०३६ द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनम्

॥ सूत उवाच ॥ ॥
प्रह्लादस्य वचः श्रुत्वा स्थितस्तत्र सभास्थले ॥
पप्रच्छात्युत्सुकमना बलिस्तत्क्षेत्रवैभवम् ॥१॥
प्रह्लादस्तद्वचः श्रुत्वा भक्तिभावपुरस्कृतम् ॥
अभिनन्द्य च तं प्रेम्णा प्रवक्तुमुपचक्रमे ॥२॥
॥ प्रह्लाद उवाच॥ ॥
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्राणां फलं भवति देहिनाम् ॥३॥
येऽपीच्छन्ति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां प्रलीयते पापं पूर्वजन्मायुतार्जितम् ॥४॥
अत्युग्राण्यपि पापानि तावत्तिष्ठन्ति विग्रहे ॥
यावन्न गच्छते जन्तुः कलौ द्वारवतीं प्रति ॥५॥
लोभेनाऽप्युपरोधेन दम्भेन कपटेन वा ॥
चक्रतीर्थे तु यो गच्छेन्न पुनर्विशते भुवि ॥६।
हीनवर्णोऽपि पापात्मा मृतः कृष्णुपुरीं प्रति ॥
कलि कालकृतैर्दोषैरत्युग्रैरपि मानवः ॥
भक्त्या कृष्णमुखं दृष्ट्वा न लिप्यति कदाचन ॥७॥
तावद्विराजते काशी ह्यवन्ती मथुरापुरी ॥
यावन्न पश्यते जन्तुः पुरीं कृष्णेन पालिताम्॥ ८ ॥
येषां कृष्णालये प्राणा गता दानवनायक ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ९ ॥
दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं कलौ ॥ 7.4.36.१० ॥
नित्यं कृष्णपुरीं रम्यां ये स्मरन्ति गृहे स्थिताः ॥
न तेषां पातकं किञ्चिद्देहमाश्रित्य तिष्ठति ॥ ११ ॥
केशवार्चा गृहे यस्य न तिष्ठति महीपते ॥
तस्यान्नं न च भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ १२ ॥
नोष्णत्वं द्विज राजे वै न शीतत्वं हुताशने ॥
वैष्णवानां न पापत्वमेकादश्युपवासिनाम् ॥ १३ ॥
नास्ति नास्ति महाभागाः कलिकालसमं युगम् ॥
स्मरणात्कीर्त्तनाद्विष्णोः प्राप्यते परमव्ययम् ॥ १४ ॥
सत्यभामापतिर्यत्र यत्र पुण्या च गोमती ॥
नरा मुक्तिं प्रयास्यन्ति तत्र स्नात्वा कलौ युगे ॥ १५ ॥
माधवे शुक्लपक्षे तु त्रिस्पृशां द्वादशीं यदि ॥
लभते द्वारकायां तु नास्ति धन्यतरस्ततः ॥ १६ ॥
त्रिस्पृशां द्वादशीं प्राप्य गत्वा कृष्णपुरीं नरः ॥
यः करोति हरेर्भक्त्या सोऽश्वमेधफलं लभेत्॥ १७ ॥
नन्दायां तु जयायां वै भद्रा चैव भवेद्यदि ॥
उपवासार्चने गीते दुर्ल्लभा कृष्णसन्निधौ ॥१८॥
उदयैकादशी स्वल्पा अन्ते चैव त्रयोदशी ॥
सम्पूर्णा द्वादशी मध्ये त्रिस्पृशा च हरेः प्रिया ॥ १९ ॥
एकेन चोपवासेन उपवासाऽयुतं फलम् ॥
जागरे शतसाहस्रं नृत्ये कोटिगुणं कलौ ॥ 7.4.36.२० ॥
तत्फलं लभते मर्त्त्यो द्वारकायां दिनेदिने ॥
गृहेषु वसतामेतत्किं पुनः कृष्णसन्निधौ ॥ ॥ २१ ॥
वाङ्मनःकायजैर्दोषैर्हता ये पापबुद्धयः ॥
द्वारवत्यां विमुच्यन्ते दृष्ट्वा कृष्णमुखं शुभम् ॥ २२ ॥
दैत्येश्वर नराः श्लाघ्या द्वारवत्यां गताश्च ये ॥ २३ ॥
दुर्ल्लभानीह तीर्थानि दुर्लभाः पर्वतोत्तमाः ॥
दुर्ल्लभा वैष्णवा लोके द्वारकावसतिः कलौ ॥ २४ ॥
गवां कोटिसहस्राणि रत्नको टिशतानि च ॥
दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णसन्निधौ ॥ २५ ॥
यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥
नश्यते दर्शनादेव तां पुरीं को न सेवते ॥ २६ ॥
चक्राङ्किता शिला यत्र गोमत्युदधिसङ्गमे ॥
यच्छति पूजिता मोक्षं तां पुरीं को न सेवते ॥ २७ ॥
सिंहस्थे च गुरौ विप्रा गोदावर्य्यां तु यत्फलम्॥
तत्फलं स्नानमात्रेण गोमत्यां कृष्णसन्निधौ ॥ २८ ॥
द्वारकाऽवस्थितं तोयं षण्मासं पिबते नरः ॥
तस्य चक्राङ्कितो देहो भवते नात्र संशयः ॥ २९ ॥
मन्वन्तरसहस्राणि काशीवासेन यत्फलम् ॥
तत्फलं द्वारकायां च वसतः पञ्चभिर्द्दिनैः ॥ 7.4.36.३० ॥
तावन्मृतप्रजा नारी दुर्भगा दैत्यपुङ्गव ॥
यावन्न पश्यते भक्त्या कलौ कृष्णप्रियां पुरीम् ॥ ३१ ॥
रुक्मिणीं सत्यभामां च देवीं जाम्बवतीं तथा ॥
मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा ॥ ३२ ॥
सम्पूज्य लक्ष्मणां तत्र वैष्णवीः कृष्णवल्लभाः ॥
एताः सम्पूज्य विधिवच्छ्रेष्ठपुत्रश्च लभ्यते ॥ ३३ ॥
तावद्भवभयं पुंसां गृहभङ्गश्च मूर्खता ॥
यावन्न पश्यते भक्त्या कलौ कृष्णपुरीं नरः ॥ ३४ ॥
न सर्वत्र महापुण्यं सङ्गमे सरिताम्पतेः ॥
जाह्नवीसङ्गमान्मुक्तिर्गोमतीनीरसङ्गमात् ॥
सम्पर्के गोमतीनीरपूतोऽहं कृष्णसन्निधौ ॥ ३५ ॥
गोमतीनीरसम्पृक्तं ये मां पश्यन्ति मानवाः ॥
न तेषां पुनरावृत्तिरित्याह सरिताम्पतिः ॥ ३६ ॥
द्वारकां गच्छमानस्य विपत्तिश्च भवेद्यदि ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ३७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनन्नाम षट्त्रिंशोऽध्यायः ॥ ३६॥