०५१ चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनम्

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ चन्द्रोद्भेदमनुत्तमम् ॥
तीर्थं पापहरं नृणां निशानाथेन निर्मितम् ॥ १ ॥
प्रतिज्ञातं यदा राजन्ग्रहणे चन्द्रसूर्ययोः ॥
राहुणा कृतवैरेण च्छिन्ने शिरसि विष्णुना ॥ २ ॥
तदा भयान्वितश्चन्द्रो मत्वा दैत्यं दुरासदम्॥
पीयूषभक्षणोद्युक्तं ततश्चार्बुदमभ्यगात् ॥ ३ ॥
तत्र भित्त्वा गिरेः शृङ्गे कृत्वा विवरमुत्तमम्॥
प्रविष्टस्तस्य मध्ये तु तपस्तेपे सुदुश्चरम्॥ ४ ॥
ततः कालेन महता तुष्टस्तस्य महेश्वरः ॥
अब्रवीद्वृणु भद्रं ते वरं यत्ते हृदिस्थितम् ॥ ५ ॥
॥ चन्द्र उवाच ॥ ॥
प्रतिज्ञातं सुरश्रेष्ठ राहुणा ग्रहणं मम ॥
बलवानेष दुर्धर्षः प्रकृत्या सिंहिकासुतः ॥ ६ ॥
साम्प्रतं भक्षितं तेन पीयूषं सुरसत्तम ॥
अहं मध्ये धृतश्चापि राहुणाऽसौ दुरासदः ॥ ७ ॥
पीयमानेऽमृते देव देवैः पूर्वं पराजितैः ॥
दैवतं रूपमास्थाय दानवोऽसौ समागतः ॥ ८ ॥
अपिबच्चामृतं राहुस्तेनास्य मृत्युवर्जितम् ॥
अमृतं चाक्षयं जातं शिरो देवभयप्रदम् ॥ ९ ॥
ततो देवैः कृतं साम ग्रहमध्ये प्रतिष्ठितः ॥
प्रतिज्ञाते ग्रहेऽस्माकं ततो मे भयमाविशत् ॥ 7.3.51.१० ॥
भयात्तस्य सुरश्रेष्ठ भित्त्वा शृङ्गं गिरेरिदम् ॥
कृतं श्वभ्रमगाधं च तपोऽर्थं सुरसत्तम ॥
तस्मादत्र प्रसादं मे कुरु कामनिषूदन ॥ ११ ॥
॥ भगवानुवाच ॥ ॥
अवध्यः सर्वदेवानामजेयः स महाबलः ॥
करिष्यति ग्रहं नूनं राहुः कोपपरायणः ॥
परं तव निशानाथ करिष्येऽहं प्रतिक्रियाम् ॥ १२ ॥
ग्रहणे तव सम्प्राप्ते स्नानदानादिकाः क्रियाः ॥
करिष्यन्ति जना लोके सम्यक्छ्रेयःसमन्विताः ॥ १३ ॥
ताभिस्तव न सन्तापः स्वल्पोऽप्येवं भविष्यति ॥
अक्षयं सुकृतं तेषां कृतं कर्म भविष्यति ॥ १४ ॥
ग्रहणे तव सञ्जाते मम वाक्यादसंशयम् ॥
एतद्भिन्नं त्वया यस्मात्तपोऽर्थं शिखरं गिरेः ॥
चन्द्रोद्भेदमिति ख्यातं तीर्थं लोके भविष्यति ॥ १५ ॥
ग्रहणे तव सम्प्राप्ते योऽत्र स्नानं करिष्यति ॥
न तस्य पुनरेवात्र जन्म लोके भविष्यति ॥१६॥
यो वा सोमदिने स्नानं दर्शनं तत्र चाचरेत् ॥
तव लोके ध्रुवं वासस्तस्य चन्द्र भविष्यति ॥ १७ ॥
एवमुक्त्वा स भगवांस्ततश्चान्तर्दधे हरः॥
चन्द्रोऽपि प्रययौ हृष्टः स्वस्थानं नृपसत्तम ॥ १८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे चन्द्रोद्भेदतीर्थमाहात्म्यवर्णनन्नामैकपञ्चाशत्तमोऽध्यायः ॥ ॥ ५१ ॥