००७ गोमत्युदधिसङ्गमतीरस्थचक्रतीर्थमाहात्म्यवर्णनम्

॥ श्रीप्रह्लाद उवाच ॥ ॥
ततो गच्छेद्द्विजश्रेष्ठा रथाङ्गाख्यं महोदधिम् ॥
चक्राङ्का यत्र पाषाणा दृश्यन्ते मुक्तिदायकाः ॥ १ ॥
यैः पूज्यते जगन्नाथः प्रत्यहं भाव संयुतैः ॥
सदा नेत्रैरनिमिषैर्वीक्ष्यते च जनार्दनः ॥ २ ॥
यच्च साक्षाद्भगवता दृष्टं कृष्णेन दृष्टितः ॥
तत्तीर्थं सर्वपापघ्नं चक्राख्यं परमं हरेः ॥ ३ ॥
यस्य प्रसिद्धिः परमा त्रैलोक्ये सचराचरे ॥
प्रयागादधिकं यच्च मुक्तिदं ह्यस्ति पावनम् ॥ ४ ॥
सुरैरपि प्रपूज्यन्ते यत्राङ्गानि शरीरिणाम् ॥
अङ्कितानि च चक्रेण षण्मासान्नात्र संशयः ॥ ५ ॥
यद्दृष्ट्वा मुच्यते पापात्प्रसङ्गेनापि मानवः ॥
तत्तीर्थं सर्वतीर्थानां पावनं प्रवरं स्मृतम्॥ ॥ ६ ॥
तत्र गत्वा द्विजश्रेष्ठाः प्रक्षाल्य चरणौ मुदा ॥
करौ चास्यं चैव पुनः प्रणमेद्दण्डवत्पुनः ॥ ७ ॥
प्रणिपत्य गृहीत्वार्घ्यं पञ्चरत्नसमन्वितम् ॥
सपुष्पाक्षतगन्धैश्च फलहेमसुचन्दनैः ॥ ८ ॥
सम्पन्नमर्घ्यमादाय मन्त्रमेतमुदीरयेत् ॥
प्रत्यङ्मुखः सुनियतः सम्मुखो वा महोदधेः ॥९॥
ॐ नमो विष्णु रूपाय विष्णुचक्राय ते नमः ॥
गृहाणार्घ्यं मया दत्तं सर्वकामप्रदो भव ॥ 7.4.7.१० ॥
अग्निश्च तेजो मृडया च रुद्रो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्वाडवाः सत्यवाक्यं ततोऽवगाहेत पतिं नदीनाम् ॥११॥
मृदमालभ्य सजलां विप्रा देवकरच्युताम् ॥
धारयित्वा तु शिरसा स्नानं कुर्य्याद्यथाविधि ॥ १२ ॥
तर्पयेच्च पितॄन्देवान्मनुष्यांश्च यथाक्रमम् ॥
तर्पयित्वा हविर्द्रव्यं प्रोक्षयित्वा च भक्तितः ॥ १३ ॥
अश्वमेधसहस्रेण सम्यग्यष्टेन यत्फलम् ॥
स्नानमात्रेण तत्प्रोक्तं चक्रतीर्थे द्विजोत्तमाः ॥ १४ ॥
प्रयागे यत्फलं प्रोक्तं माघ्यां माधवपूजने ॥
स्नानमात्रेण तत्प्रोक्तं चक्र तीर्थे द्विजोत्तमाः ॥ १५ ॥
कारयेच्च ततः श्राद्धं पितॄणां श्रद्धयान्वितः ॥
विश्वेदेवान्सुवर्णेन राजतेन तथा पितॄन् ॥ १६ ॥
सन्तर्प्य भोजनेनैव वस्त्रालङ्कारभूषणैः॥
दीनान्धकृपणेभ्यश्च दानं देयं स्वशक्तितः॥ १७॥
चक्रतीर्थे तीर्थवरे विशेषाद्द्विजसत्तमाः॥
रत्नदानं प्रकुर्वीत प्रीणनार्थं जगत्पतेः ॥ १८ ॥
गन्त्रीमनडुहा युक्तां सर्वास्तरणसंयुताम् ॥
सोपस्करां च दद्याद्वै विष्णुर्मे प्रीयतामिति॥ १९ ॥
सुविनीतं शीलयुतं तथा सोपस्करं हयम् ॥
भूषयित्वा च विप्राय दद्याद्दक्षिणया सह ॥ 7.4.7.२० ॥
एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः॥
मुक्तिं प्रयान्ति तस्यैव पितरस्त्रिकुलोद्भवाः ॥ २१ ॥
प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥
पच्यन्ते नरके ये च महारौरवसञ्ज्ञके ॥ २२ ॥
ते सर्वे तृप्तिमायान्ति चकतीर्थ प्रभावतः ॥
श्राद्धे कृते द्विजश्रेष्ठा गयाश्राद्धफलं लभेत् ॥ २३ ॥
या गतिर्मातृभक्तानां यज्वनां या गतिः स्मृता ॥
चक्रतीर्थे द्विजश्रेष्ठाः स्नात्वा तां लभते नरः ॥ २४ ॥
श्राद्धं प्रशस्तं विप्रेन्द्राः सम्प्राप्ते चन्द्रसङ्क्षये ॥
सूर्यग्रहे विशेषेण कुरुक्षेत्रफलं स्मृतम् ॥
श्राद्धे स्नाने तथा दाने पितॄणां तर्पणे तथा॥ २५ ॥
प्रशस्तं चक्रतीर्थं च नात्र कार्य्या विचारणा ॥ २६ ॥
सर्वदा पावनं विप्राश्चक्रतीर्थं न संशयः ॥
यस्तु श्राद्धं प्रकुर्वीत यात्रायामागतो नरः ॥ २७ ॥
चक्रतीर्थे द्विजश्रेष्ठाः सम्पूज्य मधुसूदनम् ॥
पूजितेषु द्विजेन्द्रेषु विष्णुसान्निध्यमाप्नुयात् ॥ २८ ॥
वाचा कृतं कर्मकृतं मनसां समुपार्जितम् ॥
स्नानमात्रेण तत्पापं नश्यते नात्र संशयः ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसङ्गमतीरस्थचक्रतीर्थमाहात्म्यवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥