०५७ तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
अवियुक्तवनं गच्छेत्ततः पार्थिवसत्तम ॥
यस्मिन्दृष्टे नरोभीष्टैर्न वियुज्येत कर्हिचित् ॥१॥
तत्र पूर्वं शची राजन्प्रविष्टा दुःखसंयुता ॥
नहुषेण हृते राज्ये देवेन्द्रस्य महात्मनः ॥ २ ॥
तत्प्रभावात्पुनः प्राप्तो वियुक्तोऽपि शतक्रतुः ॥
ततस्तस्य वरो दत्तो वनस्य हि तया नृप ॥ ३ ॥
नरो वा यदि वा नारी वियुक्ताऽत्र वने शुभे ॥
प्रियैर्निवास एकस्मिन्रात्रिमेकां वसिष्यति ॥ ४ ॥
स तेन लभते सङ्गं भूय एव यथा मया ॥
प्रियैः स लभते वासमेकरात्रं वसन्नृप ॥ ५ ॥
फलदानं प्रशंसन्ति तत्र ब्राह्मणसत्तमाः ॥
वन्ध्यानां च विशेषेण यतः पुत्रफलं लभेत् ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डेऽवियुक्तक्षेत्रमाहात्म्यवर्णनन्नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥