॥ प्रह्लाद उवाच ॥ ॥
सावित्रीं च भवानीं च दुर्गां चैव सरस्वतीम् ॥
योऽर्चयेत्तुलसीपत्रैः सर्वकामसमन्वितः ॥ १ ॥
गृहीत्वा तुलसीपत्रं भक्त्या विष्णुं समर्चयेत् ॥
अर्चितं तेन सकलं सदेवासुरमानुषम्॥ २ ॥
चतुर्द्दश्यां महेशानं पौर्णमास्यां पितामहम् ॥
येऽर्चयन्ति च सप्तम्यां तुलस्या च गणाधिपम् ॥३ ॥
शङ्खोदकं तीर्थवराद्वरिष्ठं पादोदकं तीर्थवराद्वरिष्ठम्॥
नैवेद्यशेषं क्रतुकोटितुल्यं निर्माल्यशेषं व्रतदानतुल्यम् ॥ ४ ॥
मुकुन्दाशनशेषं तु यो भुनक्ति दिनेदिने ॥
सिक्थेसिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम् ॥ ५ ॥
नैवेद्यशेषं तुलसीविमिश्रं विशेषतः पादजलेन विष्णोः ॥
योऽश्नाति नित्यं पुरुषो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ ६ ॥
यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् ॥
तेनैव पिण्डात्सुतिलैर्विमिश्रादाकल्पकोटिं पितरः सुतृप्ताः ॥ ७ ॥
स्नानार्चनक्रियाकाले घण्टावाद्यं करोति यः ॥
पुरतो वासुदेवस्य गवां कोटिफलं लभेत् ॥ ८ ॥
सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया ॥
वादनाल्लभते पुण्यं यज्ञकोटिफलं नरः ॥ ९ ॥
वादित्राणामभावे तु पूजाकाले च सर्वदा ॥
घण्टावाद्यं नरैः कार्य्यं सर्ववाद्यमयी यतः ॥ 7.4.43.१० ॥
तुलसीकाष्ठसम्भूतं चन्दनं यच्छते हरेः ॥
निर्द्दहेत्पातकं सर्वं पूर्वजन्मशतार्जितम् ॥ ११ ॥
ददाति पितृ पिण्डेषु तुलसीकाष्ठचन्दनम् ॥
पितॄणां जायते तृप्तिर्गयाश्राद्धेन वै तथा ॥ १२ ॥
सर्वेषामेव देवानां तुलसीकाष्ठचन्दनम् ॥
पितॄणां च विशेषेण सदाऽभीष्टं हरेः कलौ ॥ १३ ॥
हरेर्भागवता भूत्वा तुलसीकाष्ठचन्दनम् ॥
नार्पयति सदा विष्णोर्न ते भागवताः कलौ ॥ १४ ॥
शरीरं दह्यते यस्य तुलसीकाष्ठवह्निना ॥
नीयमानो यमेनापि विष्णुलोकं स गच्छति ॥ १५ ॥
यद्येकं तुलसीकाष्ठं मध्ये काष्ठस्य यस्य हि ॥
दाहकाले भवेन्मुक्तः पापकोटिशतायुतैः ॥ १६ ॥
दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥
जन्मकोटिसहस्रैस्तु तोषितस्तैर्जनार्दनः ॥ १७ ॥
दह्यमानं नरं सर्वे तुलसीकाष्ठवह्निना ॥
विमानस्थाः सुरगणाः क्षिपन्ति कुसुमाञ्जलीन् ॥ १८ ॥
नृत्यन्त्योऽप्सरसो हृष्टा गीतं गायन्ति सुस्वरम् ॥
ज्वलते यत्र दैत्येन्द्र तुलसीकाष्ठपावकः ॥ १९ ॥
कुरुते वीक्षणं विष्णुः सन्तुष्टः सह शम्भुना ॥ 7.4.43.२० ॥
गृहीत्वा तं करे शौरिः पुरुषं स्वयमग्रतः॥
मार्जते तस्य पापानि पश्यतां त्रिदिवौकसाम् ॥
महोत्सवं च कृत्वा तु जयशब्दपुरःसरम् ॥ २१ ॥
॥ सूत उवाच ॥ ॥
प्रह्लादेनोदितं श्रुत्वा माहात्म्यं द्वारकाभवम् ॥
प्रहृष्टा ऋषयः सर्वे तथा दैत्येश्वरो बलिः ॥ २२ ॥
ततः सर्वेऽभिनन्द्यैनं प्रह्लादं दैत्यपुङ्गवम् ॥
उद्युक्ता द्वारकां गत्वा द्रष्टुं कृष्णमुखाम्बुजम् ॥ २३ ॥
ततस्ते बलिना सार्धं मुनयः संशितव्रताः ॥
आगत्य द्वारकां स्नात्वा गोमत्यां विधिपूर्वकम् ॥ २४ ॥
कृष्णं दृष्ट्वा समभ्यर्च्य कृत्वा यात्रां यथाविधि ॥
दत्त्वा दानानि बहुशः कृतकृत्यास्ततोऽभवन् ॥ २५ ॥
जग्मुः स्वीयानि स्थानानि बलिः पातालमाययौ ॥
प्रह्लादं च प्रणम्याशु मेने स्वस्य कृतार्थताम् ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्लादद्विजसंवाद समाप्त्यनन्तरं बलिना सह द्विजकृतद्वारकायात्राविधिवर्णनन्नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥