुत्रम्[^९] समीहसे ।
मन्मूर्त्तिस्तनयस्तस्माद् भविष्यति ममाज्ञया ॥८ ॥
स च ते पुत्रतां यात्वा[^१०] मदीयो गणनायकः ।
रुद्रो विग्रहवान् भूत्वा[^११] मूढ[^१२] त्वां विनयिष्यति ॥९ ॥
सर्वविद्याधिपत्यं[^१३] च योगानां चैव सर्वशः ।
बलस्याधिपतित्वं[^१४] च अस्त्राणां च प्रयोक्तृता[^१५] ॥8.4.१० ॥
ऋषि ख. । २ प्र…. - ख । ३ स्तत - घ । ४ च त.. - घ । ५… यं - क. । ६ व्याप्यैव - घ. । ७.. .त्वं - क. ख घ । ८ वदीत् - क., ब्रवीत् - ख. घ. । ९ पुत्रत्व.. - घ? । १० ग.. घ. ११ दृष्ट्वा - घ. । १२… डं - घ १३ त्वं - क १४ वचनस्याधिपत्यत्वं - घ. । १५… गता - घ ।
मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
धनुः पिनाकः[^१६] शूलं च खङ्गः[^१७] परशुरेव च ॥११ ॥
कमण्डलुस्तथा दण्ड अस्त्रं[^१८] पाशुपतं तथा ।
संवर्त्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम्[^१९] ॥ १२ ॥
एवं सर्वद्धिसम्पन्नः सुतस्ते स[^२०] भविष्यति ।
एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ॥१३ ॥
ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ।
स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः ॥ १४॥
समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ।
समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ॥१५॥
पपात ज्वलने तस्मिन् द्विगुणं[^२१] तस्य तेजसा ।
तद्धि माहेश्वरं तेजः सन्धितं[^२२] ब्रह्मणि[^२३] स्रुतम्[^२४]॥ १६ ॥
प्रेरितं देवदेवेन निपपात हविर्भुजि ।
क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् । १७॥
प्रेषितो गणपो[^२५] रुद्रः सद्य[^२६] एवाभवत्[^२७] तदा ।
तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् ॥१८ ॥
भूत्वा लोहितमाश्वेव[^२८] पुनर्नीलमभूत्तदा ।
नीललोहित इत्वेव तेनासावभवत्[^२९] प्रभुः ॥ १९॥
त्र्यक्षो दशभुजः श्रीमान् ब्रह्माणं छादयन्निव ।
शर्वाद्यैर्न्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ॥8.4.२० ॥
स्तुत्वा[^३०] तं सर्वगं देवं नीललोहितमव्ययम् ।
ज्ञात्वा सर्वसृजं[^३१] पश्चान्महाभूतप्रतिष्ठतम् ॥२१ ॥
असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ।
सोपि योगं समास्थाय ऐश्वर्येण समन्वितः ॥२२ ॥
कं - क. घ । १७… ङ्गं - क. घ । १८ मन्त्र - घ । १९ प्रतिमादिकं - घ । २० सं… - घ. । २१.. .णे - घ- । २२ सन्निभं - घ. । २३… णः - घ । २४ शुचिः - घ. । २५ गगनाद् - व. । २६ सत्य - ध. । २७ शतस्तदा - घ. । २८ वर्णञ्च - घ. । २९.. तन्नामावा-..? घ । ३० स्तुत्वान्तः घ । स्तौति स्मेति स्यात् । ३१… जत्वं च - घ. ।
लोकान्सर्वान्समाविश्य धारयामास सर्वदा ।
ब्रह्मणोपि ततः पुत्रा दक्षधर्मादयः शुभाः[^३२] ॥२३ ॥
असृज्यन्त प्रजास्सर्वा देवमानुषसङ्कुलाः ।
अथ कालेन महता कल्पेतीते पुनः पुनः ॥ ।२४ ॥
प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते
प्रतिष्ठितायां वार्तायां प्रवृत्ते सृष्टिसर्जने[^३३] ॥ ।२५॥
प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ।
ब्रह्मणः षट्कुलीयास्ते ऋषयः शंसितव्रताः[^३४] । ॥२६ ॥
मरीचयोत्रयश्चैव वसिष्ठाः क्रतवस्तथा ।
भृगवोङ्गिरसश्चैव तपसा दग्धकिल्बिषाः ॥२७॥
ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोन्तरे ।
भगवन्नन्धकारेण महता स्मः समावृताः ॥२८॥
खिन्ना विवदमानाश्च न[^३५] च पश्याम यत्परम् ॥
एतन्नः संशयं देव चिरं हृदि समास्थितम् ॥२९॥
त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः[^३६] ।
किं परं सर्वभूतानां बलीयाँ[^३७] श्चापि सर्वतः[^३८] ॥8.4.३० ॥
केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ।
कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ॥३१ ॥
कोस्मान् सर्वेषु कार्येषु[^३९] प्रयुनक्ति महामनाः[^४०] ।
कस्य भूतानि वश्यानि कः सर्वविनियोजकः ॥३२ ॥
कथं पश्येम तञ्चैव एतन्नः शम्स सर्वशः ।
एवमुक्तस्ततो ब्रह्मा सर्वेषामेव सन्निधौ ॥३३ ॥
देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम्[^४१] ।
यक्षाणामसुराणां च ये च भूत[^४२] प्रवर्त्तकाः ॥ ३४॥
यस्तथा - घ. । ३३ वृ.. - क. । ३४ संशित… - क. । ३५ तु - घ । ३६ वः - ध. । ३७… यः - घ. । ३८ शः - घ. । ३९ भूतेषु - घ. । ४०. त्मना - क,… त्मनः - ध. । ४१… रा -., क. । राक्षसैः - ध. । ४२ कुत्र - क. ।
-
- -क्षाणां सपिशाचानां ये चान्ये तत्समीपगाः ।
उत्थाय प्राञ्जलिः प्राह रुद्रेति[^४३] त्रिःप्लुतं वचः ॥३५॥
- -क्षाणां सपिशाचानां ये चान्ये तत्समीपगाः ।
स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित्
सः[^४४] स्रष्टा सर्वभूतानां बलवांश्चापि[^४५] स स्मृतः ॥३६॥
तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ।
-
-
- र्व[^४६] - - - - - ते नमश्चक्रुर्महात्मने ॥ ३७॥
-
ऋषय[^४७] ऊचुः
किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥३८॥
पितामह उवाच
सत्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः ।
देशं[^४८] च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥ ३९ ॥
सनत्कुमार उवाच
ततो मनोमयं चक्रं स सृष्ट्वा[^४९] तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥8.4.४० ॥
यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ।४१ ॥
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशन्तत् स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥४२॥
तत्पूजितन्देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
यक्षैः सगन्धर्वपिशाचसङ्घैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥४३ ॥
विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः[^५०] ।
गन्धर्वविद्याधरचारणंश्च साध्यैश्च विश्वैः पितृभिः स्तुतञ्च ॥४४॥
इति स्कन्दपुराणे षट्कुलीयोत्पत्ति[^५१]र्नाम चतुर्थोध्यायः ॥
विद्रुतं - घ. । ४४ यः - घ. । १५ स्तेन - क. । तन्मयं जगत् - घ. । ४६ अतस्ते सर्वलोकेशो - घ. । ४७ षट्कुलीया - घ. । ४८ वरं - घ. । ४९ ह कृ?) त्वा - घ. । ५० वारणस्थैः ध. । ५१ नैमिशोत्पति रिति पाम्ः साधीयान् ।