०५८ उमामाहेश्वरतीर्थमाहात्म्यवर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
उमामाहेश्वरं गच्छेत्ततो राजन्सुपुण्यदम्॥
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा ॥ १ ॥
दाम्पत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप ॥
सप्त जन्मान्तराण्येव न स दौर्भाग्यमाप्नुयात ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनन्नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥