०६१ वर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
गङ्गाधरं ततो गच्छेत्सुपुण्यं विमलोदकम् ॥
येन गङ्गा धृता राजन्निपतन्ती नभस्तलात् ॥ १ ॥
आहूता देव देवेन ह्यचलेश्वररूपिणा ॥
हरेण रभसा राजन्यत्पुरा कथितं तव ॥ २ ॥
तत्र यः कुरुते स्नानमष्टम्यां च समाहितः ॥
स गच्छेत्परमं स्थानं देवै रपि सुदुर्लभम् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयऽर्बुदखण्डे गङ्गाधरतीर्थमाहात्म्य वर्णनन्नामैकषष्टितमोऽध्यायः ॥ ६१ ॥