॥ पुलस्त्य उवाच ॥ ॥
ततो व्यासेश्वरं गच्छेद्व्यासेन स्थापितं हि यत् ॥
तं दृष्ट्वा जायते मर्त्यो मेधावी मतिमाञ्छुचिः ॥
सप्तजन्मान्तराण्येव व्यासस्य वचनं यथा ॥ १ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे व्यासतीर्थमाहात्म्यवर्णनन्नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥ ॥