०३९ द्वादशीव्रतादिमाहात्म्यवर्णनम्

॥ श्रीप्रह्लाद उवाच ॥ ॥
जया च विजया चैव जयन्ती पापनाशिनी ॥
उन्मीलिनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी ॥ १ ॥
पुण्यं सर्वपुराणानां ते लभन्ते दिनेदिने ॥
पक्वान्नं ये प्रकुर्वन्ति हविर्द्धान्यसमुद्भवम् ॥ २ ॥
जागरे पद्मनाभस्य घृतेनैव सुपाचितम् ॥
वर्तिद्वयसमायुक्तं दीपं घृतसमन्वितम् ॥ ३ ॥
यः कुर्य्याज्जागरे विष्णोः शालिग्रामशिलाग्रतः ॥
शालग्रामशिलाग्रे तु ये प्रकुर्वन्ति जागरम् ॥ ४ ॥
कुर्वन्ति नृत्यवाद्ये च लोकानां रञ्जनाय च ॥
सञ्छादयन्ति कुसुमैः शालिग्रामशिलां च ये ॥ ५ ॥
चक्राङ्कितां विशेषेण प्रतिमां वैष्णवीं द्विजाः ॥
चन्दनं च सकर्पूरं कृष्णागुरुसमन्वितम् ॥ ६ ॥
युक्तं मृगमदेनापि यः करोति विलेपनम् ॥
द्वादश्यां देवदेवस्य रात्रौ जागरणे सदा ॥ ७ ॥
तस्य पुण्यं प्रवक्ष्यामि सङ्क्षेपेण च वोऽग्रतः ॥
तत्फलं कोटितीर्थे तु उज्जयिन्यां महालये ॥ ८ ॥
वाराणस्यां कुरुक्षेत्रे मथुरायां त्रिपुष्करे ॥
अयोध्यायां प्रयागे च तीर्थे सागरसङ्गमे ॥ ९ ॥
सर्वपुण्येषु तीर्थेषु देवतायतनेषु च ॥
कृतैर्यज्ञायुतैस्तत्र व्रतदानैश्च पुष्कलैः ॥ 7.4.39.१० ॥
वेदैरधीतैर्यत्पुण्यं पुराणैश्चावगाहितैः ॥
तपोभिश्चरितैः पुण्यं सम्यगाश्रम पालनैः ॥ ११ ॥
यत्फलं मुनिभिः प्रोक्तं वेदव्यासेन पुत्रक ॥
तत्फलं जागरे विष्णोः पक्षयोः शुक्लकृष्णयोः ॥ १२ ॥
हैमवत्यै पुरा प्रोक्तं कैलासे शूलपाणिना ॥
नारदाय पुरा प्रोक्तं ब्रह्मणा मत्समीपतः ॥ १३ ॥
अरुणेन वज्रहस्ताय कथितं पृच्छते पुरा ॥
द्वादशीजागरस्योक्तं फलं विप्रा मया च वः॥
तत्कुरुध्वं द्विजा यूयं जागरं विष्णुवासरे ॥ १४ ॥
॥ सूत उवाच ॥ ॥
इत्युक्त्वा ब्राह्मणान्प्राह बलिं पौत्रं स्वकं ततः ॥
त्वमपि श्रद्धया पौत्र कुरु जागरणं हरेः ॥ १५ ॥
द्वारका मनसा ध्याता पापं वर्षशतान्वितम् ॥
कीर्तनाच्छतजन्मोत्थं दहते नात्र संशयः ॥ १६ ॥
पापं जन्मसहस्रोत्थं पदमात्रेण गच्छताम् ॥
द्वारका हरते नूनं मुक्तिः कृष्णस्य दर्शनात् ॥ १७ ॥
न शक्नोति यदा गन्तुं द्वारकां चैव मानवः ॥
माहात्म्यं पठनीयं तु द्वारकासम्भवं गृहे ॥ १८ ॥
दातव्यं वैष्णवानां तु श्रोतव्यं भक्तिभावतः ॥
द्वादश्यां च विशेषेण पठनीयं तु जागरे ॥ १९ ॥
द्वारका सम्भवं पुण्यं स सम्प्राप्नोति मानवः ॥
प्रसादाद्वासुदेवस्य सत्यंसत्यं च भाषितम् ॥ 7.4.39.२० ॥
गृहे सन्तिष्ठते नित्यं मथुरा द्वारका तथा ॥
अवन्ती च तथा माया प्रयागं कुरुजाङ्गलम् ॥ २१ ॥
त्रिपुष्करं नैमिषं च गङ्गाद्वारं च सौकरम् ॥
चन्द्रेशं चैव केदारं तथा रुद्रमहालयम् ॥ २२ ॥
वस्त्रापथं महादेवं महाकालं तथैव च ॥
भूतेश्वरं भस्मगात्रं सोमनाथमुमापतिम्॥ २३ ॥
कोटिलिङ्गं त्रिनेत्रं च देवं भृगुवनेचरम् ॥
दीपेश्वरं महानादं देवं चैवाचलेश्वरम् ॥ २४ ॥
ब्रह्मादयः सुरगणा गृहे तिष्ठन्ति सर्वदा ॥
पितरो नागगन्धर्वा मुनयः सिद्धचारणाः ॥ २५ ॥
तीर्थानि यानि कानि स्युरश्वमेधादयो मखाः ॥
कृष्णजन्माष्टमीं पौत्र यः करोति विशेषतः ॥ २६ ॥
यथा भागवतं शास्त्रं तथा भागवतो नरः ॥
उभयोरन्तरं नास्ति हरहर्योस्तथैव च ॥ २७ ॥
नीलीक्षेत्रं तु यो याति मूलकं भक्षयेत्तु यः ॥
नैवास्ति नरकोद्धारं कल्पकोटिशतैरपि ॥ २८ ॥
नीलीकर्म तु यः कुर्य्याद्ब्राह्मणो लोभमोहितः ॥
नाप्नोति सुकृतं किञ्चित्कुर्य्याद्वा रसविक्रयम् ॥ २९ ॥
प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥
अश्वत्थं छेदयेद्यो वै एकैकस्मिंश्च पर्वणि ॥ 7.4.39.३० ॥
मन्वन्तराणि तावन्ति रौरवे वसतिर्भवेत् ॥
अरिष्टकाष्ठैर्दैत्येन्द्र कार्य्यं यः कुरुते क्वचित् ॥
न पूजामर्घदानं च तस्य गृह्णाति भास्करः ॥ ३१ ॥
छेदापकस्य चार्के तु च्छेदकस्य च दैत्यज ॥
शतं जन्मानि दारिद्यं जायते च सरोगता ॥ ३२ ॥
रोपयेत्पालयेद्यो वै सूर्य्यवृक्षं नरोत्तमः ॥
सप्तकल्पं वसेत्सोऽत्र समीपे भास्करस्य हि ॥ ३३ ॥
रोपितैर्देववृक्षैस्तु यत्फलं लक्षकोटिभिः ॥
न्यग्रोधवृक्षेणैकेन रोपितेन फलं हि तत् ॥ ३४ ॥
धात्रीद्रुमेऽप्येवमेव फलं भवति रोपिते ॥
तुलसीरोपणे चैव अधिकं चापि सुव्रत ॥
अमरत्वं च ते यान्ति नात्र कार्य्या विचारणा ॥ ३५ ॥
द्वारकां कलिकाले तु प्रातरुत्थाय कीर्तयेत् ॥
स सर्वपापनिर्मुक्तः स्वर्गं याति न संशयः ॥ ३६ ॥
रोहिणीसहिता ये न द्वादशी समुपोषिता ॥
महापातकसंयुक्तः कल्पान्ते नाकमाप्नुयात् ॥ ३७ ॥
वासरः को विना सूर्य्यं विना सोमेन का निशा ॥
विना वृक्षेण को ग्रामो द्वादशी किं व्रतं विना ॥ ३८ ॥
गृहं च नरकं तस्य यमदण्डं द्वितीयकम् ॥
न यत्र पठते नित्यं विष्णोर्नामसहस्रकम् ॥ ३९ ॥
नरकं च भवेत्तस्य द्वितीयं यमशासनम् ॥
नैव भागवतं यत्र पुराणं गीयते कलौ ॥
अन्धकूपेषु क्षिप्यन्ते ज्वलितेषु हुताशने ॥ 7.4.39.४० ॥
द्विषन्ति ये भागवतं न कुर्वन्ति दिनं हरेः ॥
यमदूतैश्च नीयन्ते तथा भूमौ भवन्ति ते ॥ ४१ ॥
वाच्यमानं न शृण्वन्ति हरेश्चरितमुत्तमम् ॥
करपत्रैश्च पीड्यन्ते सुतीव्रैर्यम शासनात्॥ ४२ ॥
निन्दां कुर्वन्ति ये पापा वैष्णवानां महात्मनाम् ॥
तेषां निरयपातस्तु यावदाभूतसम्प्लवम् ॥ ४३ ॥
गोकोटितीर्थादधिकं स्नानं तत्राधिकं भवेत् ॥
ये पश्यन्ति महापुण्या गोपीचन्दनमृत्तिकाम्॥
गङ्गास्नानफलं तेषां जायते नात्र संशयः ॥ ४४ ॥
वैष्णवानां प्रयच्छन्ति गोपीचं दनमृत्तिकाम् ॥
येषां ललाटे तिलकः गोपीचन्दनसम्भवम्॥ ४५ ॥
गोपीचन्दनपुण्ड्रेण द्वादश्यां जागरे कृते ॥
विष्णोर्नामसहस्रस्य पाठेन मुक्तिमाप्नुयात् ॥ ४६ ॥
ये नित्यं प्रातरुत्थाय वैष्णवानां तु कीर्तनम्॥
गोमतीस्मरणं कुर्युः कृष्णतुल्या न संशयः ॥ ४७ ॥
ये नित्यं प्रातरुत्थाय द्वारकेति वदन्ति च ॥
तीर्थकोटिभवं पुण्यं लभन्ते च दिनेदिने ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीव्रतादिमाहात्म्यवर्णनन्नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९ ॥