॥ पुलस्त्य उवाच ॥ ॥
ततस्त्रिपुष्करं गच्छेदभीष्टं पद्मजस्य च ॥
ब्रह्मणा तत्समानीतं पर्वतेऽर्बुदसञ्ज्ञके ॥ १ ॥
वसिष्ठस्य पुरा सत्रे वर्त्तमाने नराधिप ॥
तस्मिन्नगे समायाता ब्रह्माद्याश्च सुरोत्तमाः ॥ २ ॥
प्रतिज्ञातं महाराज ब्रह्मणाऽव्यक्तजन्मना ॥
यावत्स्थास्ये नृलोकेऽस्मिंस्तावत्सन्ध्यां त्रिपुष्करे ॥
वन्दयिष्यामि सम्प्राप्ते सन्ध्याकाले समाहितः ॥ ३ ॥
एतस्मिन्नेव काले तु प्रस्थितः पुष्करं प्रति ॥
सन्ध्यार्थं पद्मजो यावद्वसिष्ठस्तावदब्रवीत् ॥ ४ ॥
॥ वसिष्ठ उवाच ॥ ॥
कर्मकालश्च सम्प्राप्तो यज्ञेऽस्मिन्सुरसत्तम ॥
स विना न त्वया देव सिद्धिं यास्यति कर्हिचित् ॥ ५॥
तस्मादानय चात्रैव पद्मयोने त्रिपुष्करम् ॥
सन्ध्योपास्तिं ततः कृत्वा तत्र भूयः सुरेश्वर ॥
ब्रह्मत्वं कुरु देवेश सत्रे चास्मिन्दयानिधे ॥ ६ ॥
एवमुक्तो वसिष्ठेन ब्रह्मा लोक पितामहः ॥
ध्यात्वा तत्रानयामास ज्येष्ठमध्यकनिष्ठिकम् ॥
पुष्करत्रितयं चागात्सुपुण्ये सलिलाशये ॥ ७ ॥
ततःप्रभृति सञ्जातमर्बुदेऽस्मिंस्त्रिपुष्करम् ॥ ८ ॥
तत्र यः कार्तिके मासि पौर्णमास्यां समाहितः ॥
स्नानं करोति दानं च तस्य लोकाः सनातनाः ॥ ९ ॥
तस्य चोत्तरदिग्भागे सावित्रीकुण्डमुत्तमम् ॥
स्नानदानादिकं कुर्वन्यत्र याति शुभां गतिम् ॥ 7.3.54.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे त्रिपुष्करमाहात्म्यवर्णनन्नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ ॥