पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ गजतीर्थमनुत्तमम् ॥
यत्र पूर्वं तपस्तप्तं दिग्गजैर्भावितात्मभिः ॥ १ ॥
भूभारधरणैश्चान्यैरैरावणमुखैर्नृप ॥
तत्र स्नातो नरः सम्यग्गजदानफलं लभेत् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे गजतीर्थप्रभाववर्णनन्नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥