ॐ नमः शिवाय
नमः परमदेवाय त्रैगुण्यविजितात्मने ।
शाश्वते[^१] योगरूपाय संसाराभावहेतवे[^२] ॥ १ ॥
स्थितिसंरोधसर्गाणाम्[^३] हेतवेन्त (?) प्रसारिणे[^४] ।
षड्विंशाय प्रधानाय महादेवाय धीमते ॥ २ ॥
प्रजाषतेर्महाक्षेत्रे[^५] गङ्गाकालिन्दिसङ्गमे ।
प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥ ३ ॥
मुनयः शंशितात्मानस्तपसा क्षीणकल्मषाः ।
तीर्थसम्प्लवनार्थाय[^६] पौर्णमास्यां कृताह्निकाः ॥४॥
पौराणिकमपश्यन्त[^७] सूतं सत्यपरायणम् ।
स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ॥ ५॥
दृष्टवा ते सूतमायान्तमृषयो हृष्टमानसाः[^८] ।
आशास्या[^९] सनसंवेशं[^१०] तद्योगं[^११] समकल्पयन्[^१२] ॥ ६ ॥
स प्रणम्य ततः[^१३] सर्वान् सूतस्तान्मुनिपुङ्गवान् ।
प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः १४ ॥७ ॥
तमासीनमपृच्छन्ते १५ मुनयस्तपसैधिताः[^१६] ।
ब्रह्मसत्रे पुरा साधो[^१७] नैमिशारण्यवासिनाम्[^१८]॥८ ॥
शाश्वतो - ख., सर्वतो - घ. । २ ससारभार - घ, संसारोद्भाव - - ख. । ३ स्थितिसं बोध … - घ । ४ कर्त्रे इर्त्रे पुरारिणे - च. । ५ पुरा हुतवहक्षेत्रे,. महक्षेत्रे - ख. । ६. सप्लावनार्थाय - घ । ७ - -. न्ते - ख, -रत - च । ८ .. न्तं सर्वेप्या कृष्टमानसाः - य । ९ आश्चर्या - ध. । १० सेन - ष. । ११ ग्यं - व. ( १२ येत् - य. । १३ च तान् - ब. । १४ धर्मागमा .. - व. । १५ अपृच्छन्त - घ. । १६ - स्तं समाहिताः -ये. ।? तपसेधिता - .ख । १७ पुरासीना - घ. । १८ वासिन. - घ ।
कथितं भारताख्यानं पुराणं च परं त्वया।
तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥६ ॥
सर्वागमपरार्थज्ञः सत्यधर्मपरायणः॥
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥8.1.१०॥
भारताख्यानसदृशं पुराणाद्यद्विशिष्यते॥
तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥११॥
इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः॥
स्कन्दसम्भवशुश्रूषा सञ्जातौत्सुक्यमानसाः ॥१२॥
एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुङ्गवैः॥
प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ॥१३॥
शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् ॥
ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥१४॥
मुमुक्षया परं स्थानं याते शुकमहात्मनि॥
सुतशोकाभिसन्तप्तो व्यासस्त्र्यम्बकमैक्षत ॥१५ ॥
दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः॥
विचरन्स तदा लोकान्मुनि सत्यवतीसुतः ॥१६॥
मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम्॥
सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥१७॥
विमाने रविसङ्काशे तिष्ठन्तमनलप्रभम्॥
मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥१८॥
वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः॥
सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥१९ ॥
दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम्॥
ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥8.1.२०॥
ब्रह्मसूनुरथ व्यासं समायातं महौजसम्॥
परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥२१ ॥
दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ॥
अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥२२ ॥
श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुङ्गवः॥
इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥२३ ॥
कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ॥
किन्निमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥२४॥
कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम्॥
उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः॥
सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः ॥२५ ॥
कश्चासौ पूर्वमत्पन्नः किन्तपाः कश्च विक्रमः॥
भूतसम्मोहनं ह्येतत्कथयस्व यथातथम् ॥२६ ॥
सूत उवाच
एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः॥
उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे ॥
तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥२७ ॥
इति स्कन्दपुराणे प्रथमोऽध्यायः