सनत्कुमार उवाच
शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्॥
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम्॥
यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ॥१॥
न नास्तिकाश्रद्दधाने शठे चापि कथञ्चन॥
इमां कथामनुब्रूयात्तथा चासूयके नरे ॥२॥
इदं पुत्राय शिष्याय धार्मिकायानसूयवे॥
कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत्॥३॥
कथनीयम्[^५] सदा ब्रह्मन् देवभक्ताय वा भवेत् ।
कुमारभक्ताय तथा श्रद्दधानाय चैव हि ॥४॥
सदा वाच्यमिदम्[^६] गुह्यं यतीनां भावितात्मनाम् ।
ततः प्रोवाच - - - प्रप-न्नेनान्तरात्मना ॥५॥
पुरा ब्रह्मा प्रजा[^७] त्वष्टुरण्डेस्मिन्[^८] सम्प्रसूयत ।
सोज्ञानात् पितरं ब्रह्मा न वेद तमसावृतः ॥६ ॥
अहमेक[^९] इति ज्ञात्वा सर्व्वांल्लोकानवैक्षत[^१०] ।
न चापश्यत तत्रान्यं[^११] तपोयोगबलान्वितः ॥७॥
पुत्रपुत्रेति चा[^१२]प्युक्तो[^१३] ब्रह्मा शर्वेण धीमता ।
प्रणतः[^१४] प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥८ ॥
स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं[^१५] ज्ञानसंहितम् ।
विभुत्वं[^१६] चैव लोकानामन्तर्धात्[^१७] परमेश्वरः ॥९ ॥
तदेषोपनिषत् प्रोक्ता मया व्यास सनातनी[^१८] ।
यां श्रुत्वा योगिनो ध्यानात् प्रपद्यन्ते[^१९] महेश्वरम् ॥8.3.१० ॥
यो ब्रह्माणं विदधे पुत्रमग्रे ज्ञानञ्च यः प्रहिणोति स्म[^२०] तस्मै ।
तमात्मस्थं येनु[^२२] पश्यन्ति धीरास्तेषां शान्तिः शाश्वती[^२३] नेतरेषाम्॥११ ॥
स व्यास पितरं दृष्ट्वा दीप्त्या[^२३] परमया[^२४] युतम् ।
पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चचार[^२५] ह ॥१२ ॥
तस्योग्रयोगतपसा[^२६] युक्तस्य[^२७] सुमहात्मनः ।
अचिरेणैव कालेन पिता सम्प्रतुतोष ह[^२८] ॥ १३ ॥
दर्शनं चागमत्तस्य वरदोस्मी त्युवाच च[^२९] ।
स ३० तुष्टावा ३१ नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥१४॥
या - घ. । ६ वाक्य?.. - घ. । ७… ध्यक्षो - घ. । ८ ब्रह्माण्डे - घ…. मण्डे (?) । ९… व - ख । १०.. वेक्षत क. ख. । ११ कश्चापि - घ. । १२ स प्रो, - घ. । १३… क्तौ - ख । १४ प्राञ्जलिः… प्रणतोभू. .. घ. । १५ सुहृत्वं - ख । १६ चापि- ध. । १७… ःर्द्ध - क. । १८… ना - क. । १९ … न्ति - क. । २० स्मेति पदं घ. पुस्तके न विद्यते । २१ न - ख. । २२.. ता - क. । २३ स्वदीप्त्या - क. ख., प्रदीप्त्या - घ- । २४ परया - क. ख. घ । परमया - क. टी. । २५ चकार - घ. । २६ महता योगतपसा - ख. । २७ च … - प. २८ पितरं प्रत्यतोषयत् - ख. । २९ ह - ख. । ३० तमुवाचा… - ख. । ३१… व - क ।
नमः परमदेवाय देवानामपि वेधसे ।
स्रष्ट्रे वै लोकतन्त्राय[^३२] ब्रह्मणः पतये नमः ॥१५ ॥
एकस्मै[^३३] शक्तियुक्ताय आसक्तिरहिताय[^३४] च ।
अनन्तायाप्रमेयाय इन्द्रियाविषयाय ३५ च ॥१६ ॥
व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने ।
कृतप्रचोदनायैव तत्त्वविन्यासकारिणे ३६ ॥१७॥
प्रधानचोदकायैव गुणानां ३७ शक्तिदाय च ।
दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ॥१८ ॥
विषयग्राहिणे चैव नियमस्य च कारिणे ।
मनसः करणानां[^३८] च कर्त्रे वै[^३९] निगमस्य[^४०] च ॥१९ ॥
भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
कर्त्रे ह्यण्डस्य मह्यञ्च[^४१] अचिन्त्यायाग्रजाय च ॥8.3.२० ॥
अप्रमेय पितर्नित्यं[^४२] प्रीतो[^४३] नो दिश[^४४] शक्वरीम् ।
अप्रमेयगुणैश्वर्यशक्तयेव्याहताय वै ॥२१ ॥
तस्यैवं स्तुवतो[^४५] व्यास देवदेवो महेश्वरः[^४६] ।
तुष्टोव्रवीत् स्वयं पुत्रं ब्रह्माणं प्रणतं तदा[^४७] ॥२२॥
यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
तस्माद् ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ॥२३ ॥
यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
तस्मात् पितामहत्वं ते लोके ख्यातिं गमिष्यति[^४८] ॥२४॥
प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् ।
तस्मात्प्रजापतित्वं ते ददामि[^४९] प्रयतात्मने ॥२५ ॥
स्य (?) । ३३.?. एत… - कः । ३४.,. अशक्ति… - क. ख. । ३५… पाय- क. । ३६… धा-ख । ३७ गुणिनां-ख । ३८ का… - घ. । ३९ तत्रैव - ख । ४० निय… - क. ख. घ. । ४१ … गु - ख. । ४२ .. यामितायैव - ख । ४३ प्रीति ख । ४४ सर्वग - ख घ. । ४५ स्तुतो - ख. । ४६ देवः स परमेश्वरः - क. स देवः … पर. - घ. । ४७ तथा - ख । ४८… सि ख. । ४९ … ति ख. घ ।
( ११) एवमुक्त्वा स देवेशो सृजन्मूर्त्तिमतीः[^५०] स्त्रियः ५१ ।
यास्ताः[^५२] प्रकृतयस्त्वष्टौ विकारा ५३ इन्द्रियैः सह ॥ २६ ॥
भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ।
तानुवाच ततो देवः पतिं युक्त्तः ५४ स्वतेजसा ॥२७ ॥
एतमद्याभिषेकेण सम्पादयत मा चिरम् ।
ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् ॥२८ ॥
अभिषिक्तो बभूवेह[^५५] प्रजापतिरतिद्युतिः ।
तत्रेमं[^५६] योगिनः ५७ सूक्ष्मं दृष्टवा दिव्येन चक्षुषा ॥२९ ॥
पुराणं ५८ योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ५९ ।
रूद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो[^६०] ॥8.3.३० ॥
अस्माभिश्च भवान् सार्द्धं जगतः सम्प्रवर्त्तकः ।
स देवस्तोषितः सम्यक् परमैश्वर्ययोगधृक्[^६१] ।
ब्रह्माणमग्रजं ६२ पुत्रं प्राजापत्येभ्यषेचयत् ॥३१ ॥
यः कृत्वा बहुविधमार्गयोगयुक्तं[^६३] तन्वाख्यं[^६४] जगदिदमादराद्युयोज ।
तं देवं[^६५] परममनन्तयोगयुक्तं मायाभिः त्रिभुवनबन्धुमप्रमादम् ६६ ॥३२॥
सर्वेषां मनसि सदावतिष्ठमानं[^६७] पश्यन्तं ६८ शुभमशुभं च भूतनाथम् ।
तं देवं प्रणतगतिं[^६९] प्रणम्य भक्त्या नित्यं वै शरणमुपैमि[^७०] सूक्ष्मसूक्ष्मम् ॥३३ ॥
इति स्कन्दपुराणे ब्रह्मणः प्राजापत्याभिषेचनो[^७१] नाम तृतीयोघ्यायः ७२