००२

सनत्कुमार उवाच
प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥१ ॥

शक्तिरप्रतिघा यस्य इइ ऐश्वर्यञ्चैव सर्वशः ।
स्वामित्वञ्च विभुत्वञ्च स्वकृतानि प्रचक्षते ॥२॥

तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥३ ॥

देहावतारो देवस्य रुद्रस्य परमात्मनः ।
प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥४॥

दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।
नैमिशस्योद्भवश्चैव सत्रस्य च समापनम् ॥५॥

ब्रह्मणश्चागमस्तत्र तपसश्चरणन्तथा ।
शर्वस्य दर्शनञ्चैव देव्याश्चैव समुद्भवः ॥६॥

सत्या विवादश्च तथा दक्षशापस्तथैव च ।
सेनायाश्च समुत्पत्तिर्यथा देव्याः स्वयंवरः ॥७॥

देवानां वरदानञ्च वसिष्ठस्य च धीमतः ।
पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥८ ॥

वसिष्ठकौशिकाभ्याञ्च वैरोद्भवसमापनम् ।
वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥९॥

रुद्रस्य चात्र सान्निध्यं नन्दिनश्चाप्यनुग्रहः ।
गणानां दर्शनञ्चैव कथनञ्चाप्यशेषतः ॥8.2.१० ॥

कालीव्याहरणञ्चैव तपश्चरणमेव च ।
सोमनन्दिसमुत्पत्तिर्वरदानं तथैव च ॥११ ॥

गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
कौशिक्या भूतमातृत्वं सिंहस्य रथता तथा ॥१२॥

गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥१३ ॥

निशुम्भशुम्भनिर्णाशो महिषस्य वधस्तया ।
अभिषेकश्च कौशिक्या - - - - - - - - ॥१४॥

                • वरदानमथापि च ।
                  अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ॥१५॥

हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ।
बलशंशमनं चैव देव्याः समय एव च ॥१६॥

देवानां गमनं चैवं अग्नेर्दूतत्वमेव च ।
देवानां वरदानं च शुक्रस्य च विसर्जनम् ॥१७॥

दूतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ।
शैलादिदैन्यसम्मर्द्दो देव्याश्च शतरूपता ॥१८॥

आर्यावरप्रदानं च शैवादिस्तव एव च ।
देवस्यागमनं चैव वृत्तस्य कथनं तथा ॥१९॥

पतिव्रतायाश्चाख्यानं गुरुशुश्रषणस्य च ।
आख्यानं पञ्चचूडायास्तैजसश्चाप्यधृष्यता ॥8.2.२०॥

दूतस्यागमनं चैव संवादोथ विसर्जनम् ।
अन्धकासुरसंवादो मन्दरागमनं तथा ॥२१॥

गणानामागमश्चैव सङ्ख्यानश्रवणं तथा ।
विग्रहश्चान्धकस्याथ युद्धे (?)नं - महता तथा ॥२२॥

शरीरार्धप्रदानं च अशोकसुतसङ्ग्रहः ।
भम्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ॥२३ ॥

उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः।
निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥२४॥

त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च॥

देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥ २५॥

नारदख्यागमश्चैव तारकप्रेषितस्य ह ॥

वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥२६॥

महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम्॥

शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥२७॥

देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ॥

प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च॥

महाभाग्यं बाह्मणानां विस्तरेण प्रकीर्त्यते ॥२८॥

एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत्॥

बलवान्मतिसम्पन्नः पुत्रं चाप्नोति सम्मतम् ॥२९॥

इति स्कन्दपुराणे द्वितीयोऽध्यायः